________________
177
सोऽहं ब्रवीमि योऽहं भगवतः सकाशात् ज्ञातज्ञेय इति, किं तद्रवीमि -वक्ष्यमाणं, तद्यथा-'समनोज्ञस्य वा' दावाशब्द उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञो दृष्टितो लिङ्गतो न तु भोजनादिभिः तस्य, तद्विपरीतस्त्वसमनोज्ञः
शाक्यादिस्तस्य वा, अश्यत इत्यशनं-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम-नालिकेरादि, स्वाद्यत इति स्वादिम-कर्पूरलवङ्गादि, तथा वस्त्रं वा पात्रं वा पतनहं वा कम्बलं वा पादपुञ्छनं वा, नो प्रदद्यात्-प्रासुकमप्रासुकं वा तदन्येषां कुशीलानामुपभोगाय नो वितरेत, नापि दानार्थ निमन्त्रयेत्, न च तेषां वैया
वृत्त्यं कुर्यात्, परम्-अत्यर्थमाद्रियमाण इति, अत्यर्थमादरवान्न तेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् न च ४ तेषां वैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकारपरिसमाप्तौ ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह
धुवं चेयं जाणिज्जा असणं वा जाव पायपुंछणं वा लभिया नो लभिया भुंजिया नो भुजिया पंथं विउत्ता विउक्कम्म विभत्तं धम्मं जोसेमाणे समेमाणे चलेमाणे पाइजा
वा निमंतिज वा कुजा वेयावडियं परं अणाढायमाणे तिबेमि (सू० १९८) ते हि शाक्यादयः कुशीला अशनादिकमुपदश्वं ब्रयुः, यथा-ध्रुवं चैतजानीयात्-नित्यमस्मदावसथे भवति लभ्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वावाऽलब्ध्वा वा भुक्त्वा वाऽभुक्त्वा वा अस्मद्धृतयेऽवश्यमागन्तव्यं, अलब्धे
श्रीआचाराङ्गवृत्तिः
विमो०८ उद्देशकः१
(शी०)
॥२६५॥
॥२६५॥
लाभाय लब्धेऽपि विशेषाय भुक्ते पुनः पुनर्मोजनायाभुक्तेऽपि प्रथमालिकार्थमस्मद्धृतये यथाकथञ्चिदागन्तव्यं, यद्यथा वा भवतां कल्पनीयं भवति तत्तथा दास्याम इति, अनुपथ एवास्मदावसथो भवतां वर्तते, अन्यथाऽप्यस्मत्कृते पन्थानं व्यावापि वक्रपथेनाप्यागन्तव्यमपक्रम्य वाऽन्यगृहाणि समागन्तव्यं, नात्रागमने खेदो विधेयः, किम्भूतोऽसौ शाक्यादिरिति दर्शयति-'विभक्तं' पृथग्भूतं धर्म 'जुषन्' आचरन् , एतच्च कदाचित्प्रतिश्रयमध्येन 'समेमाणे त्ति समागच्छन् तथा 'चलेमाणे'त्ति गच्छन् ब्रूयाद् यदिवाऽशनादि प्रदद्यात् अशनादिदानेन वा निमन्त्रयदन्यद्वा प्रश्रयवद्वैयावृत्त्यं कुर्यात् , तस्य कुशीलस्य नाभ्युपेयात् न तेन सह संस्तवमपि कुर्यात् , कथं परम्-अत्यर्थमनाद्रियमाणः-अनादरवान्, एवं हि दर्शनशुद्धिर्भवतीति ब्रवीमीत्येतत्पूर्वोक्तं ॥ यदि वैतद्वक्ष्यमाणमित्याह
इहमेगेसिं आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणओ यावि समणुजाणमाणा अदुवा अदिन्नमाययंति अदुवा वायाउ विउज्जंति, तंजहा-अत्थि लोए नत्थि लोए धुवे लोए अधुवे लोए साइए लोए अणाइए लोए सपज्जवसिए लोए अपज्जवसिए लोए सुकडेत्ति वा दुक्कडेत्ति वा कल्लाणेत्ति वा पावेत्ति वा साहुत्ति वा असाहुत्ति वा सिद्धित्ति वा असिद्धिसि वा निरएत्ति वा अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्म पन्नवेमाणा इत्थवि जा
णह अकस्मात् एवं तेसिं नो सुयक्खाए धम्मे नो सुपन्नत्ते धम्मे भवइ (सू० १९९) 'इह' अस्मिन्मनुष्यलोके 'एकेषां' पुरस्कृताशुभकर्मविपाकानामाचरणमाचारो-मोक्षार्थमनुष्ठानविशेपस्तस्य गोचरो| विषयः नो सुष्टु निशान्तः-परिचितो भवति, ते चापरिणताचारगोचरा यथाभूताः स्युः तथा दर्शयितुमाह-'ते' अनधीताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीपहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणामिताः 'इह' मनुष्यलोके आरम्भार्थिनो भवन्ति, ते वा शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः, तथा विहारारामतडागकूपकरणोदेशिकभोजनादिभिर्धर्म वदन्तोऽनुवदन्तः, तथा जहि प्राणिन इत्येवमपरैर्घातयन्तो नतश्चापि समनुजानन्तः, अथवा अदत्तं परकीयं द्रव्यमगणितविपाकास्तिरोहितशुभाध्यवसायाः 'आददति' गृह्णन्तीति, किं च-तत्र प्रथमतृतीयव्रते अ-1 ल्पवक्तव्यत्वात् पूर्व प्रतिपाद्य ततो वहुतरवक्तव्यत्वात् द्वितीयव्रतोपन्यास इति, 'अथवेति' पूर्वस्मात् पक्षान्तरोपक्षेपकः, तद्यथा अदत्तं गृह्णन्त्यथवा वाचो विविधं-नानाप्रकारा युञ्जन्ति, 'तद्यथे'त्युपक्षेपार्थः, अस्ति 'लोकः' स्थावरजङ्गमात्मकः, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेति वा, अपरेषां तु ब्रह्माण्डान्तर्वर्ती, अपरेषां तु प्रभूतान्येवम्भूतानि ब्रह्माण्डान्युदकमध्ये प्लवमानानि संतिष्ठन्ते, तथा सन्ति जीवाः स्वकृतफलभुजः, अस्ति परलोकः, स्तो बन्धमोक्षौ, सन्ति पञ्च महाभूतानि इत्यादि, तथाऽपरे चार्वाका आहुः-नास्ति लोको मायेन्द्रजालस्वप्रकल्पमेवैतत्सर्वं, तथा ह्यविचारितरमणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org