________________
170
श्रीआचाराङ्गवृत्तिः (शी०)
धुता० ६ उद्देशका५
॥२५४॥
सदा सर्वज्ञप्रणानरामरकृतोदयति-आहातात प्रामाः तयषु ते
॥२५४॥
वयेसु वा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वा संतेगइया जणा लूसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए,
ओए समियदंसणे, दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवी, से उठ्ठिएसु वा अणुट्टिएसु वा सुस्सूसमाणेसु पवेयए संतिं विरइं उवसमं निव्वाणं सोयं अजवियं मद्दवियं लापवियं अणइवत्तियं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं सत्ताणं सव्वेसिं जीवाणं अणुवीइ भिक्खू धम्ममाइ
क्खिज्जा (सू० १९४) 'स' पण्डितो मेधावी निष्ठितार्थो वीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराश एकाकिविहारितया ग्रामानुग्रामं रीयमाणः क्षुद्रतिर्यग्नरामरकृतोपसर्गपरीपहापादितान् दुःखस्पर्शान निर्जराथीं सम्यगधिसहेत, क पुनर्व्यवस्थितस्य ते परीपहोपसर्गा अभिपतेयुरिति दर्शयति-आहाराद्यर्थ प्रविष्टस्य गृहेषु वा, उचनीचमध्यमावस्थासंसूचकं बहुवचनं, तथा गृहान्तरेषु वा, ग्रसन्ति बुद्ध्यादीन् गुणानिति ग्रामाः तेषु वा तदन्तरालेषु वा, नैतेषु करोऽस्तीति नकराणि तेषु वा तदन्तरालेषु वा, जनानां-लोकानां पदानि-अवस्थानानि येषु ते जनपदाःअवन्त्यादयः साधुविहरणयोग्याः अर्द्धषविंशतिर्देशास्तेषु तदन्तरालेषु वा, तथा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपटान्तरे वा उद्याने वा तदन्तरे वा विहारभूमिगतस्य वा गच्छतो वा, तदेवं तस्य भिक्षोामादीनधिशयानस्य कायोत्सर्गादि वा कुर्वत एके कालुष्योपहतात्मानो ये जना लूपयन्तीति लूषका भवन्ति, 'लूष हिंसाया'मित्यस्मात् ल्युड, ते 'सन्ति' विद्यन्ते, तत्र नारकास्तावदुपसर्गकरणं प्रत्यवस्तु, तिर्यगमरयोरपि कादाचित्कत्वान्मानुष्याणामेवानुकूलमतिकूलसद्भावाजनग्रहणं, यदिवा जायन्त इति जनाः, ते च तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरोभयोपसर्गापादानेनोपसर्गयेयुरिति, तत्र दिव्याश्रतुर्विधाः, तद्यथा- हास्यात् १ प्रद्धे. पाद २ विमर्शात् ३ पृथग्विमात्रातो ४ वा, तत्र केलीकिलः कश्चिद्व्यन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात् , यथा भिक्षार्थ प्रविष्टैः क्षुल्लकैर्भिक्षालाभार्थ पललविकटतर्पणादिनोपयाचितकं व्यन्तरस्य प्रपेदे, भिक्षावाप्तौ च तद्याचमानस्य कुतश्चिदुपलभ्य विकटादिकं तैहुंढौके, तेनापि केल्यैव ते क्षुल्लकाः क्षीबा इव व्यधायिषत १, प्रद्वेषेण यथा भगवतो माघमासरजन्यन्ते तापसीरूपधारिण्या व्यन्तर्योदकजटाभारवल्कलविप्नुनिस्सेचनमकारि २, विमर्शाकिमयं दृढधान वेत्यनुकूलप्रतिकूलोपसर्गः परीक्षयेत्, यथा संविग्नसाधुभावितया कयाचिड्यन्तर्या स्त्रीवेक्धारिण्या शून्यदेवकुलिकावासितः
'पुरच्छिमेणं कप्पइ निग्गंथाण वा निग्गंथीण वा जाव मगहाओ एत्तए, दक्खिणेणं कप्पइ निग्गंधाण वा निग्गंधीण वा जाव कोसंबीओ एत्तए, पच्छिमेणं जाव थूणाविसओ, उत्तरेणं जाव कुणालाविसओ, ताव आरिए खित्ते, नो कप्पइ इत्तो बाहिं'ति, अस्यां च आर्यभूमिकायां सार्द्धपञ्चविंशतिर्जनपदा धर्मक्षेत्राण्यईद्भिक्तानि ।
स
श्रीआचा- साधुरनुकूलोपसर्गरुपसम्गितो दृढधर्मेति च कृत्वा वन्दित इति ३, तथा पृथग् विविधा मात्रा येषूपसगर्गेषु ते पृथग्वि-18 धुता० ३ राजवृत्तिः मात्राः-हास्यादित्रयान्यतरारब्धा अन्यतरावसायिनो भवन्ति, तद्यथा भगवति सङ्गमकेनेव विमर्शारब्धाः प्रद्वेषेण पर्यव-|
उद्देशका५ (शी०) सिता इति, मानुपा अपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनाभेदाच्चतुर्द्धा, तत्र हास्याद्देवसेनागणिका क्षुल्लकमुपसर्गयन्ती
दण्डेन ताडिता राजानमुपस्थिता, क्षुल्लकेन तदाहूतेन श्रीगृहोदाहरणेन राजा प्रतिबोधित इति १, प्रद्वेषाद्गजसुकुमार॥२५५॥
स्यैव श्वशुरसोमभूतिनेति २, विमर्शाच्चन्द्रगुप्तो राजा चाणाक्यचोदितो धर्मपरीक्षार्थमन्तःपुरिकाभिर्धर्ममावेदयन्तं साधुमुपसर्गयति, साधुना च प्रताड्य ताः श्रीगृहोदाहरणं राज्ञे निवेदितमिति ३, तत्र कुत्सितं शीलं कुशीलं तस्य प्रतिसेवनं कुशीलप्रतिसेवनं तदर्थ कश्चिदुपरगर्ग कुर्यात् , तद्यथा-ईर्ष्यालुगृहपर्युषितः साधुश्चतसृभिः सीमन्तिनीभिः प्रोषितभर्तृकाभिः सकलां रजनीमेकैकया प्रतियाममुपसम्गितो न चासौ तासु लुलुभे मन्दरवन्निष्पकम्पोऽभूदिति ४। तैर्यग्योना अपि भयप्रद्वेपाहारापत्यसंरक्षणभेदाच्चतुर्दैव, तत्र भयात्सादिभ्यः, प्रद्वेषाद्यथा भगवतश्चण्डकौशिकात् , आहारात् सिंहव्याघ्रादिभ्यः, अपत्यसंरक्षणात् काक्यादिभ्य इति । तदेवमुक्तविधिनोपसर्गापादकत्वाजना लूपका भवन्ति, अथवा तेषु ग्रामादिषु स्थानेषु तिष्ठतो गच्छतो वा स्पर्शाः-दुःखविशेषा आत्मसंवेदनीयाः स्पृशन्ति-अभिभवन्ति, ते चतुर्विधाः।
-तद्यथा-घट्टनताऽक्षिकणुकादेः पतनता भ्रमिमूर्छादिना स्तम्भनता वातादिना श्लेषणता तालुनः पातादङ्गुल्यादेवा दि स्यात्, यदिवा वातपित्तश्लेप्मादिक्षोभात् स्पर्शाः स्पृशन्ति, अथवा निष्किञ्चनतया तृणस्पर्शदंशमशकशीतोष्णाद्यापा- G ॥२५५॥
|दिताः स्पर्शा:-दुःखविशेषाः कदाचिस्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहस्तान् स्पर्शान्-दुःखविशेषान् ‘धीरः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org