________________
.
.171
अक्षाभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्णकर्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिव क्षेतेति । कीदृक्षोऽधिसहेतेत्यत आह, यदिवा स एवम्भूतो न केवलमात्मनस्त्राता सदुपदेशदानतः परेषामपीति
दर्शयितुमाह- ओजः' एको रागादिविरहात् सम्यग् इत-गतं दर्शनमस्येति समितदर्शनः, सम्यग्दृष्टिरित्यर्थः, यदिवा
'शमितम्' उपशमं नीतं 'दर्शन' दृष्टिानमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवा समतामितदिगतं दर्शन-दृष्टिरस्येति समितदर्शनः, समदृष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत, यदिवा धर्ममाचक्षीतेत्युत्तरक्रियया |
सह सम्बन्धः, किमभिसन्धाय धर्ममाचक्षीतेति दर्शयति-'दयां' कृपां 'लोकस्य' जन्तुलोकस्योपरि द्रव्यतो ज्ञात्वा क्षेत्रतःप्राचीनं प्रतीचीनं दक्षीणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतो यावज्जीवं, भावतोऽरक्तोऽद्विष्टः, कथमाचक्षीत?-तद्यथा-सर्वे जन्तवो दुःखद्विषः सुखलिप्सवः आत्मोपमया सदा द्रष्टव्या इति, उक्तं च-"न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः । एष सङ्क्राहिको धर्मः, कामादन्यः प्रवर्त्तते ॥१॥" इत्यादि, तथा धर्ममाचक्षाणो 'विभजेत्' द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वा धर्म विभजेत् , यदिवा कोऽयं पुरुषः कं नतो देवताविशेषमभिगृहीतोऽनभिगृहीतो वा? एवं विभजेत् , तथा कीर्तयेद्रतानुष्ठानफलं, कोऽसौ कीर्तयेद्-वेदविद्, आगमविदिति । नागार्जुनीयास्तु पठन्ति-"जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धम्मकहालद्धिसम्पन्ने खेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे के वा दरिसणमभिसम्पन्नो? एवंगुणजाइए पभू धम्मस्स आघवित्तए" इति,
श्रीआचाराङ्गवृत्तिः (शी०)
॥२५६॥
कण्ठ्यं । स पुनः केषु निमित्तभूतेषु कीर्तयेदित्याह-'स' आगमवित् स्वसमयपरसमयज्ञः 'उत्थितेषु वा' भावोत्थानेन
धुता०६ यतिषु, वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पार्श्वनाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयाम धर्म प्रवेदयेदिति, स्वशिष्येषु वा सदोत्थितेष्वज्ञातज्ञापनाय धर्म प्रवेदयेदिति, 'अनुत्थितेषु वा' श्रावकादिषु 'शुश्रूष
उद्देशका माणेषु' धर्म श्रोतुमिच्छत्सु गुर्वादेः पर्युपास्ति कुर्वत्सु था संसारोत्तारणाय धर्म प्रवेदयेत् । किम्भूतं प्रवेदयेदित्याह-शमनं शान्तिः, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्, अनेन च मृषावादादिशेषव्रतसङ्ग्रहः, तथा 'उपशम' क्रोधजयाद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निर्वृतिः निर्वाणं मूलगुणोत्तरगुणयोरैहिकामुष्मिकफलभूतमाचक्षीत, तथा 'शौर्च' सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धतापरित्यागात्, तथा लाघवं सबाह्याभ्यन्तरग्रन्थपरित्यागात् , कथमाचक्षीतेति दर्शवति-'अनतिपत्य' यथावस्थितं वस्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः, केषां कथयति?-'सर्वेषां प्राणिनां' दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपश्चेन्द्रियाणां, तथा 'सर्वेषां भूतानां' मुक्तिगमनयोग्येन भव्यत्वेन भूतानां-व्यवस्थिताना, तथा 'सर्वेषां जीवानां || संयमजीवितेन जीवतां जिजीविषूणां च, तथा 'सर्वेषां सत्स्वाना तिर्यनरामराणां संसारे क्लिश्यमानतया करुणास्पदानामेकार्थिकानि वैतानि प्राणादीनि वचनानि इत्यतस्तेषां क्षान्त्यादिकं दशविधं धर्म यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय भिक्षणशीलो भिक्षुर्धर्मकथालब्धिमान् 'आचक्षीत' प्रतिपादयेदिति । यथा ॥ २५६॥ |च धर्म कथयेत्तथाऽऽह
अणुवीइ भिक्खू धम्ममाइक्खमाणे नो अत्ताणं आसाइजा नो परं आसाइजा नो अन्नाइं पाणाइं भूयाइं जीवाई सत्ताई आसाइजा से अणासायए अणासायमाणे व. ज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवइ सरणं महामणी, एवं से उट्रिए ठियप्पा अणिहे अचले चले अबहिल्लेसे परिवए संक्खाय पेसलं धम्मं दिट्टिमं परिनिव्वुडे, तम्हा संगति पासह गंथेहिं गढिया नरा विसन्ना कामकंता तम्हा लूहाओ नो परिवित्तसिजा, जस्सिमे आरंभा सव्वओ सव्वप्पयाए सुपरिन्नाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, सेवंता कोहं च माणं
य मायं च लोभं च एस तुट्टे वियाहिए तिबेमि (सू० १९५) स भिक्षुर्मुमुक्षुरनुविचिन्त्य-पूर्वापरेण धर्म पुरुष वाऽऽलोच्य यो यस्य कथनयोग्यस्तं धर्ममाचक्षाणः आङिति | मर्यादया यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आशातना तया आत्मानं नो आशातयेत् , तथा धर्ममाचक्षीत यथाऽऽत्मन आशातना न भवेत् , यदिवाऽऽत्मन आशातना द्विधा-द्रव्यतो भावतश्च, द्रव्यतो यथाऽऽहारोपकरणादेद्रेव्यस्य कालातिपातादिकृताऽऽशातना-बाधा न भवति तथा कथयेद्, आहारादिद्रव्यबाधया च शरीरस्यापि पीडा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org