________________
151
-CARRC-
AAAAAAC
दिपेत् । ननु चात्मनाऽनुसंवेदनमित्युक्तं, संवेदनं च सातासातरूपं, तच्च यथा नैयायिकवैशेषिकाणामात्मनो भिन्नेन गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाह
जे आया से विन्नाया जे विन्नाया से आया जेण वियाणइ से आया त पडुच्च पडि
संखाए, एस आयावाई समियाए परियाए वियाहिए तिबेमि (सू० १६५) ॥ ५-५॥ य आत्मा नित्य उपयोगलक्षणः विज्ञाताऽप्यसावेव, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदक, यश्च विज्ञाता -पदार्थानां परिच्छेदक उपयोगः आत्माऽप्यसावेव, उपयोगलक्षणत्वाजीवस्य उपयोगस्य च ज्ञानात्मकत्वादिति । ज्ञानामनोरभेदाभिधानाद्वौद्धाभिमतं ज्ञानमेवैकं स्थादिति चेत् , तन्न, भेदाभावोऽत्र केवलं चिकीर्षितो नैक्यं, एतदेवक्यं यो भेदाभाव इति चेद्, वार्तमेतत् , तथाहि-पटशुक्लत्वयोर्भेदेनावस्थानाभावेऽपि नैकत्वापत्तिः, अत्रापि शुक्लत्वव्यतिरेकेण नापरः पटः कश्चिदप्यस्तीति चेद्, अशिक्षितस्योल्लापो, यतः शुक्लगुणविनाशे सर्वथा पटाभावापत्तिः स्यात् , तदात्मना विनष्ट एवेति चेत्, भवतु का नो हानिः१, अनन्तधात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्मसद्भावे तद्धर्मविनाशेऽप्यविनष्ट एव, इत्येवमात्मनोऽपि प्रत्युत्पन्न ज्ञानात्मकतया विनाशेऽप्यपरामूर्त्तत्वासङ्ख्येयप्रदेशताऽगुरुलध्वादिधर्मसद्भावादविनाश एवेत्यलं प्रसङ्गेन । ननु च य आत्मा स विज्ञातेत्यत्र तृजन्तेन कर्तुरभिधानादात्मनश्च कर्तृत्वात्ततश्च य एवात्मा
स एव विज्ञातेत्यत्र विप्रतिपत्त्यभावो, येन चासो जानाति तद्भिन्नमपि स्यात्, तथाहि-तत्करणं क्रिया वा भवेद् ?, यदि श्रीआचा-1 करणं तद्दात्रादिवभिन्नं स्यात्, अथ क्रिया सा यथा कर्तृस्था सम्भवत्येवं कर्मस्थाऽपीत्येवं भदसम्भवे कुत ऐक्य-18 लोक०५ राङ्गवृत्तिः
मिति यश्चोदयेत्तं प्रति स्पष्टतरमाह-'येन' मत्यादिना ज्ञानेन करणभूतेन क्रियारूपेण वा विविधं-सामान्यविशेषाका(शी०) रतया वस्तु जानाति विजानाति स्त्र आत्मा, न तस्मादात्मनो भिन्नं ज्ञानं, तथाहि-न करणतया भेदः, एकस्यापि कर्तृ
उद्देशक:५ कर्मकरणभेदेनोपलब्धेः, तद्यथा-देवदत्त आत्मानमात्मना परिच्छिनत्ति, क्रियापक्षे पाक्षिको ह्यभेदो भवताऽप्यभ्युपगत ॥२२६॥
एव, अपि च-भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यत' इत्यादिनैकत्वमेवेति । ज्ञानात्मनोश्चैकत्वे यद्भवति तदर्शयितुमाह-तं' ज्ञानपरिणाम 'प्रतीत्य'आश्रित्यात्मा तेनैव 'प्रतिसङ्खचायते' व्यपदिश्यते, तद्यथा-इन्द्रोपयुक्त इन्द्र इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरेकत्वमभ्युपगच्छति स किंगुणः स्यादित्याह-'एषः' अनन्तरोक्तया नीत्या यथावस्थितात्मवादी स्यात् , तस्य च सम्यग्भावेन शमितया वा 'पर्यायः' संयमानुष्ठानरूपो व्याख्यातः । इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्॥ लोकसाराध्ययने पश्चमोदेशकः ॥
Revearउक्तः पश्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमाभसम्बन्धः-इहानन्तरोद्देशके इदोपमेनाचार्येण भाव्यमित्येतदुक्तं, तथाभूताचार्यसंपर्काच कुमार्गपरित्यागो रागद्वेषहानिश्चावश्यंभाविनीत्यतस्तत्प्रतिपादनसम्बन्धेनागतस्या- ॥२२६॥ स्योद्देशकस्यादिसूत्रम्
अणाणाए एगे सोवटाणा आणाए एगे निरुवटाणा, एयं ते मा होउ, एयं कुसलस्स
दंसणं, तदिट्रीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे (सू०१६६) इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्य सामान्यतोऽभि|धानम् , अनाज्ञा-अनुपदेशः स्वमनीषिकाचरितोऽनाचारस्तयाऽनाज्ञया तस्यां वा 'एके' इन्द्रियवशगा दुर्गतिं जिगमिषवः स्वाभिमानग्रहग्रस्ताः सह उपस्थानेन-धर्माचरणाभासोद्यमेन वर्तन्त इति सोपस्थानाः, किल वयमपि प्रत्रजिताः सदसद्धर्मविशेषविवेकविकलाः सावद्यारम्भतया प्रवर्तन्ते, एके तु न कुमार्गवासितान्तःकरणाः, किन्तु आलस्यावर्णस्तम्भाधुपबृंहितबुद्धयः, 'आज्ञायां' तीर्थकरोपदेशप्रणीते, सदाचारे निर्गतमुपस्थानम्-उद्यमो येषां ते निरुपस्थाना:-सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः। एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनं च द्वयमपि 'ते' तव गुरुविनेयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति । सुधर्मस्वामी स्वमनीषिकापरिहारार्थमाह-'एतद्' यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपमस्थानत्वमाज्ञायां च सोपमस्थानत्वमित्येत् 'कुशलस्य' तीर्थकृतो दर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणं कुशलस्य दर्शनमित्याह-कुमार्ग परित्यज्य सदाऽऽचार्यारतवासिना एवंभूतेन भाव्य, तस्य-आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्तितव्यं, सा वा तीर्थकरप्रणी|तागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य-आचार्यस्य तीर्थकृतो वा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्य सर्वकार्येषु पुरः करोतीति तत्पुरस्कारः-आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, तथा तत्संज्ञी-तज्ज्ञानोपयुक्तः, तथा तन्निवेशन:-सदा गुरुकुलनिवासी ॥ स एवंभूतः किंगुणः स्यादित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org