________________
-%
156
धुता० उद्देशकः
ER
॥२३३॥
श्रीआचा- दासेन 'प्रत्युपेक्षिताः' प्रति उप-सामीप्येन ईक्षिताः-ज्ञाता भवन्ति स धर्ममाचष्टे नापर इति । इदमेवाह-आख्याति राङ्गवृत्तिः कथयति 'स' तीर्थकृत्सामान्यकेवली अपरो वाऽतिशयज्ञानी श्रुतकेवली वा, किमाख्याति?-'ज्ञान' ज्ञायन्ते परिच्छि(शी०) द्यन्ते जीवादयः पदार्थाः येन तज्ज्ञानं-मत्यादि पञ्चधा, किम्भूतं ज्ञानमाख्याति?-'अनीदृशं' नान्यत्रेदशमस्तीत्यनी
दृशं, यदिवा सकलसंशयापनयनेन धर्ममाचक्षाण एव स आत्मनो ज्ञानमनन्यसदृशमाख्याति । केषां पुनः स धर्म॥२३३॥
माचष्ट इत्यत आह-'स' तीर्थकृद्गणधरादिः 'कीर्तयति' यथावस्थितान भावान् प्रतिपादयति 'तेषां' धर्मचरणाय सम्य
गुत्थितानां, यदिवा उत्थिता द्रव्यतो भावतश्च, तत्र द्रव्यतः शरीरेण भावतो ज्ञानादिभिः, तत्र स्त्रियःसमवसरणस्था उभ-1 पायथाऽप्युत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः, भावोत्थितानां तु धर्ममावेदयति उत्तिष्ठासूनां च देवानां तिरश्चांच,
येऽपि कौतुकादिना शृण्वन्ति तेभ्योऽप्याचष्टे, भावसमुत्थितान् विशिशेषयिषुराह-निक्षिप्ताः-संयमिताः मनोवाकायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते तथा तेषां निक्षिप्तदण्डानां, तथा समाहिताणं' सम्यगाहिता:-तपःसं-| यम उद्युक्ताः समाहिता अनन्यमनस्कास्तेषां, तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानाम् 'इह' अस्मि-1 न्मनुष्यलोके 'मुक्तिमार्ग' ज्ञानदर्शनचारित्रात्मकं कीर्तयतीति सम्बन्धः । तस्य च तीर्थकृतः साक्षाद्धर्ममावेदयतः केचन लघुकर्माणस्तथैव प्रतिपद्य धर्मचरणायोद्यच्छन्त्यपरे त्वन्यथेत्येतत्प्रतिपादयितुमाह-अपिशब्दश्चार्थे, चशब्दश्च वाक्योपन्यासाथै, एवं च तीर्थकृताऽऽवेदिते सत्येके-लब्धकर्मविवरा विविधं संयमसामशिरसि पराक्रमन्ते, परान् वा इन्द्रियकमरिपून् आक्रमन्ते पराक्रमन्त इति । एतद्विपर्ययमाह-साक्षात्तीर्थकरे सकलसंशयच्छेत्तरि धर्ममावेदयति सत्येकान् प्रबलमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूयं, किम्भूतानित्याह-नात्मने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्तानिति, हा कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्ति किं कारणमित्याह
संशब्दखच्छन्दाथै, अपिशब्दश्चार्थे, स च वाक्योपन्यासार्थः, तद्यथा च कूम्र्मो महादे विनिविष्टं चित्तं यस्यासौ विनिविष्टचित्तो-गायमुपगतः पलाशैः-पत्रैः प्रच्छन्नः पलाशप्रच्छन्नः, सूत्रे तु प्राकृतत्वाव्यत्ययः, 'उम्मग्गति विवरं उन्मज्यत तेऽनेनेति वोन्मज्यम्, ऊर्दू वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः , तदसौ न लभतः इत्यक्षरार्थः । भावार्थस्त्वयम्
कश्चिद् हुदो योजनशतसहस्रविस्तीर्णः प्रबलशेवालघनकठिनवितानाच्छादितो नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयः, तन्मध्ये चैकं विनसापरिणामापादितं कच्छपग्रीवामात्रप्रमाणं विवरमभूत्, तत्र जैकेन कूर्मेण निजयूथात् प्रभ्रष्टेन वियोगाकुलतयेतस्ततश्च शिरोधरां प्रक्षिपता कुतश्चिसथाविधभवितव्यतानियोगेन तद्रन्ध्र प्रीवानिर्गमनमाप्तं, तत्र चासौ शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकरकृतोपचारमिव तारकाकीर्ण नभस्तलमीक्षाश्चके, दृष्ट्वा चातीव मुमुदे, आसीच्चास्य मनसि-यदि तानि मदाण्येतत्स्वर्गदेश्यमदृष्टपूर्व मनोरथानामप्यविषयभूतं पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य तूर्णमन्वेषणाय बन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थ सर्वतः पर्यटति, न च तद्विवरं विस्तीर्णतया इदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनाशमुपयात इति । अस्यायमर्थोपनयंः-संसारहूदे जीवकूर्मः कर्मशेवालविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थं विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतः पुनः
धुता०६
श्रीआचारामवृत्तिः (शी०)
उद्देशक
CAMERAMACHARACTERS
॥२३४॥
PARE-REALLAHAT
संसारहदान्तर्वतिनस्तदवाप्तिः, तस्मादवाप्य भवशतदुरापं कर्मविवरभूतं सम्यक्त्वं क्षणमप्येकं तत्र न प्रमादवता भा
व्यमिति तात्पर्यार्थः । पुनरपि संसारानुषङ्गिणां दृष्टान्तान्तरमाह-भञ्जगा' वृक्षास्त इव शीतोष्णप्रकम्पनच्छेदनशाखाककार्षणक्षोभामोटनभञ्जनरूपानुपद्रवान् सहमाना अपि 'सन्निवेशं स्थानं कर्मपरतया न त्यजन्ति, एवमित्यादिना दार्टान्तिकमर्थ दर्शयति-'एव'मिति वृक्षोपमया 'अपिः' सम्भावने, 'एके' कर्मगुरवोऽनेकरूपेषु कुलेषूच्चावचेषु जाता धर्मचरणयोग्या अपि रूपेषु चक्षुरिन्द्रियानुकूलेषूपलक्षणार्थत्वाच्छब्दादिषु च विषयेषु 'सक्ताः' अध्युपपन्नाःशारीरमानसदुःखदुःखिता राजोपद्रवोपद्रुताः अग्निदाहदग्धसर्वस्वा नानानिमित्ताहिताधयोऽपि न सकलदुःखावासं गृहवासं कर्मनिनास्त्यक्तुमलम् , अपि तु तत्स्था एव तेषु तेषु व्यसनोपनिपातेषु सत्सु 'करुणं स्तनन्ति' दीनमाक्रोशन्ति, तद्यथा-हा तात! हा मातः हा देव! न युज्यते भवत एवं विधेऽवसरे एवम्भूतं व्यसनमापादयितुं, तदुक्तम्-"किमिदमचिन्तितमसदृशमनिष्टमतिकष्टमनुपमं दुःखम् । सहसैवोपनतं मे नरयिकस्येव सत्त्वस्य ? ॥१॥" इत्यादि, यदिवा रूपादिविषयासक्ता उपचितकम्ाणो नरकादिवेदनामनुभवन्तः करुणं स्तनन्तीति, न च करुणं स्तनन्तोऽप्येतस्मात् दुःखान्मुच्यन्ते इत्येतद्दर्शयितु|माह-दुःखस्य निदानम्-उपादानं कर्म ततस्ते विलपन्तोऽपि न लभन्ते 'मोक्षं दुःखापगमं मोक्षकारणं वा संयमानुष्ठानमिति । दुःखविमोक्षाभावे च यथा नानाब्याध्युपसृष्टाः संसारोदरे प्राणिनो विवर्त्तन्ते तथा दर्शयितुमाह-'अर्थ' इति वाक्योपन्यासार्थे पश्य त्वं तेपूच्चावचेषु कुलेषु, आत्मत्वाय--आत्मीयकर्मानुभवाय जाताः, तदुदयाच्चेमा अवस्थामनुभवन्तीत्याह-पोडशरोगवक्तव्यानुगतं श्लोकत्रय, वातपित्तश्लेष्मसन्निपातजं चतुर्दा गण्डं, तदस्यास्तीति गण्डी-गण्ड
॥२३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org