________________
श्रीआचारामवृत्तिः (शी०) ॥२६९॥
विमो०८ उद्देशकार
X430X4X4X***********
180 उर्ल अहं तिरियं दिसासु सव्वओ सव्वावति च णं पाडियकं जीवहिं कम्मसमारम्भे णं तं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिजा नेवन्ने एएहिं काएहिं दंड समारंभाविजा नेवन्ने एएहिं काएहिं दंडं समारंभंतेऽवि समणुजाणेजा जेवऽन्ने एएहिं काएहिं दंडं समारंभंति तेसिंपि वयं लज्जामो तं परिन्नाय मेहावी तं वा दंडं अन्नं वा नो दंडभी दंडं समारंभिजासि त्तिवेमि (सू० २०१)॥ विमोक्षाध्ययनो
देशकः ८-१॥ ऊर्दूमधस्तिर्यग्दिक्षु 'सर्वतः' सर्वैः प्रकारैः सर्वा याः काश्चन दिशः चशब्दादनुदिशश्च 'णम्' इति वाक्यालङ्कारे 'प्रत्येक जीवेषु' एकेन्द्रियसूक्ष्मेतरादिकेषु यः कर्मसमारम्भः-जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः 'णम्' इति वाक्यालङ्कारे तं कर्मसमारम्भं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत, कोऽसौ ?-'मेधावी' मर्यादाव्यवस्थित इति, कथं प्रत्याचक्षीतेत्याह-नैव स्वयमात्मना 'एतेषु' चतुर्दशभूतग्रामावस्थितेषु 'कायेषु' पृथिवीकायादिषु 'दण्डम्' उपमर्द समारभेत, न चापरेण समारम्भयेत्, नैवान्यान् समारभमाणान् समनुजानीयात् , ये चान्ये दण्डं समारभन्ते, सुव्यत्ययेन तृतीयार्थे षष्ठी, तैरपि वयं लज्जाम इत्येवं कृताध्यवसायः सन् तज्जीवेषु कर्मसमारम्भं महतेऽनर्थाय 'परिज्ञाय' ज्ञात्वा 'मेधावी' मर्यादावान्, तथा पूर्वोक्तं दण्डमन्यद्वा मृषावादादिकं दण्डाद्विभेतीति दण्डभीः सन् नो 'दण्ड || प्राण्युपमर्दादिकं समारभेथाः, करणत्रिकयोगत्रिकेण परिहरेदिति, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । विमोक्षा-| ध्ययने प्रथमोद्देशक इति ॥
॥२६९॥
श्रीआचाराङ्गवृत्तिः (शी०)
**SAASAASAAS 24240SXXX***NA***
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशकेऽनघसंयमप्रतिपालनाय कुशीलपरित्यागोऽभिहितः, स चैतावताऽकल्पनीयपरित्यागमृते न सम्पूर्णतामियाद् अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से भिक्खू परिकमिज वा चिंट्रिज वा निसीइज्ज वा तुहिज वा सुसाणंसि वा सुनागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावई बूया-आउसंतो समणा! अहं खलु तव अट्टाए असणं वा पाणं वा खाइमं वा साइमं का वत्थं वा पडिग्गहं वा कंबलं वा पाचपुच्छणं का पाणाइं भूयाई जीवाई सत्ताई समास्भ समुदिस्स कीयं पामिचं अच्छिजं अणिसटुं अभिहडं आह१ चेएमि आवसहं वा समुस्सिणोमि से भुंजह व- विमो०८ सह, आउसंतो समणा! भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे-आउ
उद्देशकार संतो! गाहावई नो खल्लु ते वयणं आढामि नो खलु ते वयणं परिजाणामि, जो तुम मम अदाए असणं वा ४ वत्थं वा ४ पाणाडं वा ४ समारम्भ समृदिस्स कीयं पामिचं अच्छिजं अणिसटुं अभिहडं आहटु चेएसि आवसहं वा समुस्सिणासि, से
विरओ आउसो गाहावई ! एयस्स अकरणयाए (सू० २०२) 'स' कृतसामायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढो भिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा 'पराक्रमेत' विहरेत् तिष्ठेद्वा ध्यानव्यग्रो निषीदेद्वा अध्ययनाध्यापनश्रवणश्रावणाहतः, तथा श्रान्तः क्वचिदध्वानादौ त्वग्वत्तेनं वा विदध्यात्, कैतानि विदध्यादिति दर्शयति-'श्मशाने वा' शबानां शयनं श्मशानं-पितृवनं तस्मिन् वा, तत्र च त्वग्वर्त्तनं न सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यं, तथाहि-गच्छवासिनस्तत्र स्थानादिकं न कल्पते, प्रमादस्खलि| तादौ व्यन्तराद्युपद्रवात् , तथा जिनकल्पार्थं सत्त्वभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः, प्रतिमाप्रति-|| ॥२७०॥ पन्नस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानं, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम् , एवमन्यदपि यथासम्भव
॥२७
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org