________________
श्रीआधाराङ्गवृत्तिः (शी०)
॥ २४४ ॥
163
जास्सामि सूई जाइस्सामि संधिस्लामि सीविस्सामि उक्कसिस्सामि वुक्कसि सामि परिहिस्सामि पाणिस्सामि, अदुवा तत्थ परिक्कमंतं भुज्जो अचेलं तणफासा फुसंति सीयफासा फुसंति उफासा फुसंति दंसमसगफासा फुसंति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं आगममाण, तवे से अभिसमन्नागए भवइ, जयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए संमत्तमेव समभिजाणिज्जा, एवं तेसिं महावीराणं चिररायं पुरवाई वासाणि रीयमाणाणं दवियाणं पास अहियासियं ( सू० १८५ )
'एतत् ' यत्पूर्वोक्तं वक्ष्यमाणं वा 'खुः' वाक्यालङ्कारे, आदीयते इत्यादानं कर्म आदीयते वाऽनेन कर्मेत्यादानंकम्र्मोपादानं तच्च धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिः निर्दोषयितेति सम्बन्धः किम्भूतः ? - 'सदा' | सर्वकालं सुवाख्यातो धम्र्मोऽस्येति स्वाख्यातधर्म्मा - संसारभीरुत्वाद्यधारोपितभारवाहीत्यर्थः तथा विधूतः - क्षुण्णः सम्यगस्पृष्टः कल्पः- आचारो येन स तथा स एवम्भूतो मुनिरादानं झोषयित्वा आदानमपनेष्यति कथं पुनस्तदादानं वस्त्रादि स्याद्येन तत झोपयितव्यं भवेदित्याह - अल्पार्थे नञ्, यथाऽयं पुमानज्ञः, स्वल्पज्ञान इत्यर्थः, यः साधुर्नास्य
Jain Education International
चेलं - वस्त्रमस्तीत्यचेलः, अल्पचेल इत्यर्थः, संयमे 'पर्युषितो' व्यवस्थित इति, तस्य भिक्षोः 'नैतद्भवति' नैतत्कल्पते यथा परिजीर्ण मे वस्त्रमचेलकोऽहं भविष्यामि न मे त्वक्राणं भविष्यति, ततश्च शीताद्यर्दितस्य किं शरणं मे स्यादिति वस्त्रं | विनेत्यतोऽहं कञ्चन श्रावकादिकं प्रत्ययं वस्त्रं याचिष्ये, तस्य वा जीर्णस्य वस्त्रस्य सन्धानाय सूत्रं याचिप्ये, सूचिं न्व व्याचिष्ये, अवाप्ताभ्यां च सूचि सूत्राभ्यां जीर्णवस्त्ररन्धं सन्धास्यामि - पाटितं सेविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, दीर्घ वा सत् खण्डापनयनतो व्युत्कर्षयिष्यामि, एवं च कृतं सत्परिधास्यामि तथा प्रावरिष्यामीत्याद्यार्त्तध्यानोपहता असत्यपि जीर्णादिवत्रसद्भावे यद्भविष्यत्ताऽध्यवसायिनो धर्मैकप्रवणस्य न भवत्यन्तःकरणवृत्तिरिति, यदिवा जिनकल्पिकाभिप्रायेणैवैतत्सूत्रं व्याख्येयं तद्यथा - 'जे अचेले' इत्यादि, नास्य चेलं - वस्त्रमस्तीत्यचेल:अच्छिद्रपाणित्वात् पाणिपात्रः, पाणिपात्रत्वात् पात्रादिसप्तविधतन्निर्योगरहितोऽभिग्रहविशेषात् त्यक्तकल्पत्रयः केवलं रजोहरणमुखवस्त्रिकासमन्वितस्तस्याचेलस्य भिक्षोर्नैतद्भवति, यथा- परिजीर्ण मे वस्त्रं छिद्रं पाटितं चेत्येवमादि वस्त्रगतमपध्यानं न भवति, धम्मिणोऽभावाद्धम्र्म्माभावः, सति तु धर्मिणि धर्मान्वेषणं न्याय्यमिति सत्पथः, तथेदमपि तस्य न भवत्येव यथा - अपरं वस्त्रमहं याचिष्ये इत्यादि पूर्ववन्नेयं, योऽपि छिद्रपाणित्वात् पात्रनिर्योगसमन्वितः कल्पत्रयान्यतरयुक्तोऽसावपि परिजीर्णादिसद्भावे तद्गतमपध्यानं न विधत्ते, यथाकृतस्याल्पपरिकर्म्मणो ग्रहणात्सूचिसूत्रान्वेषणं न करोति । तस्य चाचेलस्याल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद्विधेयं तदाह-तस्य ह्यचेलतया परिवसतो जीर्णवस्त्रादिकृतमपध्यानं न भवति, अथवैतत्स्यात् तत्राचेलत्वे पराक्रममाणं पुनस्तं साधुमचेलं कचिद्रामादौ त्वक्राणाभावात् तृणशय्याशायिनं तृणानां स्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शाः - दुःखविशेषास्तृणस्पर्शास्ते कदाचित् स्पृशन्ति, तांश्च सम्यग् अदीनमनस्कोऽतिसहत इति सम्बन्धः, तथा शीतस्पर्शाः स्पृशन्ति-उपतापयन्ति, तेजः- उष्णस्तत्स्पर्शाः स्पृशन्ति, तथा दंशमशक स्पर्शाः स्पृशन्ति, एतेषां तु परीपहाणामेकतरेऽविरुद्धा दंशमशकतृणस्पर्शादयः प्रादुर्भवेयुः, शीतोष्णादिपरीपहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्ष्युः, प्रत्येकं बहुवचननिर्देशश्च तीव्रमन्दमध्यमावस्था संसूचकः, इत्येतदेव दर्श यति - विरूपं - बीभत्सं मनोऽनाहादि विविधं वा मन्दादिभेदाद्रूपं स्वरूपं येषां ते विरूपरूपाः, के ते? - 'स्पर्शाः ' दुःखविशेषाः, तदापादकास्तृणादिस्पर्शा वा, तान् सम्यकरणेनापध्यानरहितोऽधिसहते, कोऽसौ ? - 'अचेल ः' अपगतचेलोऽल्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते किमभिसन्ध्य परीषहानधिसहत इत्यत आह-लघोर्भावो लाघवं, द्रव्यतो भावतश्च द्रव्यतो छुपकरणलाघवं भावतः कर्मलाघवं 'आगमयन' अवगमयन् बुध्यमान इतियावद् अधिसहते परीषहोपसर्गानिति, नागार्जुनीयास्तु पठन्ति - " एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकारणं करेइ" 'एवम्' उक्तक्रमेण भावलाघवार्थमुपकरणलाघवं तपश्च करोति इति भावार्थः । किं च- 'से' तस्योपकरणलाघवेन कर्मलाघवमागमयतः कर्म्मलाघवेन चोपकरणलाघवमागमयतस्तृणादिस्पर्शानधि सहमानस्य 'तपः' कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति - सम्यग् आभिमुख्येन सोढं भवति । एतच्च न मयोच्यते इत्येतद्दर्शयितुमाह- 'यथा' येन प्रकारेण 'इद' मिति यदुक्तं वक्ष्यमाणं चैतद्भगवता - वीरवर्द्धमानस्वामिना प्रकर्षेणादौ वा वेदितं प्रवेदितमिति, यदि नाम भगवता प्रवेदितं ततः किमित्याह तद् - उपकरणलाघवमाहारलाघवं वा 'अभिसमेत्य' ज्ञात्वा एवकारोऽवधारणे तदेव लाघवं
For Private Personal Use Only
धुता० ६ उद्देशकः ३
॥ २४४ ॥
www.jainelibrary.org