________________
श्रीआचा
राङ्गवृत्तिः (शी०)
॥ २३२ ॥
155
अथ धुताख्यं षष्ठमध्ययनम्
$10K Spe
उक्तं पञ्चममध्ययनं साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने लोकसारभूतः संयमो मोक्षश्च प्रतिपादितः, स च निःसङ्गताव्यतिरेकेण कर्म्मधुननमन्तरेण च न भवतीत्यतस्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशाधिकारश्च तत्राध्ययनार्थाधिकारः प्रागभाणि, उद्देशार्थाधिकारं तु निर्युक्तिकारी बिभणिपुराह
पठमे नियगविणणा कम्माणं बितियए तइयगंमि । उवगरणसरीराणं वउत्थए गारवतिगस्स ॥ २९० ॥ प्रथमोदेश के निजकाः - स्वजनास्तेषां विधूननेत्ययमर्थाधिकारः, द्वितीये कर्म्मणां, तृतीये उपकरणशरीराणां चतुर्थे गौरवत्रिकस्य, विधूननेति सर्वत्र सम्बन्धनीयम्, उपसर्गाः सन्माननानि च यथा साधुभिर्विधूतानि तथा पञ्चमोद्देश के प्रतिपाद्यत इत्यर्थाधिकारं परिसमापय्य निक्षेपमाह - स च त्रिधा, तत्रौघनिष्पन्नेऽध्ययनं, नामनिष्पन्ने तु धूतं, तश्च चतुर्द्धा, तत्रापि नामस्थापने सुगमत्वादनादृत्य द्रव्यभावधूतप्रतिपादनाय गाथाशकलम् -
उवसग्गा सम्माणयविहू आणि पञ्चमंमि उद्देसे । दव्वधुयं वत्थाई भावधुयं कम्म अट्ठविहं ॥ २५१ ॥ द्रव्यधूतं द्विधा - आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यधूतं द्रव्यं च तद्वस्त्रादि धूतं च रजोऽपनयनाथै द्रव्यधूतं, आदिग्रहणाद्वृक्षादि फलार्थे, भावधूतं क मष्टविधं तद्विमोक्षार्थं धूयत इति गाथाशकलार्थः ॥ पुनरप्येनमेवार्थ विशेषतः प्रतिपादयितुमाह
अहियासित्वसग्गे दिव्वे माणुस्सए तिरिच्छे य। जो विहुणइ कम्माई भावधुयं तं वियाणाहि ॥ २५२ ॥ अधिकमासात्यर्थं सोया, कानतिसह्य ? - उपसर्गान्, किंभूतान् ? - दिव्यान्मानुषांस्तैरश्वांश्च यः कर्माणि संसारतरुवीजानि विधुनाति - अपनयति तद्भावधुतमित्येवं जानीहि क्रियाकारकयोरभेदाद्वा कर्म्मधूननं भावधूतं जानीहीति भावार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम्
Jain Education International
ओबुज्झमाणे इह माणत्रेसु आघाइ से नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिस, से किइ तेसिं समुट्टियाणं निक्खित्तदण्डाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमग्गं, एवं (अवि) एगे महावीरा विप्परिकमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, से जहावि (सेवि) कुंमे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं (अवि) एगे अगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलणं थांति नियाणओ ते न लभंति मुक्खं, अह पास तेहिं कुलेहिं आयत्ताए जाया, -गंडी अहवा कोढी, रायसी अवमा रियं । काणियं झिमियं चेव, कुणियं खुज्जियं तहा ॥ १ ॥ उदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवई पीढसपि च, सिलिवयं मधुमेहणिं ॥ २ ॥ सोलस एए रोगा अक्खाया अणुपुव्वसो । अह णं फुसंति आयंका, फासा य असमंजसा ॥ ३ ॥ मरणं तेसिं संपेहाए उववायं चवणं च नच्चा, परियागं च संपेहाए (सू० १७२ )
स्वर्गापवग्ग तत्कारणानि च तथा संसारं तत्कारणानि चावबुध्यमानोऽनावारकज्ञानसद्भावाद् 'इहे'ति मर्त्यलोके मानवेषु विषयभूतेषु धर्ममाख्याति स नरो भवोपग्राहिकर्म्मसद्भावात् मनुष्यभावव्यवस्थितः सन् धर्ममाचष्टे, न पुनयथा शाक्यानां कुड्यादिभ्योऽपि धर्म्मदेशनाः प्रादुष्ष्यन्ति, यथा वा वैशेषिकाणामुलुकभावेन पदार्थाविर्भावनम्, एव| मस्माकं न, कथं ? - घातिकर्मक्षये तूलननिरावरणज्ञानो मनुष्यभावापन्न एव कृतार्थोऽपि सत्त्वहिताय सदेवमनुजायां पर्षदि कथयतीति । किं तीर्थकर एव धर्म्ममाचष्टे उतान्योऽपि ?, अन्योऽपि यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्माविभविनं करोतीति दर्शयितुमाह-यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा 'इमाः' शस्त्रपरिज्ञायां साधितत्वात् प्रत्यक्षवाचिनेदमाऽभिहिताः 'जातयः' एकेन्द्रियादयः 'सर्वतः सर्वैः प्रकारैः सूक्ष्मवादरपर्याप्तकापर्याप्तकरूपैः सुष्ठु शङ्कादिव्यु
For Private Personal Use Only
धुता० ६ उद्देशकः १
॥ २३२ ॥
www.jainelibrary.org