________________
152
श्रीआचासङ्गवृत्तिः (शी०)
॥ २२७॥
अभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अवहिमणे, पवारण प. लोक०५ वायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसि वा अंतिए सुच्चा (सू० १६७)
उद्देशका६ 'अभिभूय' पराजित्य परीषहोपसर्गान् घातिचतुष्टयं वा तत्त्वमद्राक्षीत् , किं च-नाभिभूतोऽनभिभूतः अनुकूलप्रतिकूलोपसर्गः परतीर्थिकैर्वा, स एवम्भूतः 'प्रभुः' समर्थो निरालम्बनतायाः-नात्र संसारे मातापितृकलत्रादिकमालम्बनमस्तीति तीर्थकृद्धचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थों भवति, कः पुनः परीषहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाः प्रभुर्भवति ? इत्येवं पृष्टे तीर्थकृत् सुधर्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाह-यः पुरस्कृतमोक्षो 'महान्' महापुरुषो लघुकर्मा ममाभिप्रायान्न विद्यते वहिर्मनो यस्यासावबहिम्मनाः, सर्वज्ञोपदेशवत्तीति यावत्, कुतः पुनस्तदुपदेशनिश्चय इति चेदाह-प्रकृष्टो वादः प्रवादः-आचार्यपारम्पर्योपदेशः प्रवादस्तन प्रवादेन प्रवादसर्वज्ञोपदेशं 'जानीयात्' परिच्छिन्द्यादिति । यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थद्वचनाद्वहिर्मनो विधत्ते, तीर्थकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह-'पवाएण पवायं जाणिजा' प्र-19 कृष्टो वादः प्रवादः-सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थिकप्रवादं 'जानीयात्' परीक्षयेत् , तद्यथा-वैशेषिकाः तनु-| भुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तम्-"अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो ॥२२॥ गच्छेत्स्वर्ग वा श्वभ्रमेव च ॥१॥” इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत्, तद्यथा-अभ्रेन्द्रधनुरादीनां विस्र-2 सापरिणामलब्धात्मलाभाना तदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गः स्यात् , तथा घटपटादीनां दण्डचक्रची-13 वरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानां तदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनायां रासभादेरपि किं न स्यात् !, तनुकरणादीनामप्यवन्ध्यस्वकृतकापादितं वैचित्र्यं, कर्मणोऽनुपलब्धेः कुत एतदिति चेत् , समानः पर्यनुयोगः, अपि च-तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन भाव्यं, तश्चेश्वराभ्युपगमेऽप्यदृष्टमेवेष्टव्यं, नान्यथा सुखदुःखसुभगदुर्भगादि जगद्वैचित्र्यं स्यादिति। तथा साङ्क्षचा एवमाहुः-यथा 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पञ्च तन्मात्राणि, तन्मात्रेभ्यः पश्चभूतानि, बुख्यध्यवसितमर्थ पुरुषश्चेतयते, स चाकर्ता निर्गुणश्चेति, तथा प्रकृतिः करोति पुरुष उपभुङ्क्ते ततः कैवल्याव-13 स्थायां द्रष्टाऽस्मीति निवर्तते' इत्यादिकं युक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि-प्रकृतेरचेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात् १, कुतो वा दृष्टेत्यात्मोपकाराय प्रवृत्तिर्न स्यात् ?, अचेतनायास्तद्विकल्पासम्भवात् , नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात्, पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृत्वाद्यभावः स्यादिति, उक्तं च-"न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात् । न मोक्षसुखकाडी वा, पुरुषो निष्क्रियात्मकः ॥१॥कः प्रव्रजति साङ्ख्यानां, निष्क्रिये क्षेत्रभोक्तरि । निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते ? ॥२॥” इति । तथा शौद्धोदनिशिष्यका यत्सत्तत्सर्व क्षणिकमित्येवं व्यवस्थिताः, तत्रोत्तरम्, यदि निरन्वयो विनाशः स्यात् ततः प्रतिनियतः कार्यकारणभाव एव न स्यात्, एकसन्तानान्तर्गतत्वात्स्यादिति चेत्, अशिक्षितस्योल्लापः, तथाहि-न सन्तामिव्यतिरेकेण कश्चित्सन्तानोऽस्ति, तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्व सर्वस्य कारणं स्यात्, सर्वस्य पूर्वकालक्षणावस्थायि- लोक० ५ वायत्किञ्चिदेतदिति, किंच-"यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे ? । नोत्पन्नमात्रभन्ने क्षिप्तं सन्तिष्ठते वारि
उद्देशका ॥१॥ कर्तरि जातविनष्टे धर्माधर्मक्रिया न सम्भवति । तदभावे बन्धः को बन्धाभावे च को मोक्षः ॥२॥” इत्यादि । वाहत्पत्याना तु भूतवादनात्मपुण्या त्यादि । बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिना निर्मर्यादतया जनतातिगानां न्यक्कारपदव्याधा-14 नमनुत्तरमेवोत्तरमिति । अपि च-"अब्रह्मचर्यरक्तैर्मूढैः परदारघर्षणाभिरतैः । मायेन्द्रजालविषववर्तितमसत्किमप्येतत् ॥१॥" तथा-"मिथ्या च दृष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशून्या । धर्माय येषां पुरुषाधमानां,
तेषामधर्मो भुवि कीदृशोऽन्यः? ॥२॥” इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुश्रित्य निराकार्या इति | द स्थितं । तन्निराकरणं च सर्वज्ञप्रवादं निराकार्य च तीर्थिकप्रवादमेभिस्त्रिभिः प्रकारर्जानीयादित्याह-मननं मतिः-ज्ञानं
ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा-तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सह वा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्वकलङ्काङ्करहितया मत्याऽवगच्छेत् , स्वपरावभासकत्वान्मतेरिति, कदाचित्सरव्याकरणेनाप्यवगच्छेत् परः-तीर्थकृत्तस्य तेन वा व्याकरणं-यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वा जानीयात् , तथाऽप्यनवगमेऽन्येषामाचार्यादीनां अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ॥ अवधार्य च किं कुर्या- ॥२२८॥ दित्याह
"LAAMACARALARMACANCERNATAKAASCALENTERCOC
व्यवस्थिताः, नवाऽस्य, क्षेत्रभोकाडी वा, पुरुषो नात्याघभावः स्थास्तविक
श्रीआचारामवृत्तिः (शी०) ॥२२८॥
Aॐॐॐ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org