SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ धुता०६ श्रीआचा- राजवृत्तिः (शी०) उद्देशका ॥२४॥ ACANCSCANCE 166 पाचार्यसमीपे संसारासारतामवगम्य प्रवनाज, क्रमेण चाधीताचारादिशास्त्रोऽवगततदर्थश्च जिनकल्पं प्रतिपित्सुः द्वि- तीयां सत्त्वभावनां भावयति, सा च पञ्चधा-तत्र प्रथमोपाश्रये द्वितीया तद्वहिः तृतीया चतुष्के चतुर्थी शून्यगृहे पचमी श्मशाने, तत्र पञ्चमी भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच-मम ज्यायान् भ्राता कास्ते !, साधुभिरभाणि-किं तेन?, स आह-प्रव्रजाम्यहं, आचार्येणोक्तो-गृहाण तावत् प्रत्रज्यां पुनश्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः-किं तेन दृष्टेन ?, नासौ कस्यचिदुल्लापमपि ददाति, जिनकल्प प्रतिपतुकाम इति, असावाह-तथाऽपि पश्यामि तावदिति, निवन्धे दर्शितः, तूष्णीभावस्थित एव वन्दितः, तदनुरागाच्च निषिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपि साधुभिरसाम्प्रतमेतद्भवतो दुष्करं दुरध्यवसेयमित्येवं कथ्यभानेऽप्यहमपि तेनैव पित्रा जात इत्यवष्टम्भेन मोहात्तथैव तस्थौ यथा ज्येष्ठो भ्रातेति, इतरो देवतयाऽऽगत्य वन्दितः, शिक्षकस्तु न वन्दितः, ततोऽसावपरिकर्मितमतित्वात्कुपितः, अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलको बहिनिश्चिक्षेप, ततस्तज्यायान् हृदयेनैव देवतामाह-किमित्ययमज्ञस्त्वया कदर्थितः, तदस्याक्षिणी पुनर्नवीकुरु, सा त्ववादीत्-जीवप्रदेशैर्मुक्ताविमौ गोलको न शक्यौ पुनर्नवीकर्तुं इत्युक्त्वा ऋषिवचनमलङ्घनीयमित्यवधार्य तत्क्षणश्वपाकव्यापादितैलाक्षिगोलको गृहीत्वा तदक्ष्णोश्चकार । इत्येवमनुपदेशप्रवर्तनं सापायमित्यवधार्य शिष्येण सदाऽऽचार्योपदेशवर्त्तिना भाव्यम्, आचार्येणापि सदा स्वपरोपकारवृत्तिना सम्यक् स्वशिष्या यथो- तविधिना प्रतिपालनीया इति स्थितम् । इत्येतदेवोपसंहरन्नाह-यथा द्विजपोतो मातापितृभ्यामनपाल्यते एवमाचायेणापि शिष्या अहर्निशम् 'अनुपूर्वेण' क्रमेण 'वाचिताः' पाठिनाः शिक्षा ग्राहिताः समस्तकार्यसहिष्णवः संसारोत्तरणसमर्थाश्च भवन्ति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । धूताध्ययने तृतीयोद्देशकः परिसमाप्त इति ॥ ॥२४८॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके शरीरोपकरणधूननाडभिहिता, सा च परिपूर्णा न गौरवत्रिकसमन्वितस्येत्यतस्तद्भूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशक-४ स्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् एवं ते सिस्सा दिया य राओ य अणुपुव्वेण वाइया तेहिं महावीरेहिं पन्नाणमन्तेहिं तेसिमंतिए पन्नाणमुवलब्भ हिच्चा उवसमं फारुसियं समाइयंति, वसित्ता बंभचेरंसि आणं तं नोत्ति मन्नमाणा आघायं तु सुच्चा निसम्म, समणुन्ना जीविस्सामो एगे निक्खमंते असंभवंता विडज्झमाणा कामेहिं गिद्धा अज्झोववत्रा समाहिमाघायमजोसयंता सत्थारमेव फरुसं वयंति (सू० १८८) एवम्' इति विजपोतसंवर्द्धनक्रमेणैव 'ते शिष्याः' स्वहस्तप्रवाजिता उपसम्पदागताः प्रातीच्छकाश्च दिवा च रात्रौ च | श्रीआचा- राजवृत्तिः (शी.) धुता० ६ उद्देशका IPI ॥२४९॥ 'अनुपूर्वेण' क्रमेण 'वाचिता' पाठिताः, तत्र कालिकमसः प्रथमचतुर्थपौरुष्यारध्याप्यते उत्कालिकं तु कालवेलावर्ज सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिताः शिष्याश्चारित्रं च ग्राहिताः, तद्यथा-युगमात्रदृष्टिना गन्तव्यम् कूर्मवत्सङ्कचिताङ्गेन भाव्यमित्याद्येवं शिक्षा ग्राहिता वाचिताः-अध्यापिताः, कैरिति दर्शयति-तैर्महावीरैः-तीर्थकरैर्गणधराचार्यादिभिः, किम्भूतैः?-प्रज्ञानवद्भिः, ज्ञानिभिरेवोपदेशादि दत्तं लगतीत्यतो विशेषणं, ते तु शिष्याः द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषाम्-आचार्यादीनाम् 'अन्तिके' समीपे प्रकर्षेण ज्ञायते अनेनेति प्रज्ञानं-श्रुतज्ञानं, तस्यैवापरस्मादाप्तिसद्भावादित्यतस्तद्, 'उपलभ्य' लब्ध्वा बहुश्रुतीभूताः प्रवलमोहोदयापनीतसदुपदेशोत्कटमदत्वात् त्यक्त्वोपशमं, स च द्वेधा-द्रव्यभावभेदात् , तत्र द्रव्योपशमः कतकफलाद्यापादितः कलुषजलादेः भावोपशमस्तु ज्ञानादित्रयात् , तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, तद्यथा-आक्षेपण्याद्यन्यतरया धर्मकथया कश्चिद् उपशाम्यतीत्यादि, दर्शनोपशमस्तु यो हि शुद्धेन सम्यग्दर्शनेनापरमुपशमयति, यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति, दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनम्रतेति, तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्याप्युपर्येव प्लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञानलवोत्तम्भितगर्वाध्माताः 'पारुष्य' परुषतां 'समाददति' गृह्णन्ति, तद्यथा-परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-त्वं न जानीषे न चैषां शब्दानामयमर्थो यो भवताऽभाणि, अपि च-कश्चिदेव मादृशः शब्दार्थनिर्णयायालं, न सर्व इति, उक्तं च-"पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदम् नः । वादिनि च मल्लमुख्य च मागेवान्तरं ग ॥२४९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy