________________
********
173 शिरसि परानीकनिशिताकृष्टकृपाणनियंत्प्रभासंवलितोद्यत्सूर्यविडुद्भूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकम्मितमतेरप्यन्यथाभावः कदाचित्स्याद् अतो यो मरणकाले न मुह्यति स पारगामी मुनिः संसारस्य कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तयायीति । किं च-विविधं परीपहोपसगैहै-* न्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपःपरीषहोपसगैः फलकवदवतिष्ठते न कातरीभवति, तथा कालेनो|पनीतः कालोपनीतो-मृत्युकालेनान्यवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिल-|
पादपोपगमनेजितमरणभक्तपरिज्ञान्यतरावस्थोपगतः 'कालं' मरणकालमायुष्कक्षयं यावच्छरीरस्य जीवेन सार्द्ध भेदो भ|वति तावदाकालेन्दु, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति । इतिरधिकारप-| रिसमाप्तौ, अवीमीत्यादिकं पूर्ववदिति, पञ्चमोद्देशकः, तत्समाप्ती समाप्तं धूताख्यं षष्ठमध्ययनमिति ॥ ०८३५ ॥
*
मा. सू. ४४ श्रीआचाराङ्गवृत्तिः
(शी०)
॥२५९॥
***
*****
*
॥२५९
***
विमो० अथाष्टमं विमोक्षाध्ययनम् (सप्तमं व्युच्छिन्नम्)
उद्देशक उक्तं षष्ठमध्ययनं, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तच्च व्यवच्छिभमितिकृत्वाऽतिलयाष्टमस्य सम्बन्धो वाच्यः, स चायम्-इहानन्तराध्ययने निजकर्मशरीरोपकरणगौरवत्रिकोपसर्गसन्मानविधूननेन निःसङ्गताऽभिहिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसग्गाः सोढव्या इत्येतत्प्रतिपादितं, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोऽर्थाधिकारी द्वेधा, तत्रा प्यध्ययनार्थाधिकारः प्रागभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारो बिभणिषुराहअसमणुनस्स विमुक्खो पढमे बिइए अकप्पियविमुक्खो। पडिसेहणाय रुट्ठस्स चेव सन्भावकहणा य ॥२५॥ तइयंमि अंगचिट्ठाभासिय आसंकिए य कहणा य । सेसेसु अहीगारो उवगरणसरीरमुक्खेसु ॥ २५४ ।। उद्देसंमि चउत्थे वेहाणसगिद्धपिट्ठमरणं च । पंचमए गेलनं भत्तपरिन्ना य योद्धव्वा ॥२५५ ।। छहमि उ एगसं इंगिणिमरणं च होइ बोद्धव्वं । सत्तमए पडिमाओ पायवगमणं च नायव्वं ॥ २५६ ।। अणुपुधिविहारीणं भत्तपरिना य इंगिणीमरणं । पायवगमणं च तहा अहिगारो होह अट्ठमए ॥ २५७॥
अत्राद्योद्देशकेऽयमर्थाधिकारः, तद्यथा-असमनुज्ञानाम समनोज्ञानां वा त्रयाणां त्रिषष्ट्यधिकानां प्रावादुकशतानां विमोक्षः-परित्यागः कार्यः, तथा तदाहारोपधिशय्यातदृष्टिपरित्यागश्च, पार्श्वस्थादयः पुनश्चारित्रतपोविनयेष्वसमनोज्ञाः, यथाच्छन्दास्तु पञ्चस्वपि ज्ञानाचारादिष्वसमनोज्ञास्तेषां यथायोगं त्यागो विधेय इति १। द्वितीये तु अकल्पिकस्य-आधाकादेविमोक्षः-परित्यागः कार्यो, यदिवाऽऽधाकर्मणा कश्चिन्निमन्त्रयेत्, ततः प्रतिषेधो विधेयः, तत्प्रतिषेधे च रुष्टस्य सतः सिद्धान्तसद्भावः कथनीयो यथैवम्भूतं दानं तव मम च न गुणायेति २। तृतीये तूहेशकेऽयमर्थाधिकारः, तद्यथागोचरगतस्य यतेः शीतादिना कम्पनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्येयमारेका स्याद् यथा-प्रामधम्मैरुद्वाध्यमानस्य शृङ्गारभावावेशादस्य यतेः कम्पनमित्येवं भाषिते आशङ्कितेवा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति ३ ।। शेषेषु तूद्देशकेषु पञ्चस्वयमर्थाधिकारः, तद्यथा-उपकरणशरीराणां विमोक्षः-परित्यागस्तद्विषयः समासतो व्यासतस्तूच्यतेचतुर्थोद्देशके त्वयमाधिकारः, तद्यथा-वैहानसम्-उद्बन्धनं गार्द्धपृष्ठम्-अपरमांसादिहृदयन्यासाबृद्धादिनाऽऽत्मव्यापा-18 दनम् , एतत् प्रकारद्वयं मरणं वाच्यं ४। पञ्चमके तुग्लानता भक्तपरिज्ञा च बोद्धव्या ५। षष्ठे त्वेकत्वम्-एकत्वभावना तथेगितमरणं च बोद्धव्यं ६। सप्तमकेपु प्रतिमाः-भिक्षुप्रतिमा मासादिका वाच्याः, तथा पादपोपगमनं च ज्ञातव्यमिति७अष्टमके त्वयमर्थाधिकारः, स्तद्यथा-अनुपूर्वविहारिणां-प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुत्सर्गतः द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिजेङ्गित
*
*******
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org