________________
176
*-64-5
श्रीआचा- प्रतिचोदितः सन्नाचार्येण पुनरपि संलिखेत्येवमभिहितः 'कुपितः' क्रुद्धो यथा च राज्ञः पूर्व तीक्ष्णाज्ञा पश्चाच्छी- विमो०८ राङ्गवृत्तिः तलीभवति एवमाचार्यस्यापि, 'तम्बोले' नागवल्लीपत्रे च कुथिते शेषरक्षणाय 'विवेकः' परित्यागः कार्यः, ततः 'घ(शी०) हना' कदर्थना कार्या, तत्सहिष्णोः पश्चाद्यावत् प्रसाद इति गाथाऽक्षरार्थः, भावार्थस्तु कथानकादवसेयः, तच्चेदम्-ए
उद्देशका ॥२६३॥
केन साधुना द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य पुनरभ्युद्यतमरणायाचार्यो विज्ञप्तः, तेनाप्यभाणि-यथाऽद्यापि संलिख, ततोऽसौ कुपितः त्वगस्थिशेषामङ्गुली भङ्कत्वा दर्शयति, किमत्राशुद्धमिति ?, आचार्योऽपि येनाभिप्रायेणोक्तवाँ-1 | स्तमाविष्करोति-अत एवाशुद्धो भवान्, यतो वचनसमनन्तरमेवाङ्गलीभङ्गद्वारेण भावाशुद्धतामाविष्कृतवानित्युक्त्वाssचार्यस्तत्प्रतिबोधनाय दृष्टान्तं दर्शयति, यथा-कस्यचिद्राज्ञो नित्यं निष्पन्दिनी लोचने, ते च स्ववैद्योपन्यस्तानुष्ठानवतोऽपि न स्वस्थतामियातां, पुनरागन्तुकेन वैद्यनाभिहितः-स्वस्थीकरोमि भवन्तं यदि मुहूर्त वेदनां तितिक्षसे वेदनार्तश्च न मां घातयसीति, राज्ञा चाभ्युपगतं, अञ्जनप्रक्षेपानन्तरोद्भूततीव्रवेदनार्तेनापगते ममाक्षिणी इत्येवंवादिना व्यापादयितुमारेभे, ततो राज्ञस्तीक्ष्णाज्ञा, यतश्च पूर्वमव्यापादनमभ्युपगतमतः शीतलेति, मुहूर्ताच्चापगतवेदनः पटुनयनश्च पूजितवैद्यो मुमुदे राजेति, एवमाचार्यस्यापि तीक्ष्णा प्रतिचोदनादिकाऽऽज्ञा परमार्थतस्तु शीतलेति, यदि पुनरेवं कथितेऽपि नोपशाम्यति ततः शेषसंरक्षणार्थ विकृतनागवल्लीपत्रस्येव विवेकः क्रियते, अथाचार्योपदेशं प्रतिपद्यते ततो गच्छ एव तिछतो घटना दुर्वचनादिभिः कदर्थना क्रियते, यदि च तथापि न ज्वलति ततः शुद्ध इतिकृत्वाऽनशनदानेन प्रतिजागरणेन च प्रसादः क्रियत इति ॥ किम्भूतः पुनः कियन्तं वा कालं कथं वाऽऽत्मानं संलिखेदित्येतत् हृदि व्यवस्थाप्याह-14
निप्फाईया य सीसा सउणी जह अंडगं पयत्तेणं । बारससंवच्छरियं सो संलेहं अह करेइ ॥२७॥ चत्तारि विचित्ताइं विगईनिजूहियाई चत्तारि । संवच्छरे य दुन्नि उ एगंतरियं तु आयामं ॥ २७१ ॥ नाइविगिट्ठो उ तवो छम्मासे परिमियं तु आयामं । अन्नेवि य छम्मासे होइ विगिटुं तवोकम्मं ॥२७२॥ वासं कोडीसहियं आयामं काउ आणुपुवीए । गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥२७३ ।।
सूत्रार्थतदुभयैः स्वशिष्याः प्रातीच्छका वा 'निष्पादिता' योग्यतामापादिताः शकुनिनेवाण्डक प्रयत्नेन, ततोऽसौ | * अथ' अनन्तरं द्वादशसांवत्सरिकी संलेखनां करोति, तद्यथा-चत्वारि वर्षाणि 'विचित्राणि' विचित्रतपोऽनुष्ठानवन्ति
भवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिके कृते पारणकं सविकृतिकमन्यथा वेति, पञ्चमादारभ्य संवत्सरादपराणि चत्वारि | वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं त्वेकान्तरितमाचाम्लमेकस्मिन्नहनि चतुर्थमपरेधुराचा
म्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते-तत्राद्यं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थ षष्ठं वा 3 विधाय परिमितेनाचाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणवतः पूर्वोक्त
मेव पारणकं, द्वादशं तु संवत्सरं कोटीसहितमाचाम्लं करोति, प्रतिदिनमाचाम्लेन भुते, आचाम्लस्य कोव्याः कोटिं मीलयत्यतः कोटीसहितमित्युक्तं, चतुर्मासावशेषे तु संवत्सरे तैलगण्डूषानस्खलितनमस्काराद्यध्ययनायापगतवातमुखय
प्रचारार्थ पौनःपुन्येन करोतीति, तदेवमनयाऽऽनुपूर्त्या सर्व विधाय सति सामर्थ्य गुरुणाऽनुज्ञातो गिरिकन्दरं |
गत्वा स्थण्डिलं प्रत्युपेक्ष्य 'अथ' अनन्तरं पादपोपगमनं करोति, इङ्गितमरणं वा भक्तप्रत्याख्यानं वा यथासमाधि श्रीआचा- विधत्त इति गाथाचतुष्टयार्थः॥ अनया च द्वादशसंवत्सरसंलेखनाऽऽनुपूर्व्या क्रमेण आहारं परितन कुर्वत आहाराभिला- विमो०८ राङ्गवृत्तिः पोच्छेदो भवतीत्येतद्गाथाद्वयेन दर्शयितुमाह
उद्देशकः१ (शी०) कह नाम सो तवोकम्मपंडिओ जो न निचुजुत्तप्पा । लहुवित्तीपरिक्खेवं बच्चइ जेमंतओ व ? ।। २७४ ॥
आहारेण विरहिओ अप्पाहारो य संवरनिमित्तं । हासतो हासंतो एवाहारं निरंभिज्जा ॥ २७५॥ ॥२६४॥
कथं नामासौ तपःकर्मणि पण्डितः स्यात् ?, यो न नित्यमुधुक्तात्मा सन् वर्त्तनं वृत्तिः-द्वात्रिंशत्कवलपरिमाणलक्षणा तस्याः परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्तिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपः तद्भावं यो भुञ्जान एव न व्रजति | कथमसौ तपःकर्मणि पण्डितः स्यात् ?, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान् वा वासरान् स्थित्वा पुनः पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थ ?–'संवरनिमित्तम्' अनशननिमित्तं, एवमसावुपवासैः प्रतिपारणकमल्पाहारतया च हासयन् हासयन्नाहारमुक्तविधिना पश्चान्निरुन्ध्याद्-भक्तप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः॥ उक्तो नामनिष्पनो निक्षेपस्तनियुक्तिश्च, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
से बेमि समणुन्नस्स वा असमणुन्नस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंच्छणं वा नो पादेजा नो निमंतिजा नो कुज्जा
॥२६४॥ वेयावडियं परं आढायमाणे तिबेमि (सू० १९७)
BREASINESSORRECR+RACCA
कष्ट CACACTRICA
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org