________________
पत्राचा
(शी ० )
॥ २२४ ॥
श्रीमाचारात्रवृतिः
(शी०)
।। २२५ ।।
150
क्षया, असम्यगपर्यालोचनतयाऽशुद्धाध्यवसाय तयेति यावत्, 'वद्यथा शङ्कयेत्तत्तथैव समापद्येते' ति वचनादिति ६ ॥ यदिवा - " समियंति मनमाणस्स” इत्याद्यन्यथा व्याख्यायते - शमिनो भावः शमिता 'इतिः' उपप्रदर्शने तामेतां शमिता मन्य|मानस्य शुभाध्यवसायिनः 'एकदे' त्युत्तरकालमपि शमितैव भवति-उपशमवत्तैवोपजायते, अन्यस्य तु शमितामपि मन्यमानस्य कपायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति । तदेवं सम्यगसम्यगित्येवं | पर्यालोचयन्नपरस्याप्युपदे शदानायालमिति, आह च-आगमपरिकम्मितमरित्वाद्यधावस्थितपदार्थस्वभावदर्शितया सम्यगसम्यगिति चोत्प्रेक्षमाणः-पर्यालोचयन्नपरमनुत्प्रेक्षमाणं गडरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणं शङ्कया वाऽपधावन्तं ब्रूयाद्, यथा- 'उत्प्रेक्षस्व 'पर्यालोचय सम्यग्भावेन माध्यस्थमवलम्ब्य किमेतदर्हदुक्तं जीवादितत्त्वं घटामिय
होश्चिनेत्यक्षिणी निमील्य चिन्तयेति भावः । यदिवा उत्प्रेक्षमाणः संयममुत्- प्राबल्येनेक्षमाणः - संयमे उद्यच्छन्ननुलेक्षमाणं ब्रूयात्, यथा- सम्यग्भावापन्नः सन् संयममुत्प्रेक्षस्व-संयमे उद्योगं कुरु । किमवलम्ब्येत्याह - ' इत्येवं' पूर्वोक्तेन प्रकारेण 'तत्र' तस्मिन् संयमे 'सन्धिः' कर्म्मसन्ततिरूपो 'झोषितः' क्षपितो भवति, यदि संयमे सम्यग्भावे वोत्प्रेक्षणं स्यात्, नान्यथेति । सम्यगुत्प्रेक्षमाणस्य च यत्स्यासदाह - 'से' तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायां वा या गतिर्भवति-या पदवी भवति तां सम्यगनुपश्यत यूयं तद्यथा-सकललोक श्लाध्यता ज्ञानदर्शनस्थैर्य चारित्रे निष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात्, तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य- संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेर्गतिं सकलजनोपहास्य रूपामधमस्थानगतिं वा पश्यतेति । तदेवमुद्युक्तेतरयोर्गतिमुपलभ्य पञ्चविधावारसारे प्रक्रमितव्यं, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याह- 'अत्रापि' असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणासदं नोपदर्शयेत्, बालानुछानविधायी मा भूदिति यावत्, तथाहि - बालाः शाक्यका पिलादयस्तद्भावितो बालभावमाचरति, वक्ति च- नित्यत्वादमूर्त्तत्वाच्चात्मनः प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा प्लोषो वा स्यात् एवमात्मनोऽपि शरीरविकारेऽविकारित्वम् उक्तं च- "न जायते न म्रियते कदाचिन्नायं भूत्या भवितेति ॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ १ ॥ अच्छेद्योऽयमभंद्योऽयमधिकारी स उच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ २ ॥" इत्यादि ॥ अध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह-
तुमंस नाम सञ्चैव जं हंतव्वंति मन्नसि तुमंसि नाम सच्चेव जं अज्जावेयव्वंति म नसि तुमंसि नाम सच्चैव जं परियावेयव्वंति मन्नसि, एवं जं परिधित्तव्वंति मन्नसि, जं उदवेति मन्नसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेयणमप्पाणेणं जं हंतव्वं नाभिपत्थए ( सू० १६४ )
योऽयं हन्तव्यत्वेन भवताऽभ्यवसितः स त्वमेव, नामशब्दः सम्भावनायां यथा भवान शिरःपाणिपादपार्श्वपृष्ठोरूदरवान् एवमसावपि यं हन्तव्यमिति मन्यसे, यथा च भवतो हन्नोद्यतं दृष्ट्वा दुःखमुखद्यते एवमन्येषामपि तद्दुःखापादनाच्च किल्बिषानुषङ्गः, इदमुक्कं भवति-मात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपि तु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वाधारं शरीरं नितरां दबितं तद्वियोजीकरणमेव हिंसेति, उक्तं च- “पञ्चेन्द्रियाणि त्रिविधं बलं च, उनिःश्वासमधान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १ ॥ " न च संसारस्थस्य सर्वथा अमूर्त्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्येतदुत्तरसूत्रैर्दर्शयितुमाह-स्वमपि नाम स एव यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिगृहीतव्यमिति मन्यसे यमपद्रावयितव्यमिति मन्यसे असौ त्वमेव यथा भ वतोऽनिष्टापादनेन दुःखमुत्पद्यते एवमस्यापीत्यर्थः, यदिवा यं कार्यं हन्तव्यादितयाऽध्यवस्यसि तत्रानेकशो भवतोऽपि भावात्त्वमेवासौ एवं मृषावादादावप्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं ततः किमित्याह -- 'अञ्जु 'रिति ऋजुः प्रगुणः साधुरितियावत्, चशब्दोऽवधारणे, एतस्य - हन्तव्यघातकैकत्वस्य प्रतिबोधः प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुं शीलमस्येत्येतत्प्रतिबुद्धजीवी साधुरेव तत्परिज्ञानेन जीवति नापर इत्युक्तं भवति । यदि नामैवं ततः किमित्याह'तस्माद्' हन्यमानस्यात्मन इव महद्दुःखमुखद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात्, नाप्यपरैर्घातयेत् न च नतोऽनुमन्येत किं च संवेदनम्-अनुभवनं अनु-पश्चात्संवेदनं केन ? - आत्मना, यत्परेषां मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्नाभिप्रार्थयेत्-नाभिल
Jain Education International
For Private Personal Use Only
लोक० ५
उद्देशक १५
॥ २२४ ॥
लोक०
उद्देशक १५
।। २२५ ।।
www.jainelibrary.org