________________
157 मालावानित्यादि, अथवेत्येतत्प्रतिरोगमभिसम्बध्यते, अथवा राजांसी अपस्मारीत्यादि, अथवा तथा--'कुष्ठी' कुष्ठमष्टादशभेदं तदस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा-अरुणोदुम्बरनिश्यजिएकपालकाकनादपौण्डरीकदद्रुकुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि, तद्यथा-स्थूलारुष्क १ महाकुष्ठ २ ककुष्ठ ३चर्मदल ४ परिसर्प ५ विसर्प ६ सिध्म ७ विचर्चिका ८ किटिभ ९पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्व सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्भवतीति। तथा-राजांसो-राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्व्यः कारणेभ्यो भवति इति, उक्तं च-"त्रिदोषो जायते यक्ष्मा, गदो | हेतुचतुष्टयात् । वेगरोधात् क्षयाश्चैव, साहसाद्विषमाशनात् ॥ १ ॥" तथा-अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतुओं, तद्वानपगतसदसद्विवेकः भ्रममूर्छादिकामवस्थामनुभवति प्राणीति, उक्तं च-"भ्रमावेशः ससंरम्भो, द्वेषोद्रेको हृतस्मृतिः। अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः॥॥" तथा 'काणिय'ति अक्षिरोगः, स च द्विधा-गर्भगतस्योत्पद्यते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति,तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्ष, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च सर्वे रोगाः प्रादुष्यन्तीति, उक्तं च-"वातापित्तात्कफाद्रकादभिष्यन्दश्चतुर्विधः। प्रायेण जायते घोरः, सर्वनेत्रामयाकरः ॥ १॥" इति, तथा-'झिमिय'ति जाब्यता सर्वशरीरावयवानामवशित्वमिति, तथा 'कुणिय'ति गर्भाधानदोषाद्
१अपगतः भारः स्मरणं यस्मात् सः अपस्मारः तस्मिन्सति तद्रोगिणः सर्व विषया स्मृतिः नश्यति.
HERE-
STOREXAMKAnkrk
मा. सू. ४० श्रीआचारावृत्तिः
(शी०) ॥२३५॥
इस्वैकपादो न्यूनैकपाणिर्वा कुणिः, तथा 'खुजिय'ति कुब्जं पृष्ठादावस्यास्तीति कुब्जी, मातापितृशोणितशुक्रदोषेण गर्भ- धुता०६ स्थदोषोद्भवाः कुब्जवामनकादयो दोषा भवन्तीति, उक्तं च-"गर्भे वातप्रकोपेन, दोहदे वाऽपमानिते । भवेत् कुब्जः
| उद्देशकः कुणिः पङ्गर्भूको मन्मन एव वा ॥१॥" मूको मन्मन एवेत्येतदेकान्तरिते मुखदोषे लगनीयमिति । तथा-'उदरिं चत्ति चः समुच्चये वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः शेषास्त्वचिरोत्थिताः साध्या इति, ते चामी भेदाः-"पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं सप्तममष्टमं तु, जलोदरं चोते भवन्ति तानि ॥१॥" इति, तथा 'पास मूयं च'त्ति पश्य-अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषादेव जातं तदुत्तरकालं च, पञ्चषष्टिर्मुखे रोगाः सप्तस्वायतनेषु जायन्ते, तत्रायतनानि ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालु कण्ठः सर्वाणि चेति, तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेष्वष्टौ दन्तेषु पञ्च जिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेष्वायतनेष्विति, 'सूणियं च त्ति शूनत्वं-श्वयथुर्वातपित्तश्लेष्मसन्निपातरक्ताभिघातजोऽयं पोढेति, उक्तं च-"शोफः स्यात् षड्विधो घोरो, दोषैरुत्सेधलक्षणः । व्यस्तैः समस्तैश्चापीह, तथा रक्ताभिघातजः ॥१॥” इति, तथा 'गिलासणि ति भस्मको व्याधिः, स च वातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायत इति, तथा 'वेवईति वातसमुत्थः शरीरावयवानां कम्प इति, उक्तं च-"प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति । कलापखञ्ज तं विद्यान्मुक्तसन्धिनिबन्धनम् |॥१॥" इति, तथा 'पीढसप्पिं च'त्ति जन्तुर्गर्भदोषात् पीढसप्पित्वेनोत्पद्यते, जातो वा कर्मदोषाद्भवति, स किल पाणिगृहीतकाष्ठः प्रसप॑तीति, तथा 'सिलिवयंति श्लीपदं-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपन्ना वक्ष्णो(वक्षो)रुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छलीपदमित्याचक्षते
-"पुराणोदकभूमिष्ठाः, सर्वर्तुषु च शीतलाः। ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः॥१॥ पादयोहस्तयोश्चापि, श्लीपदं जायते नृणाम् । कर्णोष्ठनाशास्वपि च, केचिदिच्छन्ति तद्विदः॥२॥" तथा 'महुमेहणि ति मधुमेहो-बस्तिरोगः स विद्यते यस्यासौ मधुमेही, मधुतुल्यप्रस्राववानित्यर्थः, तत्र प्रमेहाणां विंशतिर्भेदाः, स्तत्रास्यासाध्यत्वेनोपन्यासः, तत्र सर्व एव प्रमेहाः प्रायशः सर्वदोषोत्थास्तथापि वाताद्युत्कटभेदाविंशतिधंदा भवन्ति, तत्र कफाद्दश षट् पित्तात् वातजाश्चत्वार इति, सर्वेऽपि चैतेऽसाध्यावस्थायां मधुमेहत्वमुपयान्तीति, उक्तं च-"सर्व एव प्रमेहास्तु, कालेनाप्रतिकारिणः । मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते ॥१॥” इति । तदेवं षोडशाप्येते-अनन्तरोक्ताः 'रोगा' व्याधयो व्याख्याताः 'अनुपूर्वशो' अनुक्रमेण 'अथ' अनन्तरं 'ण' इति वाक्यालङ्कारे 'स्पृशन्ति' अभिभवन्ति 'आतड्का'
आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः 'स्पर्शाश्च' गाढप्रहारादिजनिता दुःखविशेषाः 'असमञ्जसाः' क्रमयोगद पद्यनिमित्तानिमित्तोत्पन्नाः स्पृशन्तीति सम्बन्धः । न रोगातकैरेव केवलैर्मुच्यते, अन्यदपि यत् संसारिणोऽधिकं|
स्यात्तदाह-तेषां कर्मगुरूणां गृहवासासक्तमनसामसमञ्जसरोगैः क्लेशितानां 'मरणं' प्राणत्यागलक्षणं 'संप्रेक्ष्य' पर्यालोच्य पुनरुपपातं च्यवनं च देवानां कर्मोदयात् सश्चितं ज्ञात्वा तद्विधेयं येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिको|ऽभावो भवति, किं च-कर्मणां मिथ्यात्वाविरतिप्रमादकषाययोगाहितानामबाधोत्तरकालमुदयावस्थायां परिपाकं च | 'सम्प्रेक्ष्य' शारीरमानसदुःखोत्पादकं पर्यालोच्य तदुच्छित्तये यतितव्यं ॥ स च करुणं स्तनन्तीत्यादिना ग्रन्थेनोपपात
। स्यात्तदाह-तेषां कमशन्तीति सम्बन्धः । न गाहमहारादिजनिता दुःखविशेषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org