________________
_165 जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए, ते अणवकंखमाणा पाणे अण इवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुटाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुब्वेण वाइय तिबेमि (सू० १८७) धूता
ध्ययने तृतीयोद्देशकः ॥६-३॥ विरतमसंयमाद् भिक्षणशीलं भिक्षु 'रीयमाणं' निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्तमानं चिररात्रं-प्रभूतं कालं संयमे उषितश्चिररात्रोषितस्तमेवंगुणयुक्तम् 'अरतिः' संयमोद्विग्नता 'तत्र' तस्मिन् | संयमे प्रवर्त्तमानं 'किं विधारयेत्' किं प्रतिस्खलयेत् , किंशब्दः प्रश्ने, किं तथाभूतमपि मोक्षप्रस्थितं प्रणाय्य विषयमरतिर्विधारयेत् , ओमित्युच्यते, तथाहि-दुर्बलान्यविनयवन्ति चेन्द्रियाण्यचिन्त्या मोहशक्तिर्विचित्रा कर्मपरिणतिः। किं न कुर्यादिति, उक्तं च-"कम्माणि णूणं घणचिक्कणाई गरुयाइं वइरसाराई । णाणहिअंपि पुरिसं पंथाओ उप्पह |णिति ॥१॥" यदिवा किं क्षेपे, किं तथाभूतं विधारयेदरतिः१, नैव विधारयेदित्यर्थः, तथाहि-असौ क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्भितमोहनीयोदयत्वाल्लघुकर्मा भवतीति, कुतस्तमरतिवि(न वि)धारयेदित्याह-क्षणे क्षणेऽव्यवच्छेदेनोत्तरोत्तरं संयमस्थानकण्डकं संदधानः सम्यगुत्थितः समुत्थितः उत्तरोत्तरं गुणस्थानकं वा संदधानो यथाख्यातचा
• कर्माणि नूनं घनकठोराणि गुरुकानि वज्रसाराणि । ज्ञानस्थितमपि पुरुष पथ उत्पथं नयन्ति ॥१॥
का कथं विधाति द्वीप दीपो, या
मा. स. ४२ भीआचाराजवृत्तिः || (शी०)
असाव
॥२४७॥
रित्राभिमुखः समुत्थितोऽसावतस्तमरतिः कथं विधारयेदिति । स चैवम्भूतो न केवलमात्मनस्त्राता परेषामप्यरतिविधार- धुता. ६ कत्वात् त्राणायेत्येतद्दर्शयितुमाह-द्विर्गता आपोऽस्मिन्निति द्वीपः, स च द्रव्यभावभेदात् द्वेधा-तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वास्यतेऽस्मिन्नित्याश्वासः आश्वासश्चासौ द्वीपश्चाश्वासद्वीपो, यदिवा आश्वसनमाश्वासः, आश्वासाय द्वीप
उद्देशकः३ आश्वासद्वीपः, तत्र नदीसमुद्रबहुमध्यप्रदेशे भिन्नबोहित्थादयस्तमवाप्याश्वसन्ति, असावपि द्वेधा-सन्दीनोऽसन्दीनश्चेति, यो हि पक्षमासादावुदकेन प्लाव्यते स सन्दीनो, विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, यथा हि सांयात्रिकास्तं द्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समवाप्याश्वसन्ति एवं तं भावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वस्युः, यदिवा दीप इति प्रकाशदीपः, प्रकाशाय दीपः प्रकाशदीपः, स चादित्यचन्द्रमण्यादिरसन्दीनोऽपरस्तु विद्युदुल्कादिः सन्दीनो, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनो विपरीतस्तु सन्दीन इति, यथा ह्यसौ स्थपुटाधावेदनतो हेयोपादेयहानोपादानवतां निमित्तभावमुपयाति तथा क्वचित्समुद्राधन्तर्वतिनामाश्वासकारी च भवति एवं ज्ञानसंधानायोत्थितः परीषहोपसर्गाक्षोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेति, अपरे भावद्वीपं भावदीपं वा अन्यथा व्याचक्षते-तद्यथा-भावद्वीपः सम्यत्क्वं, तच्च प्रतिपातित्वादौपशमिकं क्षायोपश-18 मिकं च संदीनो भावद्वीपः, क्षायिकं त्वसन्दीन इति, तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति, भावदीपस्तु सन्दीनः श्रुतज्ञानम् असंदीनस्तु केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति, अथवा धर्म संद-10॥२४७ ॥ धानः समुत्थितः सन्नरतेर्दुष्प्रधृष्यो भवतीत्युक्त कश्चिच्चोदयेत्-किम्भूतोऽसौ धर्मोंयत्सन्धानाय समत्थित इति,
अत्रोच्यते, यथाऽसौ द्वीपोऽसन्दीनः-असलिलप्लुतोऽवरुग्णवाहनानामितरेषां च बहूनां जन्तूना शरण्यतयाऽऽश्वासहे-16 तुर्भवत्येवमसावपि धर्मः ‘आर्यप्रदेशितः' तीर्थकरप्रणीतः कषतापच्छेदनिर्घटितोऽसन्दीनः, यदिवा कुतर्काप्रधृष्यतयाऽसन्दीन:-अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिर्भवति । तस्य चार्यदेशितस्य धर्मस्य किं सम्यगनुष्ठायिनः केचन। सन्ति !, ओमित्युच्यते, यदि सन्ति किम्भूतास्त इत्यत आह-'ते' साधयो भावसन्धानोद्यताः संयमारतेः प्रणोदका मोक्षनेदिष्ठा भोगाननवकावन्तो धमें सम्यगुत्थानवन्तः स्युरिति, एतदुत्तरत्रापि योज्यम् , तथा प्राणिनोऽनतिपात|यन्तः, उपलक्षणार्थत्वात् शेषमहाव्रतग्रहणमायोज्यं, तथा कुशलानुष्ठानप्रवृत्तत्वाद्दयिताः सर्वलोकानां, तथा 'मेधाविनों' मर्यादाव्यवस्थिताः 'पण्डिताः' पापोपादानपरिहारितया सम्यक्पदार्थज्ञा धर्मचरणाय समुत्थिता भवन्तीति । ये पुनस्तथाभूतज्ञानाभावात् सम्यग्विवेकविकलतया नाद्यापि पूर्वोक्तसमुत्थानवन्तः स्युः ते तथाभूता आचार्यादिभिः सम्यगनुपाल्या यावद्विवेकिनोऽभूवन्नित्येतद्दर्शयितुमाह-एवम्' उक्तविधिना 'तेषाम्' अपरिकर्मितमतीनां भगवतो' वीरवर्द्धमानस्वामिनो धर्मे सम्यगनुत्थाने सति तत्सरिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विषयमिति, अत्रैव दृष्टान्तमाह-द्विजः-पक्षी तस्य पोतः-शिशुः द्विजपोतः स यथा तेन द्विजेन गर्भप्रसवात् प्रभृत्यण्डकोच्छूनोच्छ्रनतरभेदादिकास्ववस्थासु यावन्निष्पन्नपक्षस्तावत्पाल्यते एवमाचार्येणापि शिक्षकः प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन च तावदनुपाल्यते यावद्गीतार्थोऽभूत् , यः पुनराचार्योपदेशमुलक्य स्वैरित्वाद्यथा कथञ्चिक्रियासु प्रवर्त्तते स उज्जयिनीराजपुत्रवद्विनश्येदिति, तद्यथा-उज्जयिन्यां जितशत्रो राज्ञो द्वौ पुत्रौ, तत्र ज्येष्ठो धर्मघो
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org