________________
162
श्रीआचा- राङ्गवृत्तिः (शी०)
धुता०६ उद्देशकः२
।।२४२॥
॥२४२॥
मत्थे उप्पन्ने उवसग्गे सहइ खमइ तितिक्खइ अहियासेइ, तंजहा-जक्खाइटे अयं पुरिसे १, उम्मायपत्ते अयं पुरिसे २, दित्तचित्ते अयं पुरिसे ३, ममं च णं तब्भववेअणीयाणि कम्माणि उदिनाणि भवंति-जन्नं एस पुरिसे आउसइ बंधइ तिप्पड़ पिट्टइ परितावेइ ४, ममंचर्ण सम्म सहमाणस्स जाव अहियासेमाणस्स एगंतसो कम्मणिजरा हवइ५ । पंचहिं ठाणेहिं केवली उदिन्ने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं च णं अहियासेमाणस्स बहवे छ उमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्म सहिस्संति जाव अहियासिस्संति" इत्यादि, परीपहाश्चानुकूलप्रतिकूलतया भिन्ना इत्येतद्दर्शयितुमाह -एकतरान्-अनुकूलान् अन्यतरान्-प्रतिकूलान् परीषहानुदीनभिज्ञाय सम्यक्तितिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीपहाणां द्वैविध्यमित्याह-ये च परीषहाः सत्कारपुरस्कारादयः साधोरेरिणो-मनआहादकारिणो ये तु प्रतिकूलतया अहारिणो-मनसोऽनिष्टा, यदिवा हीरूपाः-याचनाऽचेलादयः, अहीमनसश्च-अलज्जाकारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीपहान् सम्यक् तितिक्षमाणः परिव्रजेदिति ॥ किंच
चिच्चा सव्वं विसुत्तियं फासे समियदंसणे, एए भो णगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो आणाए मामगं धम्म एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिजं परिन्नाय परियारण विगिंचइ, इह एगेसिं एगचरिया होड़ तत्थियरा इयरेहिं कलेहिं सद्धेसणाए सव्वेसणाए से मेहावी परिव्वए सुर्लिभ अदुवा दुभि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहिया
सिज्जासि त्तिबेमि (सू० १८४ ) ॥ धूताध्ययने द्वितीयोदेशकः ॥ ६-२॥ त्यक्त्वा सवा परीषहकृतां विस्रोतसिकां परीषहापादितान् स्पर्शान्-दुःखानुभवान् 'स्पृशेत्' अनुभवेत् सम्यगधिस-| हेत, स किम्भूतः ?-सम्यग् इतं-गतं दर्शनं यस्य स समितदर्शनः, सम्यग्दृष्टिरित्यर्थः । तत्सहिष्णवश्च किम्भूताः स्युरित्याह-भोः' इत्यामन्त्रणे 'एते' परीषहसहिष्णवो निष्किञ्चना निर्ग्रन्था भावनग्ना 'उक्ताः' अभिहिताः, यस्मिन्मनुष्यलोके अनागमनं धर्मो येषां तेऽनागमनधर्माणः, यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति, किं च-आज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्म सम्यगनुपालयेत् तीर्थकर एवमाहेति, यदिवा धर्मानुष्ठाय्येवमाह-धर्म एवैको मामकः अन्यत्तु सर्व पारक्यमित्यतस्तमहमाज्ञया-तीर्थकरोपदेशेन सम्यक्करोमीति, किमित्याज्ञया धर्मोऽनुपाल्यत इत्यत आह–'एषः' अनन्तरोक्तः 'उत्तरवाद' उत्कृष्टवाद इह मानवानां व्याख्यात इति । किं च
-'अत्र' अस्मिन् कर्मधुननोपाये संयमे उप-सामीप्येन रत उपरतः तद्-अष्टप्रकारं कर्म 'झोषयन्' क्षपयन धर्म चरेदिति, किं चापरं कुर्यादित्याह-आदीयत इत्यादानीयं-कर्म तत्परिज्ञाय मूलोत्तरप्रकृतिभेदतो ज्ञात्वा 'पर्यायेण' श्रामण्येन विवेचयति, क्षपयतीत्यर्थः । अत्र चाशेषकर्मधुननासमर्थ तपस्तद्वाह्यमधिकृत्योच्यते--'इह' अस्मिन् प्रवचने 'एकेषां' शिथिलकर्मणामेकचर्या भवति-एकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशेपास्तपश्चरणविशेषाश्च भवन्तीत्यतस्तावनाभृतिकामधिकृत्याह-'तत्र' तस्मिन्नेकाकिविहारे 'इतरे' सामान्यसाधुभ्यो विशिष्टतरा 'इतरेषु' अन्तप्रान्तेषु कुलेषु शुढेषणया दशैषणादोषरहितेनाहारादिना 'सर्वेषणयेति सर्वा याऽऽहाराद्युगमोत्पादनग्रासैषणारूपा तया सुपरिशुद्धेन विधिना संयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतामाह-स मेधावी मर्यादाव्यवस्थितः संयमे परिव्रजेदिति, किंच-सु आहारस्तेवितरेषु कुलेषु सुरभिर्वा स्यात् अथवा दुर्गन्धः, न तत्र रागद्वेषौ विदध्यात्, किं च-अथवा तत्रैकाकिविहारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो 'भैरवा' भयानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः, यदिवा 'भैरवा' बीभत्साः 'प्राणाः' प्राणिनो दीप्तजिहादयोऽपरान् प्राणिनः 'क्लेशयन्ति' उपतापयन्ति, त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शान् दुःखविशेषान् 'धीरः' अक्षोभ्यः सन्नतिसहस्व । इतिरधिकारपरिसमाप्तौ, अवीमीति पूर्ववत् । धूताध्ययने द्वितीयोद्देशकः परिसमाप्तः ॥
उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मधूननाऽभिहिता, सा च नोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रमुच्चारयितव्यम् , तच्चेदम्
एयं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निज्झोसइत्ता, जे अचेले प'रिखुसिए तस्स णं भिक्खुस्स नो एवं भवइ-परिजुण्णे मे वत्थे वत्थं जाइस्सामि सुत्तं
श्रीआचाराङ्गवृत्तिः (शी०)
धुता०६ उद्देशका
॥२४३॥
KASARAKAR
॥२४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org