SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 178 R-5--- -- विनाशयोः, असतो"" इत्यादि, तथा साइतकानि शरीराणि, विषाश्चिन्त्यन्ते, ॥२६ श्रीआचा- यतया भूताभ्युपगमोऽपि तेषामतो नास्ति परलोकानुयायी जीवो, न स्तः शुभाशुभे, किण्वादिभ्यो मदशक्तिवद्भूतेभ्य विमोद राङ्गवृत्तिः एव चैतन्यमित्यादिना सर्व मायाकारगन्धर्वनगरतुल्यम् , उपपत्त्यक्षमत्वादिति, उक्तं च-“यथा यथाऽर्थाश्चिन्त्यन्ते, (शी०) विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम् ? ॥१॥ भौतिकानि शरीराणि, विषयाः करणानि 31 न । तथापि मन्दैरन्यस्य, तत्त्वं समुपदिश्यते ॥ २ ॥” इत्यादि, तथा साङ्ख्यादय आहुः-'ध्रुवो' नित्यो लोकः, ॥२६६॥ आविर्भावतिरोभावमात्रत्वादुसादविनाशयोः, असतोऽनुत्पादात् सतश्चाविनाशात्, यदिवा 'धुवः' निश्चलः, सरिसमुद्रभूभूधराम्राणां निश्चलत्वात् , शाक्यादयस्त्वाहुः-अधुवो लोकोऽनित्यः, प्रतिक्षणं विशरारुस्वभावत्वात् , विनाशतोरभावात् नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियायामसामर्थ्यात् , यदिवा 'अध्रुवः' चलः, तथाहि-भूगोलः केषाचिन्मतेन नित्य चलन्नेवास्ते, आदित्यस्तु व्यवस्थित एत्र, तत्रादित्यमण्डलं दूरत्वाद्ये पूर्वतः पश्यन्ति तेषामादित्योदयः आदित्यमण्डलाधो व्यवस्थितानां मध्याह्नः ये तु दूरातिक्रान्तत्वान्न पश्यन्ति तेषामस्तमित इति, अन्ये पुनः सादिको लोक इति प्रतिपन्नाः, तथा चाहुः-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः । ॥१॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥२॥ केवलं गहरीभूते, महाभूतविवजिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥ ३ ॥ तस्य तत्र शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥ ४॥ तस्मिन् पझे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जग मातरः सृष्टाः ॥ ५॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराहाणाम् ॥ ६॥ कद्रूः सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥ ७॥" इत्यादि, अपरे तु पुनरनादिको लोक इत्येवं प्रतिपन्नाः, यथा शाक्या एवमाहुः-अनवदग्रोऽयं भिक्षवः! संसारः, पूर्वा च कोटी न प्रज्ञायते, अविद्या निरावरणानां सत्त्वानां न विद्यते, न च सत्त्वोत्पाद इति, तथा सपर्यवसितो लोको, जगत्प्रलये सर्वस्य विनाशसद्भावात् , तथाऽपर्यवसितो लोकः, सतः आत्यन्तिकविनाशासम्भवात् , 'न कदाचिदनीदर्श जगदिति वचनात् , तत्र येषां सादिकस्तेषां सपर्यवसितो येषां त्वनादिकस्तेषामपर्यवसित इति, केषाश्चित्तूभयमपीति, तथा चोक्तम्-"द्वावेव पुरुषौ लोके, क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि, कूटस्थोऽक्षर उच्यते ॥१॥" इत्यादि, तदेवं परमार्थमजानाना अस्तीत्याद्यभ्युपगमेन लोकं विवदमानाः नानाभूता वाचो नियुञ्जन्ति, तथाऽऽत्मानमपि प्रति विवदन्ते, तद्यथा-सुष्टु कृतं सुकृतमिति वा दुष्कृतमिति वेत्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्ठ कृतं यत् सर्वसङ्गपरित्यागतो महानतमग्राहि, तथाऽपरे दुष्कृतं भवता यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्योज्झितेति, तथा य एव कश्चित्प्रत्रज्योद्यतः कल्याण इत्येवमभिहितः स एवापरेण पाखण्डिकविप्रलब्धः क्लीबोऽयं गृहाश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वा असाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते, तथा सिद्धिरिति वा असिद्धिरिति वा नरक इति वा अनरक इति वा, एवमन्यदप्याश्रित्य स्वाग्रहग्रहिणो विवदन्त इति दर्शयति, 'यदिदं विप्रतिपन्ना' यत्पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्रतिपन्नाः, तथा चोक्तम्-"इच्छंति कृत्रिमं सृष्टिवा दिनः सर्वमेव मितिलिङ्गम् । कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् ॥ १॥ नारीश्वरजं केचित् केचित्सोमाग्निसम्भवं श्रीआचा- लोकम् । द्रव्यादिपडिकल्पं जगदेतत्केचिदिच्छन्ति ॥२॥ ईश्वरप्रेरितं केचित्केचिद्ब्रह्मकृतं जगत् । अव्यक्तप्रभवं सर्व, विमो०८ राङ्गवृत्तिः विश्वमिच्छन्ति कापिलाः ॥ ३ ॥ यादृच्छिकमिदं सर्व, केचिद्भूतविकारजम् । केचिच्चानेकरूपं तु, बहुधा संप्रधाविताः (शी०) ॥४॥” इत्यादि, तदेवमनवगाहितस्याद्वादोदन्वतामेकांशावलम्बिनां मतिभेदाः प्रादुष्ष्यन्ति, तदुक्तम्-"लोकक्रिया उद्देशकः१ VIssत्मतत्त्वे विवदन्ते वादिनो विभिन्नार्थम् । अविदितपूर्व येषां स्याद्वादविनिश्चितं तत्त्वम् ॥१॥" येषां तु पुनः स्याद्वादमतं । ।।२६७॥ निश्चितं तेपामस्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथञ्चिदाश्रयणात् विवादाभाव एवेति, अत्र च बहु वक्तव्यं तत नो|च्यते, ग्रन्थविस्तरभयाद्, अन्यत्र च सूत्रकृतादौ विस्तरेण सुविहितत्वादिति । ते च विवदन्तः परस्परतो विप्रतिपन्नाः 'मामकम्' इत्यात्मीयं धर्म प्रज्ञापयन्तः स्वतो नष्टाः परानपि नाशयन्ति, तथाहि केचित्सुखेन धर्ममिच्छन्ति अपरे दुःखेनान्ये स्नानादिनेति, तथा मामक एवैको धम्मो मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदितपरमाथान् प्रतारयन्ति, तेषामुत्तरं दर्शयति-'अत्रापि' अस्ति लोको नास्ति वेत्यादौ जानीत यूयम् 'अकस्मादिति मागधदेशे आगोपालाङ्गनादिना संस्कृतस्यैवोच्चारणादिहापि तथैवोच्चारित इति, कस्मादिति हेतुर्न कस्मादकस्माद् हेतोरभावादित्यर्थः, तत्रास्ति लोक इत्युक्तेऽत्राप्येवं जानीत यथा न भवत्येवमकस्माद्, हेतोरभावादिति, तथाहि-योकान्तेनैव लोकोऽस्ति । ततोऽस्तिना सह समानाधिकरण्याद्यदस्ति तल्लोकः स्याद् एवं च तत्प्रतिपक्षोऽप्यलोकोऽस्तीतिकृत्वा लोक एवालोकः स्याद्, व्याप्यसद्भावे व्यापकस्यापि सद्भावादलोकाभावः, तदभावे च तत्प्रतिपक्षभूतस्य लोकस्य प्रागेवाभावः सर्वगतत्वं ॥२६७॥ वा लोकस्य स्यादिति, अथवा लोकोऽस्ति, न च लोको भवति, लोकोऽपि नामास्ति, न च लोकोऽलोकाभाव इत्येवं BAS Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy