________________
श्रीआचाराङ्गवृत्तिः (शी० )
॥ २३९ ॥
160
णपरिणामा अनुपूर्वेण शिक्षकगीतार्थक्षपकपरिहार विशुद्धि कै का किविहारिजिन कल्पिकावसाना मुनगोऽभूवन्निति । अभिसम्बुद्धं व प्रविप्रजिषुमुपलभ्य यन्निजाः कुर्युस्तद्दर्शयितुमाह
तं परिकमंतं परिदेवमाणा मा चयाहि इय ते वयंति-छंदोवणीया अज्झोववन्ना अक्कंदकारी जणगा रुयंति, अतारिसे मुणी (ण य) ओहं तरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेइ, कहं नु नाम से तत्थ रमइ ?, एयं नाणं सया समणुवासिज्जासि तिमि (सू० १८० ) धूताध्ययनोदेशकः ६-१ ॥
'तम्' अबगततत्त्वं गृहवासपराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृपुत्रकलत्रादयः परिदेवमाना माऽस्मान् परित्यज 'इति' एतत् ते कृपामापादयन्तो वदन्ति, किं चापरं वदन्तीत्याह - छन्देनोपनीताः छ|न्दोपनीताः - तवाभिप्रायानुवर्त्तिनस्त्वयि चाभ्युपपन्नाः, तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो 'जनका मातापित्रादयो जना वा रुदन्ति । एवं च वदेयुरित्याह-न तादृशो मुनिर्भवति, न चौघं संसारं तरति, येन पाखण्ड - विप्रलब्धेन 'जनका' मातापित्रादयः 'अपोढाः त्यक्ता इति । स चावगतसंसारस्वभावो यत्करोति तदाह-न ह्यसावनुरक्तमपि बन्धुवर्ग 'तत्र' तस्मिन्नवसरे शरणं समेति, न तदभ्युपगमं करोतीत्यर्थः । किमित्यसौ शरणं नैतीत्याहकथं नु नामासौ 'तंत्र' तस्मिन् गृहवासे सर्वनिकारास्पदे नरकप्रतिनिधौ शुभद्वारपरिधे रमते १. कथं गृहवासे द्वन्द्वेकहतौ विघटितमोहकपाटः सन् रतिं कुर्यादिति १ । उपसंहारमाह- 'एतत् पूर्वोक्तं ज्ञानं सदा आत्मनि 'सम्यगनुवा - सयेः' व्यवस्थापयेः, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । धूताध्ययनस्य प्रथमोदेशकः समाप्तः ॥
BWAREN
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके निजकविधूनना प्रतिपादिता, सा चैवं फलवति स्याद्यदि कर्म्मविधूननं स्याद् अतः कर्म्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
आउरं लोगमायाए चइत्ता पुव्वसंजोगं हिच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अ
वसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला (सू० १८१ )
‘लोकं’ मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषङ्गतया वियोगात् कार्यावसादेन वा यदिवा जन्तुलोकं कामरा - गातुरम् 'आदाय' ज्ञानेन 'गृहीत्वा' परिच्छिद्य तथा त्यक्त्वा च 'पूर्वसंयोगं' मातापित्रादिसम्बन्धं, तथा' हित्वा गत्वोपशमं उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयति-वसु द्रव्यं तद्भूतः कषायकालिकादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुवसु सराग इत्यर्थः, यदिवा वसुः साधुः अनुवसुः - श्रावकः, तदुक्तम्- " वीतरागो वसुर्ज्ञेयो, जिनो वा मंयतोऽथवा । सरागो ह्यनुवसुः प्रोक्तः, स्थविरः श्रावकोऽपि वा ॥ १ ॥ " तथा ज्ञात्वा 'धर्मं श्रुतचारित्राख्यं
श्रीआचा- २ यथातथावस्थितं धर्म्म प्रतिपद्याप्यथैके मोहोदयात्तथाविधभवितव्यतानियोगेन 'तं' धर्म्म प्रति पालयितुं न शक्नुवन्ति, राङ्गवृत्तिः किंभूताः ? - कुत्सितं शीलं येषां ते कुशीला इति यत एव धर्मपालनाशक्ता अत एव कुशीलाः ॥ एवम्भूताश्च सन्तः किं (शी०) कुर्युरित्याह
॥ २४० ॥
वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अणुपुव्वेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेष, एवं से अंतराएहिं कामेहिं आकेवलिएहिं अवइन्नाचेए ( सू० १८२ )
केचिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्यालब्धपूर्वी संसारार्णवोत्तरणप्रत्यलां बोधिद्रोणीमङ्गीकृत्य मोक्षतरुबीजं सर्वविरतिलक्षणं चरणं पुनर्दुर्निवारतया मन्मथस्य पारिप्लवतया मनसो ठोलुपतयेन्द्रियग्रामस्यानेकभवाभ्यासापादितविषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयोदयासन्नप्रादुर्भावादयशः कीर्त्त्यत्कटतया अवगणय्याऽऽयतिमविचार्य कार्याकार्य उररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितयाऽधः कृतकुलक्रमाचारास्तत्त्यजेयुः, तत्त्यागश्च धर्मोपकरणपरित्यागाद्भवतीत्यतस्तद्दर्शयति-वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, तथा 'पतग्रहः' पात्रं 'कम्बल' और्णिकं कल्पं पात्रनिर्योगं वा 'पादपुञ्छनकं' रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिद्देश विरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्ततोऽपि भ्रश्यति । कथं पुनर्दुर्लभं चारित्रमवाप्य पुनस्तत्त्यजेदित्याह - परीषहान् दुरधिसहनीयान् 'अनुक्र
Jain Education International
For Private Personal Use Only
धुता० ६ उडेशका १
।। २३९ ।।
धुता० ६ उद्देशकः२
॥ २४० ॥
www.jainelibrary.org