________________
172
440-964
धुता०६ उद्देशका५
(शी०)
श्रीआचा
लाभावाशातनारूपा स्यात्, कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेदिति, तथा नो परं शुराङ्गवृत्तिः श्रृषु आशातयेद्-हीलयेद् , यतः परो हीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्त्ततेति, अतस्तदाशातनां
18 वर्जयन् धर्म ब्रूयादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्त्वान्नो आशातयेद्-बाधयेत् , त
देवं स मुनिः स्वतोऽनाशातकः परैरनाशातयन् तथाऽपरानाशातयतोऽननुमन्यमानो परेषां वध्यमानानां प्राणिनां २५७॥
भूतानां जीवानां सत्त्वानां यथा पीडा नोत्पद्यते तथा धम्मै कथयेदिति, तद्यथा-यदि लौकिककुप्रावनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटागादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धविपाकानुभवः स्यात्, उक्तं च-“जे जे दाणं पसंसंति, वहमिच्छंति पाणिणं । जे उणं पडिसेहिंति, वित्तिच्छेअं करिति ते ॥१॥" तस्मात्तदानावटतडागादिविधिप्रतिषेधब्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेत् सावद्यानुष्ठानं चेति, एवं च ब्रुवन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीति, एतदृष्टान्तद्वारेण दर्शयति-यथाऽसौ द्वीपोऽसन्दीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशतः वध्यमानानां वधकानां च तदध्यवसायविनिवर्त्तनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहि-यथोद्दिष्टेन कथाविधानेन धर्मकथा कथयन् काश्चन प्रव्राजयति कांश्चन श्रावकान् विधत्ते काश्चन सम्यग्दर्शनयुजः करोति, केषाश्चित्प्रकृतिभद्रकतामापादयति । किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह–'एव'मिति वक्ष्यमाणप्रकारेण 'स' शरण्यो महामुनिर्भावोत्थानेन
ये तु दानं प्रशंसन्ति वधमिच्छन्ति प्राणिनाम् । ये चैतत् प्रतिषेधयन्ति वृत्तिच्छेदं कुर्वन्ति ते ॥१॥ संयमानुष्ठानरूपेण उत्-प्राबल्येन स्थित उत्थितः, तथा स्थितो ज्ञानादिके मोक्षाध्वन्यात्मा यस्य स स्थितात्मा, तथा स्निह्यतीति निहो न स्निहोऽस्मिहः-रागद्वेषरहितत्वात् अप्रतिबद्धः, तथा न चलतीत्यचलः परीषहोपसर्गवातेरितो |ऽपीति, तथा चल: अनियतविहारित्वात् , तथा संयमादहिर्निर्तगा लेश्या-अध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽबहिर्लेश्यः, स एवम्भूतः परि-समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेत् , न क्वचित्प्रतिबध्यमान इतियावत्, स च किमिति संयमानुष्ठाने परिव्रजेदित्याह-'संख्याय' अवधार्य 'पेशल' शोभनं 'धम्म' अविपरीतार्थ दर्शन-दृष्टिः सदनुष्ठानं वा सा यस्यास्त्यसौ दृष्टिमान , स च कषायोपशमात् क्षयाद्वा, परिः-समन्तानिवृतः-शीतीभूतो । यस्त्वसङ्ख्यातवान् पेशलं धर्म मिथ्यादृष्टिरसौ न निर्वातीति दर्शयितुमाह-इतिहेतौ यस्माद्विपरीतदर्शनो मिथ्यादृष्टिः सङ्गवान्न निर्वाति तस्मात् 'सङ्ग' मातापितृपुत्रकलत्रादिजनितं धनधान्यहिरण्यादिजनितं वा सङ्गविपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह-त एवं सङ्गिनो नराः सबाह्याभ्यन्तरैग्रेन्थैग्रेथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमनाः कामैः-इच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्तव्यमित्याह-यस्मात्कामाद्यासक्तचेतसः स्वजनधनधान्यादिमूर्छिताः कामजैः शारीरमानसादिभिर्दुःखैरुपतापितास्तस्माद् रूक्षात्-संयमानिःसङ्गात्मकात्
'नो परिवित्रसेत्' न संयमानुष्ठानाद्विभीयात्, यतः प्रभूततरदुःखानुषङ्गिणो हि सङ्गिन इति । कस्य पुनः संयमान परि॥वित्रसनं सम्भाव्यत इत्याह-यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गाः-आरम्भा अनन्तरोक्ता अविगानतः सर्वज
नाचरितत्वात् प्रत्यक्षासन्नवाचिनेदमाऽभिहिताः 'सर्वतः' सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूता आरम्भाः-ये
KARAMOROSCARSAMACROCOSMAX CAHOR
श्रीआचाराङ्गवृत्तिः (शी०)
धुता०६ उद्देशक:५
॥२५८॥
विमे ग्रन्थग्रथिता विषण्णाः कामभराक्रान्ता जना 'लूषिणो' लूषणशीलाः हिंसका अज्ञानमोहोदयात् 'न परिवित्रसन्ति' न रिभ्यति, यो ह्येवम्भूतांश्चारम्भान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरति तस्यैते सुपरिज्ञाता भवन्ति । यश्चारम्माणां परिज्ञाता स किमपरं कुर्यादित्याह-'स' महामुनिः पूर्वव्यावर्णितस्वरूपो 'वान्त्वा' त्यक्त्वा क्रोधं च मानं च मायां च लोभं चेति, स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानं तत्सम्बद्धत्वान्मानस्य लोभार्थ मायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्यादावुपन्यासः ततः सर्वदोषाश्रयत्वात् सर्वगुरुत्वाच्च सर्वोपरि लोभस्य, क्षपणाक्रमं वाऽऽश्रित्यायमुपन्यास इति, चकारो हीतरेतरापेक्षया समुच्चयार्थः । स एवं क्रोधादीन् || वान्त्वा मोहनीय त्रोटयति, स चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टः-अपस्तो व्याख्यातस्तीर्थकृदादिभिरितिरधिकारपरिसमाप्ती, ब्रवीमीत्येतत् पूर्वोक्तं ॥ यदि वैतद्वक्ष्यमाणमित्याह
कायस्स वियाघाए एस संगामसीसे वियाहिए से हु पारंगमे मुणी, अविहम्ममाणे फलगावयट्टी कालोवणीए कंखिज्ज कालं जाव सरीरभेउत्तिबेमि (सू० १९६) ६-५॥
धूताध्ययनम् ॥६॥ 'कायः' औदारिकादित्रयं घातिचतुष्टयं वा तस्य 'व्याघातो' विनाशः, अथवा चीयत इति कायस्तस्य विशेषेणाङ्गमर्यादयाऽऽयुष्कक्षयावधिलक्षणया घातो व्याघातः-शरीरविनाश एप सङ्ग्रामशीर्षरूपतया व्याख्यातो, यथा हि सङ्ग्राम
॥२५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org