SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 185 जे भिक्खू तिहिं वत्थेहिं परिवुसिए पायचउत्थेहिं तस्स णं नो एवं भवइ-चउत्थं वत्थं जाइस्सामि, से अहेसणिजाई वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिजा, नो धोइजा नो धोयरत्ताइं वत्थाई धारिजा, अपलिओवमाणे गामंतरेसु ओमचेलिए, एयं खु वत्थधारिस्स सामग्गियं (सू० २११) इह प्रतिमाप्रतिपन्नो जिनकल्पिको वा उच्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पत्रयं चायमेवीघोपधिर्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिक कल्पद्वयं सार्द्धहस्तद्वयायामविष्कम्भं तृतीयस्त्वौर्णिकः, स च सत्यपि शीते नापरमाकाङ्कतीत्येतदर्शयति-यो भिक्षुः त्रिभिर्वस्त्रैः 'पर्युषितो' व्यवस्थितः, तत्र शीते पतत्येक क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिक, पुनरपि अतिशीततया क्षौमिककल्पद्वयोपौर्णिकमिति, सर्वधौर्णिकस्य बाह्याच्छादनता विधेया, किम्भूतैस्त्रिभिर्वस्वैरिति दर्शयति-'पात्रचतुर्थैः पतन्तमाहारं पातीति पात्रं, तद्भहणेन च पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः, तेन विना तद्ग्रहणाभावात्, स चायम्-"पत्तं पत्ताबंधो पायढवणं च पायकेसरिआ । पडलाइ रयत्ताणं च गोच्छओ पायणिज्जोगो ॥१॥" तदेवं सप्तप्रकारं पात्रं कल्पवयं रजोहरणं १ मुखवस्त्रिका २ चेत्येवं द्वादशधोपधिः, तस्यैवम्भूतस्य भिक्षोः 'णम्' इति वाक्यालङ्कारे 'नैवं भवति' नायमध्यवसायो भवति, तद्यथा-न ममास्मिन् पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजनाणं च गोच्छकः पात्रनियोगः ॥१॥ *不*****李太太了大章 आ. सू. ४७ श्रीआचा- राङ्गवृत्तिः (शी०) ॥२७७॥ काले कल्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थ वस्त्रमहं याचिष्ये, अध्यवसायनिषेधे च तद्याचनं दूरोत्सादितमेव, विमो. यदि पुनः कल्पत्रयं न विद्यते शीतकालश्चापतितस्ततोऽसौ जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि याचेत-उत्कर्ष उद्देशक:४ णापकर्षणरहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र "उद्दिड १ पहे २ अंतर ३ उज्झियधम्मा ४ य" चतस्रो वस्त्रषणा भवन्ति, तत्र चाधस्तन्योर्द्धयोरग्रह इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याजावाप्तानि च वस्त्राणि यथापरिगृहीतानि धारयेत्, न तत्रोत्कर्षणधावनादिकं परिकर्म कुर्याद् ॥ एतदेव दर्शयितुमाह-नो धावेत्प्रासुकोदकेनापि न प्रक्षालयेत्, गच्छवासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातं, न तु जिनकल्पिकस्येति, तथा-न धौतरक्कानि वस्त्राणि धारयेत्, पूर्व धौतानि पश्चाद्रक्तानीति, तथा ग्रामान्तरेषु गच्छन् वस्त्राण्यगोपयन बजेद् , एतदुक्तं भवति-तथाभूतान्यसावन्तप्रान्तानि बिभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिकः, अवमं च तच्चेलं चावमचेलं प्रमाणतः परिमाणतो मूल्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्-पूर्वोक्तं 'खुः' अवधारणे, एतदेव वस्त्रधारिणः सामग्र्यं भवति-एषैव त्रिकल्पात्मिका द्वादशप्रकारौधिकोपध्यात्मिका वा सामग्री भवति, नापरेति ॥ शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतद्दर्शयितुमाह अह पुण एवं जाणिज्जा-उवाइकंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाई वत्थाई परिदृविजा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले (सू० २१२) यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयकालं प्रत्युपेक्षयन् विभर्ति, यदि पुनर्जीर्णदेश्यानि जीर्णानीति जानीयात् ततः परित्यजतीत्यनेन सूत्रेण दर्शयति, अथ पुनरेवं जानीयाद्यथाऽपक्रान्तः खल्वयं हेमन्तो ग्रीष्मः। प्रतिपन्नः अपगता शीतपीडा यथापरिजीर्णान्येतानि वस्त्राणि, एवमवगम्य ततः परिष्ठापयेत्-परित्यजेदिति, यदि पुनः सर्वाण्यपि न जीर्णानि ततो यद्यजीर्ण तत्तत्सरिष्ठापयेत् , परिष्ठाप्य च निस्सङ्गो विहरेत् , यदि पुनरतिक्रान्तेऽपि शिशिरे क्षेत्रकालपुरुषगुणाद्भवेच्छीतं ततः किं कर्त्तव्यमित्याह-अपगते शीते वस्त्राणि त्याज्यानि, अथवा क्षेत्रादिगुणाद्धिमकणिनि वाते वाति सत्यात्मपरितुलनार्थ शीतपरीक्षार्थं च सान्तरोत्तरो भवेत्-सान्तरमुत्तरं-प्रावरणीयं यस्य स तथा, क्वचिना वृणोति क्वचित्पार्श्ववर्ति बिभर्ति, शीताशङ्कया नाद्यापि परित्यजति, अथवाऽवमचेल एककल्पपरित्यागात् द्विकल्पधामारीत्यर्थः, अथवा शनैः शनैः शीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत् तत एकशाटकः संवृतः, अथवाऽऽत्य न्तिके शीताभावे तदपि परित्यजेदतोऽचेलो भवति, असौ मुखवस्त्रिकारजोहरणमात्रोपधिः॥ किमर्थमसावेकैकं वस्त्रं परित्यजेदित्याह लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ (सू० २१३) * लघो वो लाघवं लाघवं विद्यते यस्यासौ लापविक(स्त)मात्मानमागमयन्-आपादयन् वस्त्रपरित्यागं कुर्यात्, शरी रोपकरणकर्मणि वा लाघवमागमयन् वस्त्रपरित्यागं कुर्यादिति । तस्य चैवम्भूतस्य किं स्यादित्याह-'से' तस्य वस्त्रप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy