________________
964 k4%96446464645629%
86+
ARK5025625%
॥२३
॥
158 श्रीआचा-8 च्यवनावसानेनावेदितोऽपि पुनरपि तगरीयस्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह- धुता० ६ राङ्गवृत्तिः तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअ
उद्देशकार (शी०)
च उच्चावयफासे पडिसंवेएड, बद्धहिं एवं पवेडयं-संति पाणा वासगा रसगा उदए
उदएचरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं (सू० १७७) | 'त' कर्मविपाकं यथावस्थितं तथैव ममावेदयतः शृणुत यूयं, तद्यथा-नारकतिर्यड्नरामरलक्षणाश्चतस्रो गतयः, तत्र नरकगतौ चत्वारो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपर रोदीरितस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः, यद्यपि लेशतश्चिकथयिषोरभिधेयविपर्य न वागवतरति तथाऽपि कर्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थ श्लोकैरेव किश्चिदभिधीयतें"श्रवणलवनं नेत्रोद्धार करक्रमपाटन, हृदयदहन नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलविभेदन, 8 दहनवदनैः कङ्क|रैः समन्तविभक्षणम् ॥१॥ तीक्ष्णैरसिभिदीप्तः कुन्तैर्विषमैः परश्वधैश्चकैः । परशुत्रिशूलमुद्गरतोमरवासीमुषण्डीभिः ॥ २ ॥ सम्भिन्नतालुशिरस छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोदंरात्रा भिन्नाक्षिपुटाः सुदुःखार्ताः॥३॥निपतन्त उत्सतम्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥४॥ |छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि(वच्छ)भिः परिवृताः संभक्षणव्यावृतैः । पाठ्यन्ते क्रकचेन दारुवदसिना प्रच्छिन्नबाहुद्वयाः, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः ॥५॥ भृज्यन्ते ज्वलदम्बरीषहुतभुगज्वालाभिराराविणो, दीक्षाङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषुत्थिताः। दह्यन्ते विकृतोर्वबाहुवदनाः क्रन्दन्त आर्सस्वनाः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत्। ॥६॥" इत्यादि । तथा तिर्यग्गतौ पृथिवीकायजन्तूनां सप्त योनिलक्षा द्वादश कुलकोटिलक्षाः स्वकायपरकायशस्त्राणि शीतोष्पादिका वेदनाः, तथाऽप्कायस्यापि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षाः वेदना अपि नानारूपा एव, तथा तेजस्कायस्य सप्त योनिलक्षाः त्रयः कुलकोटीलक्षाः पूर्ववद्वेदनादिकं, वायोरपि सप्त योनिलक्षाः सप्त च कुलकोटीलक्षाः वेदना अपि शीतोष्णादिजनिता नानारूपा एव, प्रत्येकवनस्पतेर्दश योनिलक्षाः साधारणवनसतेश्चतुर्दश उभयरूपस्याप्यष्टाविंशतिः कुलकोटीलक्षाः, तत्र च गतोऽसुमाननन्तमपि कालं छेदनभेदनमोटनादिजनिता नानारूपा वेदना अनुभवन्नास्ते, विकलेन्द्रियाणामपि द्वौ द्वौ योनिलक्षौ कुलकोव्यस्तु द्वीन्द्रियाणां सप्त त्रीन्द्रियाणामष्टौ चतुरिन्द्रियाणां नव, दुःखं तु क्षुत्पिपासाशीतोष्णादिजनितमनेकधाऽध्यक्षमेव तेषामिति, पञ्चेन्द्रियतिरश्चामपि चत्वारो योनिलक्षाः कुलकोटीलक्षास्तु जलचराणामर्द्धत्रयोदश पक्षिणां द्वादश चतुपदानां दश उरःपरिसर्पाणां दश भुजपरिसर्पाणां नव वेदनाश्च नानारूपा यास्तिरश्चां सम्भवन्ति ताः प्रत्यक्षा एवेति, उकंच-"क्षुसहिमात्युष्णभयार्दितानां, पराभियोगव्यसनातुराणाम् । अहो! तिरश्चामतिदु:खितानां, सुखानुषङ्गः किल वार्तमेतद् ॥१इत्यादि । मनुष्यगतावपि चतुर्दश योनिलक्षा द्वादश कुलकोटीलक्षाः, वेदनास्त्वेवम्भूता इति-"दुःखं स्त्री-13
कुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं श्रीआचा- भवति विरहज वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किश्चित् ॥१॥ बाल्याप्रभृति धुता०६ राङ्गवृत्तिः च रोगैर्दष्टोऽभिभवश्च यावदिह मृत्युः। शोकवियोगायोगैर्दुर्गतदोषैश्च नैकविधैः॥२॥ क्षुत्तृहिमोष्णानिलशीतदाहदा
उद्देशका (शी०) रियशोकप्रियविप्रयोगैः । दौर्भाग्यमानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतन्त्रः ॥३॥” इत्यादि । देवगतावपि
चत्वारो योनिलक्षाः पड्विंशतिः कुलकोटीलक्षाः तेषामपीऱ्यांविषादमत्सरच्यवनभयशल्यवितुद्यमानमनसां दुःखानुषङ्ग ॥२३७॥
एव, सुखाभासाभिमानस्तु केवलमिति, उक्तंच-"देवेषु च्यवनवियोगदुःखितेषु, क्रोधेामदमदनातितापितेषु । आर्या! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति ॥१॥” इत्यादि । तदेवं चतुर्गतिपतिताः संसारिणो नाना-13 रूपं कर्मविपाकमनुभवन्तीत्येतदेव सूत्रेण दर्शयितुमाह-'सन्ति' विद्यन्ते 'प्राणाः' प्राणिनः 'अन्धाः' चक्षुरिन्द्रियविकला भावान्धा अपि सद्विवेकविकलाः 'तमसि' अन्धकारे नरकगत्यादौ भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादकपायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः । किं च-तामेवावस्थां कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कर्मोदयात्तामेव असकृद्-अनेकशोऽतिगत्योच्चावचान-तीव्रमन्दान् स्पर्शान्-दुःखविशेषान् 'प्रतिसंवेदयरि' अनुभवति । एतच्च तीर्थकृदिरावेदितमित्याह-'बुद्धैः' तीर्थकृद्भिः 'एतद्' अनन्तरोक्तं प्रकर्षणादौ वा वेदितं प्रवेवितम् । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-सन्ति' विद्यन्ते 'प्राणाः' प्राणिनो 'वासकाः' 'वास शब्दकुत्सायां' वासन्तीति वासका:-भाषालब्धिसम्पन्ना द्वीन्द्रियादयः, तथा रसमनुगच्छन्तीति रसगा:-कटुतिक्तकषायादिरसवेदिनः ॥२३७॥ संजिन इत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणां सम्प्रेक्ष्य इति सम्बन्धः, तथा-'उदके' उदकरूपा एवैकेन्द्रिया
+
S
+
+
+
+
G+
4%
AC
DE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.