________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २३८ ॥
159
| जन्तवः पर्याप्त का पर्याप्तकभेदेन व्यवस्थिताः, तथा उदके चरन्तीत्युदकचराः - पूतरकच्छेद नकलोड्डुणकत्रसा मत्स्यकच्छ - पादयः, तथा स्थलजा अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तद्गतवृत्तयो द्रष्टव्याः, अपरे तु आकाशगामिनः पक्षिणः, इत्येवं सर्वेऽपि 'प्राणाः प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थे मत्सरादिना वा 'क्लेशयन्ति' उपतापयन्ति । यद्येवं ततः किमित्यत आह- 'पश्य' अवधारय 'लोके' चतुर्द्दशरज्वात्मके, कर्म्मविपाकात्सकाशात् 'महद्भयं ' नानागतिदुःख क्लेशविपाकात्मकमिति ॥ किमिति कर्म्मविपाकान्महद्भयमित्याह
बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुव्वइ एए रोगा बहू नच्चा आउरा परियावए नालं पास, अलं तवेएहिं एयं पास मुणी ! महब्भयं नाइवाइज कंचणं ( सू० १७८ ) बहूनि दुःखानि कर्म्मविपाकापादितानि येषां जन्तूनां ते तथा, हुर्यस्मादेवं तस्मात्तत्राप्रमादवता भाव्यं । किमित्येवं भूयो भूयोऽपदिश्यत इत्यत आह- यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः 'सक्ताः' गृद्धाः 'कामेषु' इच्छामदनरूपेषु 'मानवाः पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः । कामासक्ताश्च यदवामुवन्ति तदाह बलरहितेन निःसारेण तुष| मुष्टिकल्पेनीदारिकेण शरीरेण 'प्रभङ्गुरेण' स्वत एव भङ्गशीलेन तत्सुखाधानाय कम्र्मोपचित्याऽनेकशो वधं गच्छन्ति, कः पुनरसौ विपाककटुकेषु कामेषु यो रतिं विदध्यादित्याह - मोहोदयादार्त्तः अगणितकार्याकार्येविवेकः सोऽसुमान्बहु
दुःखं प्राप्तव्यमनेनेति बहुदुःख इत्येनं कामानुषङ्गं प्राणिनां क्लेशं वा 'बालो' रागद्वेषाकुलितः प्रकर्षेण करोति प्रकरोति, तज्जनितकर्म्मविपाकाश्च अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाहएतान् गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहुनूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्तः चिकित्सायै प्राणिनः परितापयेयुः, 'लावकादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादित्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युप| मर्दे प्रवर्त्तेरन्, नैतदवधारयेयुः यथा-स्वकृतावन्ध्यकर्म्मविपाकोदयादेतत्, तदुपशमाच्चोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एवेति एतदेवाह पश्यैतद्विमलविवेकावलोकनेन यथा 'ना' न समर्थाः चिकित्साविधयः कम्र्मोदयोपशमं विधातुं, यद्येवं ततः किं कर्त्तव्यमिति दर्शयति- 'अलं' पर्याप्तं 'तव' सदसद्विवेकिनः 'एभिः ' पापोपादानभूतैश्चिकित्सा विधिभिरिति । किं च- 'एतत्' प्राण्युपमर्दादिकं 'पश्य' अवधारय हे 'मुने' ! जगत्रयस्वभाववेदिन् महद् - बृहद्भयहेतुत्वाद्भयं यद्येवं ततः किं कुर्यादिति दर्शयति- 'नातिपातयेत्' न हन्यात् कञ्चन प्राणिनं, यत एकस्मिन्नपि प्राणिनि - हन्यमानेऽष्टप्रकारमपि कर्म बध्यते तच्चानुत्सारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए रोगे बहू णश्चेत्यादिको ग्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् बहून् ज्ञात्वा आसेवनाप्रज्ञयेति आतुरा:कामेच्छान्धा अपरान् प्राणिनः परितापयेयुः इत्यादिना प्रक्रमेणेति ॥ तदेवं रोगकामातुरतया सावद्यानुष्ठानप्रवृत्तानामु|पदेशदान पुरस्सरं महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्तां दिदर्शयिषुः प्रस्तावमारचयन्नाह -
आयाण भो सुस्सूस ! भो धूयवायं पवेयइस्सामि इह खल्ल अत्तत्ताए तेहिं तेहिं कुलेहिं ओभसेएण अभिसंभूया अभिसंजाया अभिमिव्वुडा अभिसंबुड्डा अभिसंबुद्धा अभिनिता अणुपुव्वेण महामुनी ( सू० १७९
-
'भोः' इति शिष्यामन्त्रणं, यदहमुत्तरत्रावेदयिष्यामि भवतस्तद्' 'आजानीहि ' - अवधारय, 'शुश्रूषस्व' श्रवणेच्छां वि धेहि 'भोः' इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहं धूतम् - अष्टप्रकारकर्म्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि, अवहितेन च भवेता भाव्यमिति नागार्जुनीयास्तु पठन्ति - " धुतोवायं पवेयंति" अष्टप्रकारकर्म्मधूननोपायं निजधूननोपायं वा प्रवेदयन्ति तीर्थकरादयः । कोऽसावुपाय इत्यत आह- 'इह' अस्मिन् संसारे 'खलुः' वाक्यालङ्कारे आत्मनो भाव आत्मता-जीवास्तिता स्वकृतकर्म्मपरिणतिर्वा तयाऽभिसम्भूताः सञ्जाताः, न पुनः पृथिव्यादिभूतानां कायाकारपरिणामतया ईश्वरप्रजापतिनियोगेन वेति तेषु तेषूश्चावचेषु कुलेषु यथास्वं कम्र्म्मोदयापादितेषु 'अभिषेकेण' शुक्रशोणितनिषेकादिक्रमेणेति, तत्रायं क्रम:- “ सप्ताहं कललं विन्द्यात्ततः सप्ताहमर्बुदम् । अर्बुदाज्जायते पेशी, पेशीतोऽपि धनं भवेत् ॥ १ ॥” इति, तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसञ्जाताः, ततः साङ्गोपाङ्गस्त्रायुशिरोरोमादिक्रमाभिनिवर्त्तनादभिनिर्वृत्ताः, ततः प्रसूताः सन्तोऽभिसंवृद्धाः, धर्म्मश्रवणयोग्यावस्थायां वर्त्तमाना धर्म्मकथादिकं निमित्तमासाद्योपलब्धपुण्यपापतबाऽभिसम्बुद्धाः, ततः सदसद्विवेकं जानानाः अभिनिष्क्रान्ताः ततोऽधीताचारादिशास्त्रास्तदर्थ भावनोपबृंहितचर
Jain Education International
For Private Personal Use Only
धुता० ६ उद्देशकः १
॥ २३८ ॥
www.jainelibrary.org