SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 161 मेण' परिपाच्या योगपद्येन वोदीर्णाननधिसहमानाः-परीषदर्भग्ना मोहपरवशतया पुरस्कृतदुर्गतयो मोक्षमार्ग परित्यजन्ति । भोगार्थ त्यक्तवतामपि पापोदयाद्यत्स्यात्तदाह-कामान्' विरूपानपि 'ममायमाणस्स'त्ति स्वीकुर्वतो भोगाध्यवसायिनोऽन्तरायोदयात् 'इदानीं' तत्क्षणमेव प्रव्रज्यापरित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव वा अन्तर्मुहूर्तेन वा कण्डरीकस्येवाहोरात्रेण वा ततोऽप्यूर्व शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्मना सार्द्ध विवक्षितशरीरभेदो भवति येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं न प्रामोति । एतदेवोपसञ्जिहीर्घराह-एवं' पूर्वोक्तप्रकारेण 'स' भोगाभिलाषी आन्तरायिकैः कामैः-बहुप्रत्यपायैः न केवलमकेवलं तत्र भवा आकेवलिकाः-सद्वन्द्वाः सप्रतिपक्षा इतियावत् असम्पूर्णा वा, तैः सद्भिरवतीर्णाः संसारं तान् वा द्वितीयार्थे तृतीया, 'चः' समुच्चये, 'एत' इति भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवामुवन्तीति तात्पर्यार्थः ॥ अपरे त्वासन्नतया मोक्षस्य कथञ्चित्कुतश्चित् कदाचिदवाप्य चरगणपरिणामं प्रतिक्षणं लघुकर्मतया प्रवर्द्धमानाध्यवसायिनो भवन्तीति दर्शयितुमाह अहेगे धम्ममायाय आयाणप्पभिइसु पणिहिए चरे, अप्पलीयमाणे दढे सव्वं गिद्धिं परिन्नाय, एस पणए महामुणी, अइअच्च सव्वओ संगं न महं अथित्ति इय एगो अहं, अस्सि जयमाणे इत्थ विरए अणगारे सव्वओ मुंडे रीयंते, जे अचेले परिवु सिए संचिक्खइ ओमोयरियाए, से आकुटे वा हए था लुचिए वा पलियं पकत्थ अमा. सू. ४१ श्रीआचा- दुवा पकस्थ अतहेहिं सदफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खराङ्गवृत्तिः माणे परिव्वए जे य हिरी जे य अहिरीमाणा (सू० १८३) उद्देशका (शी०) 'अथ' अनन्तरमेके विशुद्धपरिणामतया आसन्नापवर्गतया 'धम्मै श्रुतचारित्राख्यं 'आदाय' गृहीत्वा वस्त्रपतगृहा॥२४१॥ दिधर्मोपकरणसमन्विता धर्मकरणेषु प्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तं च-"यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यत्नेन पुनः प्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः॥१॥"। किम्भूताः पुनर्धम चरेयुरित्याह-कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अतभिषक्ता धर्मचरणे 'हढाः' तपःसंयमादौ द्रढिमानमालम्बमाना धर्म चरन्तीति, किं च-सर्वा 'गृद्धिं' भोगका दुःखरूपतया ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेत् । तत्सरित्यागे गुणमाह-एष' इति कामपिपासापरित्यागी प्रकर्षेण नतः-प्रहः संयमे कर्मधुननायां वा महामुनिर्भवति। नापर इति । किं च-'अतिगत्य' अत्येत्यातिक्रम्य 'सर्वतः सर्वैः प्रकारैः 'सङ्ग सम्बन्धं पुत्रकलत्रादिजनितं काममनु पङ्गं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच्च ‘इति' उक्तकमेठाणकोऽहमस्मिन्-संसारोदरे, न चाहमन्यस्य कस्यचिदिति । एतद्भावनाभावितश्च यत्कुर्यात्तदाह-अत्र' अस्मिन् मी ॥२४१॥ नीन्द्रे प्रवचने विरतः सन् सावधानुष्ठानाहशविधचक्रवालसामाचार्या यतमानः, कोऽसौ?-'अनगारः' प्रवजितः, एक 02- सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अवल पि पठन्ति तत्र, पठितव्यानीति, उक्तं च या 264415% त्वभावना भावयन्नवमोदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि लगयितव्येति, किं च'सर्वतः' द्रव्यतो भावतश्च मुण्डो रीयमाणः' संयमानुष्ठाने गच्छन् , किम्भूत इत्याह-यः'अचेल' अल्पचेलो जिनकल्पिको वा 'पर्युषितः' संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपि न प्रकामतयेत्याह-'संचिक्खई' संतिष्ठते अवमौदर्ये । न्यूनोदरतायां वर्तमानः सन् कदाचित्प्रत्यनीकतया ग्रामकण्टकैस्तुतेत्येतद्दर्शयितुमाह-'स' मुनिर्वाग्भिराक्रुष्टो वा दभण्डादिभिर्हतो वा लुश्चितो वा केशोत्पाटनतः पूर्वकृतकर्मपरिणत्युदयादेतदवगच्छन् सम्यक्तितिक्षमाणः परिव्रजेदिति, एतच्च भावयेत् , तद्यथा-"पावाणं च खलु भो कडाणं कम्माणं पुबिदुश्चिन्नाणं दुप्पडिकंताणं वेदयित्ता मुक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता" इत्यादि । कथं पुनर्वाग्भिराक्रुश्यत इत्याह-'पलिअंति कर्म जुगुप्सितमनुष्ठानं | तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथा-भो कोलिक ! प्रत्रजित! त्वमपि मया सार्द्धमेवं जल्पसीति, अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दा विधत्ते, एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह-'अतथ्यैः' वितथैरसद्भूतैः शब्दैश्चौरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शेश्च असद्भूतैः साधो कर्तुमयुक्तैः करचरणच्छेदादिभिः स्वकृतादृष्टफलमित्येतत् 'सख्याय' ज्ञात्वा तितिक्षमाणः प्रव्रजेदिति, यदिवा एतत् सख्याय, तद्यथा-"पंचहिं ठाणेहिं छउ पापाना च खलु भोः कृताना कर्मणां पूर्व दुधीर्णाना दुष्पराक्रान्तानां वेदयित्वा मोक्षः, नास्त्यवेदयित्वा, तपसा वा क्षपयित्वा. २ पञ्चभिः स्थानश्छयस्थ उत्पन्नानुपसर्गान् सहते क्षमते तितिक्षते अध्यासयति, तद्यथा-यक्षाविष्टोऽयं पुरुषः, उन्मादप्राप्तोऽयं पुरुषः, दृप्तचित्तोऽयं पुरुषः मम च तद्भववेदनीयानि कर्माण्युदीर्णानि दाभवन्ति यदेष पुरुष आक्रोशति बनाति तेपते पिश्यति परितापयति, मम च सम्यक् सहमानस्य याबदध्यासीनस्यैकान्ततः कर्मनिर्जरा भवति । पञ्चभिः स्थानः केवली सउदीर्णान् परीषहानुपसर्गान् यावदभ्यासयेत् यावत् ममाध्यासयतः बहवश्छप्रस्थाः श्रमणा निर्ग्रन्या उदीर्णान् परीपहोपसर्गान् सम्यक् सहिष्यन्ते यावद् अध्यासिष्यन्ते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy