________________
153
AAAAAA%*
(शी०)
निदेसं नाइवढेजा मेहावी सुपडिलेहिया सव्वओ सव्वप्पणा सम्मं समभिण्णाय, इह
आरामो परिव्वए निट्रियट्टी वीरे आगमेण सया परकमे (सू० १६८) निर्दिश्यत इति निर्देशः-तीर्थकराद्युपदेशस्तं नातिवर्तेत 'मेधावी' मर्यादावानिति । किं कृत्वा निर्देश नातिवर्तेतेत्यत आह-सुष्टु प्रत्युपेक्ष्य हेयोपदेयतया तीर्थकवादान् सर्वज्ञवादं च 'सर्वतः' सर्वैः प्रकारैर्द्रव्यक्षेत्रकालभावरूपैः सर्वात्मनासामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽचार्यनिर्देशवी तीर्थिकप्रवादनि-1 राकरणं कुर्यात्, किं च कृत्वेत्यत आह-सम्यगेव स्वपरतीर्थिकवादान् 'समभिज्ञाय' बुवा ततो निराकरणं कुर्यात् । किं च-'इह' अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपः संयमः तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च 'परिव्रजेत्' संयमानुष्ठाने विहरेत् , किंभूत इत्याह-निष्ठितोमोक्षस्तेनार्थी यदिवा निष्ठितः-परिसमाप्तः अर्थः-प्रयोजनं यस्य स निष्ठितार्थः 'वीर' कर्मविदारणसहिष्णुः सन् 'आगमेन' सर्वज्ञप्रणीताचारादिना 'सदा' सर्वकालं 'पराक्रमेथाः' कर्मरिपून् प्रति मोक्षाध्वनि वा गच्छेः । इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । किमर्थ पुनः पौनःपुन्येनोपदेशदानमित्याह
उहूं सोया अहे सोया, तिरियं सोया वियाहिया । एए सोया विअक्खाया, जेहिं सं
गंति पासह ॥१॥ आ. सू. 1 श्रीआचा- श्रोतांसि-कौनवद्वाराणि तानि च प्रतिभवाभ्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत जी श्रोतांसि-वैमानिका- लोक० राजवृत्तिः काङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधो भवनपतिसुखाभिलाषिता, तिर्यग् व्यन्तरमनुष्यतिर्यग्विषयेच्छा, यदि
उद्देशकः६ वा प्रज्ञापकापेक्षयोई गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि अधोऽपि श्वभ्रनदीकूलगुहालयनादीनि तिर्यगप्यारा
मसभाऽऽवसथादीनि प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि-प्रयोगविनसाभ्यां स्वकर्मपरिणत्या वा जनितानि से ॥२२९॥
व्याहितानि, एतानि च कानवद्वाराणीतिकृत्वाश्रोतांसीव स्रोतांसि, एभिश्च त्रिभिः प्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैः 'सङ्ग' प्राणिनामासक्ति कर्मानुषङ्ग वा पश्यत, इतिहेतो, तस्मात्कर्मानुषङ्गात् कारणादेतानि स्रोतांसीत्यतोऽपविश्यते, |आगमेन सदा पराक्रमेथा इति ॥ किंच
आवदं तु पेहाए इत्थ विरमिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्मा
जाणइ पासइ पडिलेहाए नावकंखइ इह आगई गई परिन्नाय (सू० १६९) रागद्वेषकषायविषयावर्त्त कर्मबन्धावत वा तुशब्दः पुनःशब्दार्थे भावावर्त पुनरुत्प्रेक्ष्य 'अत्र' अस्मिन् भावावर्ते विषयरूपे 'वेदविद्' आगमविद् 'विरमेद्' आस्रवद्वारनिरोधं विदध्यात्, पाठान्तरं वा "विवेगं किट्टइ वेदवी" आम्रवद्वारनिरोधेन तजनितकर्मविवेकम्-अभावं 'कीर्तयति' प्रतिपादयति वेदविदिति । आस्रवद्वारनिरोधेन च यत्स्यात्त
२९। दाह-स्रोतः-आस्रवद्वारं तद्विनेतुम्-अपनेतुं निष्क्रम्य' प्रव्रज्य 'एष' इति प्रत्यक्षः प्रस्तुतार्थस्य चावश्यंभावित्वादेष इति प्रत्यक्षवाचिना सर्वनाम्नोक्तो यः कश्चिदित्यर्थः 'महान्' महापुरुषः अतिशयिककर्मविधायी, एवम्भूतश्च किंविशिष्टः स्यादिति दर्शयति-'अकर्मा'नास्य कर्म विद्यत इत्यकर्मा, कर्मशब्देन चात्र घातिकर्म विवक्षितं, तदभावाच जानाति विशेषतः पश्यति च सामान्यतः, सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्व जानाति पश्चाच्च पश्यति, अनेन च क्रमोपयोग आविष्कृतः, स चोत्पन्नदिव्यज्ञानस्त्रैलोक्यललामचूडामणिः सुरासुरनरेन्द्रैकपूज्यः संसारार्णवपारवती | विदितवेद्यः सन् किं कुर्यादित्याह-स हि ज्ञातज्ञेयः सुरासुरनरोपहितां पूजामुपलभ्य कृत्रिमामनित्यामसारां सोपाधिका च 'प्रत्युपेक्ष्य' पर्यालोच्य हृषीकविजयजनितसुखनिःस्पृहतया तां नाकासति-नाभिलपतीति । किं च-'इह' अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिं च संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति ॥ तन्निराकरणे च यत्स्यात्तदाह
अच्चेइ जाईमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियति, तक्का जत्थ न विजइ, मई तत्थ न गाहिया, ओए, अप्पइटाणस्स खेयन्ने, से न दीहे न हस्से न वढे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालि। न सुकिल्ले न सुरभिगंधे न दुरभिगंधे न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उण्हे न निद्धे न लुक्खे न काऊ न रुहे न
SAAKAASARAS+%
A4%-*
MCHA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org