________________
164
श्रीआचा- ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते-'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादौ धुता. ६ राङ्गवृत्तिः क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिमकल्काद्यभावेन, तथा 'सम्यक्त्व'(शी०)
उद्देशका मिति प्रशस्तं शोभनं एक सङ्गतं वा तत्त्वं सम्यक्त्वं, यदुक्तम्-"प्रशस्तः शोभनश्चैव, एकः सङ्गत एव च । इत्येतैरुप॥२४५॥
सष्टस्तु, भावः सम्यक्त्वमुच्यते ॥१॥" तदेवम्भूतं सम्यक्त्वमेव समत्वमेव वा 'समभिजानीयात्' सम्यगाभिमुख्येन जानीयात्-परिच्छिन्द्यात्, तथाहि-अचेलोऽप्येकचेलादिकं नावमन्यते, यत उक्तम्-"जोऽवि दुवस्थतिवत्थो एगेण अचेलगो व संथरइ । ण हु ते हीलंति परं सब्वेऽवि य ते जिणाणाए ॥१॥" तथा-"जे खलु विसरिसकप्पा संघयणधियादिकारणं पप्प । णऽवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं ॥ २॥ सब्वेऽवि जिणाणाए जहाविहिं कम्मखवणअहाए । विहरंति उज्जया खलु सम्म अभिजाणई एवं ॥३॥" ति, यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना | सर्वात्मना नामादिना सम्यक्त्वमेव सम्यगभिजानीयात्, तीर्थकरगणधरोपदेशात् सम्यक्कुर्यादिति तात्पर्यार्थः । एतच्च नाशक्यानुष्ठानं ज्वरहरतक्षकचूडालङ्काररत्नोपदेशवद्भवतः केवलमुपन्यस्यते, अपि त्वन्यैर्बहुभिश्चिरकालमासेवितमित्येत
दर्शयितुमाह-'एवम्' इत्यचेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिदिकारिणां 'चिररात्रं' प्रभूतकालं यावज्जीवमित्यर्थः, तदेव विशेषतो दर्शयति-'पूर्वाणि' प्रभूतानि वर्षाणि 'रीयमाणानां'
॥२४५॥ १ योऽपि द्विवस्त्रस्त्रिवस्त्र एकेन अचेलको वा निर्वहति । नैव हीलयति परं सर्वेऽपि च ते जिनाज्ञायाम् ॥१॥ ये खलु विसदृशकल्पाः संहननधृत्यादिकारणं प्राप्य । नावमन्यते न च हीनमात्मानं मन्यते तेभ्यः ॥२॥ सर्वेऽपि जिनाज्ञायां यथाविधि कर्मक्षपणार्थं । विहरन्त्युद्यताः खलु सम्यगभिजानात्येवम् ॥३॥ संयमानुष्ठानेन गच्छता, पूर्वस्य तु परिमाणं वर्षाणां सप्ततिः कोटिलक्षाः पट्पञ्चाशच्च कोटिसहस्राः, तथा प्रभूतानि व पाणि रीयमाणानां, तत्र नाभेयादारभ्य शीतलं दशमतीर्थकरं यावत्पूर्वसङ्ख्यासद्भावात् पूर्वाणीत्युक्तं, ततः आरतः श्रेयांसादारभ्य वर्षसङ्ख्याप्रवृत्तेर्वषाणीत्युक्तमिति, तथा 'द्रव्याणां' भव्यानां मुक्तिगमनयोग्यानां 'पश्य' अवधारय यत्तृणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यक्रणेन स्पर्शातिसहनं कृतमेतदवगच्छेति ॥ एतच्चाधिसहमानानां यत्स्यात्तदाह
आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कद्दु परिवाय, एस तिण्णे मुत्ते विरए वियाहिए तिबेमि ( सू० १८६) आगतं प्रज्ञानं पदार्थाविर्भावकं येषां ते तथा तेषामागतप्रज्ञानानां तपसा परीषहातिसहनेन च कृशा 'बाहवः' भुजा भवन्ति, यदिवा सत्यपि महोपसर्गपरीषहादावागतप्रज्ञानत्वाद् 'बाधाः' पीडाः कृशा भवन्ति, कर्मक्षपणायोत्थितस्य | शरीरमात्रपीडाकारिणः परीपहोपसर्गान् सहायानिति मन्यमानस्य न मनःपीडोत्पद्यत इति, तदुक्तम्-"णिम्माणेइ परो च्चिय अप्पाण उण वेयणं सरीराणं । अप्पाणो चिअ हिअयस्स ण उण दुक्खं परो देइ ॥ १॥" इत्यादि, शरीरस्य तु पीडा भवत्येवेति दर्शयितुमाह-प्रतनुके च मांसं च शोणितं च मांसशोणिते द्वे अपि, तस्य हि रूक्षाहार
१ विदधानि परो नैवात्मनो वेदना शरीराणाम् । आत्मन एव हृदयस्य न पुनर्दुःखं परो ददाति ॥ १॥
श्रीआचाराङ्गवृत्तिः (शी.)
धुता०६ उद्देशका
॥२४६॥
COMAMRAKARMA
|त्वादल्पाहारत्वाच्च प्रायशः खलत्वेनैवाहारः परिणमति, न रसत्वेन, कारणाभावाच्च प्रतन्वेव शोणितं तत्तनुत्वान्मांसमपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोः, अचेलतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत इति सम्बन्धः, 'संसारश्रेणी' संसारावतरणी रागद्वेषकषायसंततिस्तां क्षान्त्यादिना विश्रेणी कृत्वा, तथा 'परिज्ञाय' ज्ञात्वा च समत्वभावनया, तद्यथा-जिनकल्पिकः कश्चिदेककल्पधारी द्वौ त्रीन् वा बिभर्ति, स्थविरकल्पिको वा मासार्द्धमासक्षपकः तथा विकृष्टाविकृष्ट-| तपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परानिन्दया समत्वदर्शिन इति, उक्तं च-"जोवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ । न हु ते हीलेंति परं सब्वेवि हु ते जिणाणाए ॥१॥" तथा जिनकल्पिकः प्रतिमाप्रतिपन्नो वा कश्चित्कदाचित् षडपि मासानात्मकल्पेन भिक्षां न लभेत तथाऽप्यसौ कूरगडुकमपि यथौदनमुण्डस्त्वमित्येवं न हीलयति । तदेवं समत्वदृष्टिप्रज्ञया विश्रेणीकृत्य 'एष' उक्तलक्षणो मुनिः तीर्णः संसारसागर एप एव मुक्तः सर्वसङ्गेभ्यो विरतः सर्वसावद्यानुष्ठानेभ्यो व्याख्यातो नापर इति । ब्रवीमीतिशब्दौ पूर्ववत् ॥ तदेवं संसारश्रेणी विश्लेषयित्वा यः संसारसागरतीर्णवत्तीर्णो मुक्तवन्मुक्तो विरतो व्याख्यातः, तं च तथाभूतं किमरतिरभिभवेदुत नेति, अचिन्त्यसामर्थ्यात् कर्मणोऽभिभवेदित्येतदेवाह
विरयं भिक्खू रीयंतं चिरराओसियं अरई तत्थ किं विधारए?, संधेमाणे समुट्ठिए,
।।२४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org