________________
आ. सू. ४६ श्रीआचा
राङ्गवृत्तिः (शी०)
॥ २७९ ॥
181
मायोज्यं, शून्यागारे वा गिरिगुहायां वा 'हुरत्था व'त्ति अन्यत्र वा प्रामादेर्बहिस्तं भिक्षं क्वचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'ब्रूयाद्' वदेदिति, यच्च ब्रूयात्तद्दर्शयितुमाह-साधुं श्मशानादिषु परिक्रमणादिकां क्रियां कुर्वाणमुपसङ्क्रम्य-उपेत्य पूर्वस्थितो वा गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमुद्दिश्यै तद्भूयात्-यथैते लब्धापलब्धभोजिनः त्यक्तारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुपतिष्ठते, वक्ति च- आयुष्मन् ! भोः श्रमण ! अहं संसारार्णवं समुत्तितीर्षुः 'खलुः' वाक्यालङ्कारे 'तत्रार्थाय' युष्मनिमित्तं अशनं वा पानं वा खादिमं वा स्वादिमं वा तथा वस्त्रं वा पतग्रहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्यआश्रित्य किं कुर्यादिति दर्शयति--पश्ञ्चेन्द्रियोच्छ्रासनिश्वासादिसमन्विताः प्राणिनस्तान् अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि तथा जीवितवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान्, सक्ताः सुखदुःखेष्विति सत्त्वास्तान् समारभ्य - उपमर्थ, तथाहि - अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा कश्चित्प्रतिपद्येत, इयं चाविशुद्धिकोटिगृहीता, सा चेमा - " आहाकम्मुद्देसिअ मीसज्जा बायरा य पाहुडिआ । पूइअ अज्झोयरगो उग्गमकोडी अ छन्भेआ ॥ १ ॥" विशुद्धिकोटिं दर्शयति- 'क्रीतं' मूल्येन गृहीतं 'पामिच्चं ति अपरस्मादुच्छिन्नमुद्यतकं गृहीतं, वलात्कारितया वाऽन्यस्मादाच्छिद्य राजोपसृष्टो वाऽन्येभ्यो गृहिभ्यः साधोर्दास्यामीत्याच्छिन्द्यात्, तथा 'अनिसृष्टं' परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं दत्तं तदनिसृष्टं तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहादाहृत्य
१ आधाकमौद्देशिके मिश्रजातं बादरा व प्राकृतिका । पूतिव अध्यवपूरक उद्गमकोटी व षड्भेदा ॥ १ ॥
'चे एमि'त्ति ददामि तुभ्यं वितरामि, एवमशनादिकमुद्दिश्य ब्रूयात्, तथा 'आवसथं वा' युष्मदाश्रयं समुच्छृणोमि - आदेरारभ्यापूर्व करोमि संस्कारं वा करोमीत्येवं प्राञ्जलिरवनतोत्तमाङ्गः सन् अशनादिना निमन्त्रयेत्, यथा- भुङ्क्ष्वाशना - दिकं मत्संस्कृतावसथे वसेत्यादि, द्विवचनबहुवचने अध्यायोज्ये । साधुना तु सूत्रार्धविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह - आयुष्मन् ! श्रमण ! भिक्षो! तं गृहपतिं समनसं सवयसमन्यथाभूतं वा प्रत्याचक्षीत, कथमिति चेद्दर्शयति -यथा आयुष्मन् ! भो गृहपते ! न खलु तवैवंभूतं वचनमहमाद्रिये, खलुशब्दोऽपिशब्दार्थे, स च समुच्चये, नापि तवैतद्वचनं 'परिजानामि' आसेवनपरिज्ञानेन परिविदधेऽहमित्यर्थः, यस्त्वं मम कृतेऽशनादि प्राण्युपमर्देन विदधासि यावदावसथसमुच्छ्रयं विदधासि भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानात् कथम् ? - एतस्य - भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमभ्युपगमं न जानेऽहमिति ॥ तदेवं प्रसह्याशनादिसंस्कारप्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह
से भिक्खुं परिक्कमिज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाई गाए हाए असणं वा ४ वत्थं वा ४ जाव आहद्दु चेएइ आवसहं वा समुसिणाइ भिक्खू परिघासेउं, तं च भिक्खू जाणिजा सहसम्मइयाए परवागरणेणं अन्नेसिं वा सुच्चा-अयं खलु गाहावई मम अट्ठाए असणं वा ४ वत्थं वा ४ जाव आवसहं वा समुस्सिणाइ, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेare तिमि (सू० २०३ )
तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसङ्क्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयानाविष्कृताभिप्रायः केनचिदलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकं प्राण्युपमर्देनारभेत, किमर्थमिति चेद्दर्शयति - तदशनादिकं भिक्षु 'परिघासयितुं' भोजयितुं, साधुभोजनार्थमित्यर्थः, आवसथं च साधुभिरधिवासयितुमिति, तदशनादिकं साध्वर्थ निष्पादितं भिक्षुः 'जानीयात्' परिच्छिन्द्यात्, कथमित्याह - स्वसम्मत्या परव्याकरणेन वा तीर्थकरो| पदिष्टोपायेन वा अन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वा जानीयादिति वर्त्तते, यथाऽयं खलु गृहपतिर्मदर्थमशनादिकं प्राण्युपमर्देन विधाय मह्यं ददात्यावसथं च समुच्छ्रणोति, तद्भिक्षुः सम्यकू 'प्रत्युपेक्ष्य' पर्यालोच्यावगम्य च ज्ञात्वा 'ज्ञापयेत्' तं गृहपतिमनासेवनया यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाहं भुजे एवं तस्य ज्ञापनं कुर्याद्, यद्यसौ श्रावकस्ततो लेशतः पिण्डनिर्युक्तिं कथयेद्, अन्यस्य च प्रकृतिभद्रकस्योद्गमादिदोषानाविर्भावयेत् प्रासुकदानफलं च प्ररूपयेत्, यथाशक्तितो धर्म्मकथां च कुर्यात्, तद्यथा - "काले देशे कल्प्यं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सद्भ्यः ॥ १ ॥” तथा - "दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन । वटकणिकेव महान्तं न्यग्रोधं सत्फलं कुरुते ॥ २ ॥ दुःखसमुद्रं प्राज्ञास्तरन्ति पात्रार्पितेन दानेन । लघुनेव मकरनिलयं वणिजः सद्यानपात्रेण ॥ ३ ॥" इत्यादि, इतिरधिकारपरिसमाप्तौ ब्रवीमीत्येतत्पूर्वोक्तं वक्ष्यमाणं चेत्याह
Jain Education International
For Private
Personal Use Only
विमो० ८
उदेशकः २
॥ २७१ ॥
www.jainelibrary.org