________________
श्रीआचाराङ्गवृत्तिः
(शी०) ॥ २६२॥
यथा समाधिर्भवेत्तथाऽनशनं प्रतिपद्यते, तथेगिते प्रदेशे मरणमिङ्गितमरणमिदं चतुर्विधाहारनिवृत्तिस्वरूपं विशिष्टसंहननवतः स्वत एवोद्वर्तनादिक्रियायुक्तस्यावगन्तव्यं, तथा परित्यक्तचतुर्विधाहारस्यैवाधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोप-सामीप्येन गमनं-वतनं पादपोपगमनमेतच्च ज्ञातव्यं भवति, यो हि भवसिद्धिकश्चरम-अन्तिमं मरणमाश्रित्य म्रियते स एतत्पूर्वोक्तत्रयान्यतरेण मरणेन बियते, नान्येन वैहानसादिना बालमरणनेत्येतच्चानन्तरोक्तं मरणं चेष्टाभेदोपाधिविशेषात् त्रैविध्यमनुभवद्भावमोक्षं विजानीहीति गाथार्थः॥ साम्प्रतमेतदेव मरणं सपराक्रमेतरभेदाद् द्विविधमिति दर्शयितुमाह--
सपरिकमे य अपरिक्कमए य वाघाय आणुपुवीए । सुत्तत्थजाणएणं समाहिमरणं तु कायव्वं ॥ २६४ ॥ | 'पराक्रमः' सामर्थ्य सह पराक्रमेण वर्तत इति सपराक्रमस्तस्मिंश्च मरणं स्यात् , तद्विपर्यये चापराक्रमे-जवाबलपरिक्षीणे तद्भक्तपरिज्ञेङ्गितमरणपादपोपगमनभेदात्रिविधमपि मरणं सपराक्रमेतरभेदात् प्रत्येकं द्वैविध्यमनुभवति, तदपि । व्याघातिमेतरभेदात् द्विधा भवेत् , तत्र व्याघातः सिंहव्याघ्रादिकृतोऽव्याघातस्तु प्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूर्व्या विपक्रिममायुष्कक्षयमनुभवतो यो भवति सोऽव्याघात इहानुपूर्वीत्युक्तं, तत्र परमार्थोपक्षेपेणोपसंहरति-व्याघातेनानुपा वा सपराक्रमस्यापराक्रमस्य वा मरणे समुपस्थिते सति सूत्राथेज्ञेन कालज्ञतया समाधिमरणमेव कर्तव्यं, भक्तपरिजेङ्गितमरणपादपोपगमनानामन्यतरद् यथासमाधि विधेयं, न वेहानसादिकं वालमरणं कर्त्तव्यमिति गाथार्थः ॥ तत्र सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाह
सपरक्कममाएसो जह मरणं होई अजवइराणं । पायवगमणं च तहा एयं सपरकर्म मरणं ॥ २६५॥ विमो०० सह पराक्रमेण वर्तत इति सपराक्रम, किं तत्?-मरणं आदिश्यते-इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो
उद्देशका यमैतिह्यमाचक्षते, स आदेशो 'यथे'त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरावैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः॥ भावार्थस्तु कथानकादवसेयः, तच्च प्रसिद्धमेव यथाऽऽर्यवैरैविस्मृतकर्णाहितशृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः सपराक्रमैरेव रथावर्सशिखरिणि पादपोपगमनमकारीति । साम्प्रतमपराक्रमं दर्शयितुमाह
अपरक्कममाएसो जह मरणं होइ उदहिनामाणं । पाओवगमेऽवि तहा एयं अपरकम मरणं ॥ २६६॥ नविद्यते पराक्रमः-सामर्थ्यमस्मिन्नित्यपराक्रम, किं तत् ?-मरणं, तच्च यथा जवाबलपरिक्षीणानामुदधिनाम्नाम्-आर्यसमु द्राणां मरणमभूद् अयमादेशो-दृष्टान्तो वृद्धवादायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपगमनेन तेषां मरणमभूदिति, एतद्-अपराक्रम मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासन् , पश्चाच तैर्जवाबलपरिक्षीणैः शरीरालाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनमकारि ॥ साम्प्रतं व्यापातिममाह
वाघाइयमाएसो अवरडो हुज अन्नतरएणं । तोसलि महिसीइ हओ एयं वाघाइयं मरणं ॥ २६७॥ ॥२६॥ विशेषेणाघातो व्याघातः-सिंहादिकृतः शरीरविनाशस्तेन निवृत्तं तत्र वा भवं व्याघातिमं, कश्चित्सिंहाधन्यतरेणाप-13 राद्धो भवेद्-आरब्धो भवेत् तेन यन्मरणं तव्याघातिमं, तत्र वृद्धवादायात आदेशो-दृष्टान्तः, यथा-तोसलिनामा-1 चार्यो महिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपगतवान् एतद्व्याघातिमं मरणमिति गाथाऽक्षरार्थों, भावार्थस्तु कथानकादवसेयः, तच्चेदम्-तोसलिनामाचार्योऽरण्यमहिषीभिः प्रारब्धः, तोसलिदेशे वा बढयो महिष्यः सम्भवन्ति, ताभिश्च कदाचिदेकः साधुरटव्यन्तर्वारब्धः, स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवा-1 निति ॥ साम्प्रतमव्याघातिमप्रतिपादनेच्छयाऽऽह| अणुपुब्विगमाएसो पव्वजासुत्तअत्थकरणं च । वीसजिओ(य)निन्तो मुक्को तिविहस्स नीयस्स ॥ २६८॥
आनुपूर्वी-क्रमस्तं गच्छतीत्यानुपूर्वीगः, कोऽसौ ?--आदेशो-वृद्धवादः, स चाय, तद्यथा-पूर्वमुत्थितस्य प्रव्रज्यादानं, ततः सूत्रकरणं पुनरर्थग्रहणं, ततस्तदुभयनिर्मातः सुपात्रनिक्षिप्तसूत्रार्थः गुदिनाऽनुज्ञातोऽभ्युद्यतो मरणत्रिकान्यतराय 'निर्यन्' निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यपरिभोगान्नित्यस्य मुक्तो भवति, तत्र यद्याचार्यस्तदा शिष्यान्निपाद्याऽपरमाचार्य विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसर्जितो गच्छानुज्ञया स्वस्थापिताचार्यविसर्जितो वा अभ्युद्यतमरणायापराचार्यान्तिकमियात् , एवमुपाध्यायः प्रवर्तिः स्थविरो गणावच्छेदकः सामान्यसाधुर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिका भक्तपरिज्ञादिकं मरणमभ्युपेयात् , तत्रापि भावसंलेखनां कुर्यात् ॥ द्रव्यसंलेखनायां तु केवलायां दोषसम्भवादित्याहपडिचोइओ य कुविओ रणोजह तिक्ख सीयला आणा।तंयोले य विवेगो घणया जा पसाओ य॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org