SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ' 179 । AA%%ARACHAR विमो०० उद्देशका स्याद्, अनिष्टं चैतत् , किं च-अस्तेर्व्यापकत्वे लोकस्य घटपटादेरपि लोकत्वप्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात् , किं च-अस्ति लोकः इत्येषापि प्रतिज्ञा लोक इतिकृत्वा हेतोरप्यस्तित्वात्, प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्वभावः, तदभावे किं केन सिद्ध्यतीति?, उतास्तित्वादन्यो लोक इत्येवं च प्रतिज्ञाहानिः स्यात् , तदेवमेकान्तेनैव लोकास्तित्वेऽभ्युपगम्यमाने हेत्वभावः प्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि वाच्यं, तथाहि-नास्ति लोक इति ब्रुवन् वाच्यःकिं भवानस्त्युत नेति?, यद्यस्ति किं लोकान्तर्वी न वेति, यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीषि?, अथ बहिर्भूतस्ततः खरविषाणवदसद्भूत एवेति कस्य मयोत्तरं दातव्यम् , इत्यनया दिशैकान्तवादिनः स्वयमभ्यूह्य प्रतिक्षेप्तव्या इति, ‘एव' मिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिको-नियुक्तिकः, एवं धुवाध्रुवादयोऽपि वादा नियुक्तिका एवेति, अस्माकं तु स्याद्वादवादिनां कथञ्चिदभ्युपगमान्न यथोक्तदोषानुषङ्गो, यतः स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्वम् , अतः स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयान्नास्तीति, उक्तं च-"सदेव सर्व को नेच्छेत् , स्वरूपादिचतुष्टयात्? । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥१॥” इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थत्वात् प्रयासस्य, एवं ध्रुवाधुवादिष्वपि पञ्चावयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यूह्यायोज्य इति । साम्प्रतमुपसंहरति एवं' उक्तनीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति ॥ किं स्वमनीषिकया भवतेदमभिधीयते ?, नेत्याह-यदिवा किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह से जहेयं भगवया पवेड्यं आसुपन्नेण जाणया पासया अदुवा गुत्ती वओगोयरस्स श्रीआचा- त्तिबेमि सव्वत्थ संमयं पावं, तमेव उवाइक्वम्म एस महं विवेगे वियाहिए, गामे वा राङ्गवृत्तिः अदुवा रणे नेव गामे नेव रणे धम्ममायाणह पवेइयं माहणेण मइमया, जामा (शी०) तिन्नि उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुट्ठिया, जे णिव्वुया पावेहिं ॥२६८॥ कम्मेहिं अणियाणा ते वियाहिया (सू० २००) तद्यथा 'इदं' स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि कचिदप्यप्रतिहतं 'भगवता' श्रीवर्द्धमानस्वामिना प्रवेदितम्, एतद्वाऽनन्तरोक्तं भगवता प्रवेदितमिति, किम्भूतेनेति दर्शयति-आशुप्रज्ञेन, निरावरणत्वात् सततोपयुकेनेत्यर्थः, किं योगपद्येन ?, नेति दर्शयति-'जानता' ज्ञानोपयुक्तेन, तथा 'पश्यता' दर्शनोपयुक्तेनैतत्प्रवेदितं, यथा नैपामेकान्तवादिनां धर्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य-भाषासमितिः कार्येत्येतत्प्रवेदितं भगवता, यदिवा अस्ति नास्ति ध्रुवाधुवादिवादिनां वादायोत्थितानां त्रयाणां त्रिषष्ट्याधिकानां प्रावादुकशतानां वादलब्धिमतां प्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेन च तत्पराजयापादनतः सम्यगुत्तरं देयम्, अथवा गुप्तिाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि, वक्ष्यमाणं चेत्याह-तान् वादिनो वादायोत्थितानेवं ब्रूयाद्-यथा भवतां सर्वेपामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भ' कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र ‘सम्मतम्' अभिप्रेतमप्रतिषिद्धं 'पाप' पापानुष्ठानं, मम तु नैतत्सम्मतमित्येतदर्शयितुमाह-तदेव' एतत्पापानुष्ठानमुप-सामीप्येनातिक्रम्य-अतिलध्य यतोऽहं व्यवस्थि तोऽत एप मम विवेको व्याख्यातः, तत्कथमहं सर्वाप्रतिषिद्धास्रवद्वारैः संभाषणमपि करिये ?, आस्ता ताबद्वाद इत्येएवमसमनुज्ञविवेकं करोतीति, अत्राह चोदकः-कथं तीर्थकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतप स्विनो वेति ?, तथाहि-तेऽप्यकृष्टभूमिवनयासिनो मूलकन्दाहारा वृक्षादिनिवासिनश्चेति, अत्राहाचार्यः-नारण्यवासादिना धर्मः, अपि तु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽसमनोज्ञास्ते इति । किं च-सदसद्विवेकिनो हि धर्मः, स च ग्रामे वा स्यात् अथवाऽरण्ये, नैवाधारो ग्रामो नैवारण्यं धर्मनिमित्तं, यतो भगवता न वसिममितरद्वाऽऽश्रित्य धर्मः प्रवेदितः, अपि तु जीवादितत्त्वपरिज्ञानात् सम्यगनुष्ठानाच्च, अतस्तं धर्ममाजानीत 'प्रवेदितं' कथितं 'माहणेण'त्ति भगवता, किम्भूतेन ?-'मतिमता' मनन-सर्वपदार्थपरिज्ञानं मतिस्तद्वता मतिमता केवलिनेत्यर्थः। किंभूतो धर्मः प्रवेदित इत्याह-'यामा' व्रतविशेषाः त्रय उदाहृताः, तद्यथा-प्राणातिपातो मृपावादः परिग्रहश्चेति, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, यदिवा यामा-वयोविशेपाः, तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत ऊर्द्धमाषप्टेः द्वितीयस्तत ऊर्द्ध तृतीय इति अतिबालवृद्धयोगुंदासो, यदिवा यम्यते-उपरम्यते संसारभ्रमणादेभिरिति यामाः-ज्ञानदर्शनचारित्राणीति ते 'उदाहृता' व्याख्याताः, यदि नामैवं ततः किमित्याह-'येषु' अवस्थाविशेषेषु ज्ञानादिषु वा इमे देशार्या अपाकृतहेयधर्मा वा सम्बुध्यमानाः सन्तः समुत्थिताः, के ?-ये 'निवृताः' क्रोद्याद्यपगमेन शीतीभूताः पापेषु कर्मसु 'अनिदाना' निदानरहिताः ते 'व्याख्याताः' प्रतिपादिता इति ॥ क्व च पुनः पापकर्मस्वनिदाना इत्यत आह २६८।। ..NAL Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy