________________
---
-
---
-
-
154 श्रीआचा- संगे न इत्थी न पुरिसे न अन्नहा परिन्ने सन्ने उवमा न विजए, अरूबी सत्ता, अप- लोक०५ राङ्गवृत्तिः
यस्स पयं नत्थि, (सू० १७०) (शी०)
उद्देशका ___ 'अत्येति' अतिकामति जातिश्च मरणं च जातिमरणं तस्य 'वट्टमग्गंति पन्थानं मार्ग उपादानं कम्र्मेतियावत् , तद॥२३०॥
| त्येति-अशेषकर्मक्षयं विधत्ते, तत्क्षयाच्च किंगुणः स्यादित्याह-विविधम्-अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रा
र्थतया तपःसंयमानुष्ठानार्थत्वेन (आख्यातो) व्याख्यातो मोक्षः-अशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र || रतो व्याख्यातरतः, आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपि कालं संतिष्ठते । किम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिः, न च सा काचिदवस्थाऽस्ति या शब्दैरभिधीयेत इत्यतत्प्रतिपादयितुमाह-'सर्वे' निरवशेषाः 'स्वरा'ध्वनयस्तस्मानिदर्तन्ते, तद्वाच्यवाचकसम्बन्धे न प्रवर्त्तन्ते, तथाहि-शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवर्तेरन् , न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति । न केवलं शब्दानभिधेया, उत्प्रेक्षणीयाऽपि न सम्भवतीत्याह-सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहस्तर्कः-एवमेवं चैतत्स्यात् , स च यत्र न विद्यते ततः शब्दानां कुतःप्रवृत्तिः स्यात् । किमिति तत्र तर्काभाव इति चेदाहमननं मतिः-मनसो व्यापारः पदार्थचिन्ता सौत्सत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकल
॥ २३० ।। विकल्पातीतत्वात् , तत्र च मोक्षे कौशसमन्वितस्य गमनमाहोश्चिनिष्कर्मणः, न तत्र कर्मसमन्वितस्य गमनमस्तीत्येतदर्शयितुमाह-'ओजः' एकोऽशेषमलकलङ्काङ्करहितः, किंच-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य 'खेदज्ञो' निपुणो, यदिवा अप्रतिष्ठानो-नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो, लोकनाडिपर्यन्तपरिज्ञानावेदनेन च समस्तलोकखेदज्ञता आवेदिता भवति । सर्वस्वरनिवर्तनं च येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविष्कुर्वन्नाह- 'स' परमपदाध्यासी लोकान्तकोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दीर्घो न इस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमण्डलो वर्णमाश्रित्य न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो रसमाश्रित्य न तिक्तो न कटुको न कषायो नाम्लो न मधुरः स्पर्शमाश्रित्य न कर्कशो न मृदुर्न लघुन गुरुन शीतो नोष्णो न स्निग्धो न रुक्षो 'न काऊ' इत्यनेन लेश्या गृहीता, यदिवा न कायवान् यथा वेदान्तवादिनाम्-'एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति आदित्यरश्मय इवांशुमन्तमिति, तथा न रुहः 'रुह बीजजन्मनि प्रादुर्भावे च' रोहतीति रुहः, न रुहोऽरुहः, कर्मबीजाभावादपुनर्भावीत्यर्थः, न पुनर्यथा शाक्यानां दर्शननिकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च-"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥१॥" तथा च न विद्यते सङ्गोऽमूर्त्तत्वाद्यस्य स तथा, तथा न स्त्री न पुरुषो नान्यथेति-न नपुंसकः, केवलं सर्वैरात्मप्रदेशैः परिः-समन्ताद्विशेषतो जानातीति परिज्ञः, तथा सामान्यतः सम्यग्जानाति-पश्यतीति संज्ञः, ज्ञानदर्शनयुक्त इत्यर्थः, यदि नाम स्वरूपतो न |
ज्ञायते मुक्तात्मा तथाऽप्युपमाद्वारेणादित्यगतिरिव ज्ञायत एवेति चेत्, तन्न, यत आह-उपमीयते सादृश्यात् परिच्छिश्रीआचा-
1द्यते यया सोपमा-तुल्यता सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषा, कुत एतदिति चेदाह-तेषां लोक० ५ रावृत्तिःमुक्तात्मनां या सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव । किं च न विद्यते पदम्-अवस्था
उद्देशकः६ (शी०) विशेषो यस्य सोऽपदः, तस्य पद्यते-गम्यते येनार्थस्तत्सदम्-अभिधानं तच्च 'नास्ति' न विद्यते, वाच्यविशेषाभावात् ,
तथाहि-योऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतदर्शयितुमाह, यदिवा ॥२३१॥
दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतं, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह
से न सद्दे न रूवे न गंधे न रसे न फासे, इच्छेव तिबेमि (सू० १७१)॥ षष्ठ उद्देशकः।
लोकसाराध्ययनं समाप्तं ॥५-६॥ 'स' मुक्तात्मा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । गतः सूत्रानुगमः, तद्गतौ चापवर्गमाप्त उद्देशकः, तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं लोकसाराख्यं पञ्चममध्ययनमिति ॥ ग्रन्थाग्र०१११५॥
॥२३१॥
A
A
%
5605250%-6-6454250%
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org