________________
167
ॐॐॐॐॐॐॐॐॐ
च्छेत् ॥१॥" द्वितीयस्त्वाह-नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह-सोऽपि वाचिकुण्ठो बुद्धिविकलः किं जानीते?, त्वमपि च शुकवत्पाठितो निरूहापोह इत्यादीन्यन्यान्यपि दुर्गृहीतकतिचिदक्षरो महोपशमकारणं ज्ञानं विपरीततामापादयन् स्वौद्धत्यमाविर्भावयन भाषते, उक्तं च-"अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाड्मयमित इति खादत्यङ्गानि दर्पण ॥१॥ क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः । शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नयति ॥२॥" इत्यादि, पाठान्तरं वा "हेच्चा उवसमं अहेगे पारुसियं समारुहंति" त्यक्त्वोपशमम् 'अर्थ' अनन्तरं बहुश्रुतीभूताः एके न सर्वे परुषतामालम्बन्ते, ततश्चालप्ताः शब्दिता वा तूष्णीभावं भजन्ते हुङ्कारशिरःकम्पनादिना वा प्रतिवचनं ददति । किं च-एके पुनर्ब्रह्मचर्य-संयमस्तत्रोपित्वा आचारो वा ब्रह्मचर्य तदर्थोऽपि ब्रह्मचयमेव तत्रोषित्वा आचारार्थानुष्ठायिनोऽपि तद्भसितास्तामाज्ञां-तीर्थकरोपदेशरूपां 'नो इति मन्यमानाः' नोशब्दो देशप्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः सातागौरवबाहुल्याच्छरीरबाकुशिकतामालम्बन्ते, यदिवा अपवादमालम्ब्य वर्तमाना उत्सर्गचोदनाचोदिताः सन्तः नैषा तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि "कुजा भिक्खू गिलाणस्स, अगिलाए समाहियं" इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकांद्यपि कार्य, स्यादेतत्किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः यथाऽऽशातनावहुलानां दीर्घः संसार इति?, तदुच्यते-'तुः' अवधारणे, आख्यातनेवैतत्कुशीलविपाकादिकं श्रुत्वा 'निशम्य' अवबुध्य च शास्तारमेव परुषं वदन्तीति सम्बन्धः । किमर्थं तर्हि
१र्यादिक्षानस्य अग्लान्या समाहितं.
धुता
॥२५॥
श्रीआचा- शृण्वन्तीति चेत्तदाह-समनोज्ञा' लोकसम्मता जीविष्याम इतिकृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनि शास्त्रारावृत्तिःण्यधीयते, यदिवा अनेनोपायेन लोकसम्मता जीविष्याम इतिकृत्वैके निष्क्रम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तो (शी.) जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयाद् असम्भवन्तः-ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे|
न सम्यग्भवन्तो-नोपदेशे वर्तमाना विविधं दह्यमानाः कामैद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु 'समाधि' इन्द्रियप्रणि।।२५०॥
धानमाख्यातं तीर्थकृदादिभिः यमा(आ)वेदित(तः)तं 'अजोषयन्तः असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुष वदन्ति-नास्मिन्विषये भवान् किश्चिजानाति, यथाऽहं सूत्रार्थ शब्दं गणितं निमित्तं वा जाने तथा कोऽन्यो जानीते?, इत्येवमाचार्यादिक शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्ता-तीर्थकृदादिस्तमपि परुष वदन्ति, तथाहि-वचित्स्खलिते चोदिता जगदुः-किमन्यदधिकं तीर्थकृद्वक्ष्यत्यस्मगरकर्त्तनादपीति, इत्यादि| भिरपाचीनैरालापरलीकविद्यामदावलेपाच्छास्त्रकृतामपि दूषणानि वदेयुः ॥ न केवलं शास्तारं परुषं वदन्त्यपरानपि साधूनपवदेयुरित्येतदाह
सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बिइया मंदस्स बा
लया (सू० १८९) शीलम्-अष्टादशशीलाङ्गसहस्रसख्यं, यदिवा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहविगुप्तिगुप्तता चेत्येतच्छील विद्यते येषां ते शीलवन्तः, तथा उपशान्ताः कषायोपशमात्, अत्र शीलवद्रहणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनाथे, सम्यक् ख्यायते-प्रकाश्यतेऽनयेति संख्या-प्रज्ञा तया 'रीयमाणाः' संयमानुष्ठाने पराक्रममाणाः सन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एत इत्येवमनुवदतोऽनु-पश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्यादृष्ट्यादिना कुशीला इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेः द्वितीयैपा. 'मन्दस्य' अज्ञस्य 'बालता' मूर्खता, एक तावत्स्वतश्चारित्रापगमः पुनरपरानुद्युक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता वेत्येवमनोनाभिहिते वैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति ॥ अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारमावेदयेयुः, इत्येतद्दर्शयितुमाह
नियमाणा वेगे आयारगोयरमाइक्खंति, नाणब्भट्टा दसणलूसिणो (सू० १९०) | एके-कर्मोदयात् संयमान्निवर्तमाना लिङ्गाद्वा, वाशब्दादनिवर्तमाना वा, यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां द्वितीया बालता न भवत्येव, न पुनर्बदन्ति-एवंभूत एवाचारो योऽस्माभिरनुष्ठीयते, सामातं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि -"नात्यायतं न शिथिलं, यथा युञ्जीत सारथिः । तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः॥१॥” अपि च जो जत्थ होइ भग्गो, ओवासं सो परं अविंदंतो । गंतुं तत्थऽचयंतो, इमं पहाणंति घोसेति ॥१॥" इत्यादि । किम्भूताः
यो यत्र भवति भमोऽवकाशं सोऽपरमविन्दन् । गन्तुं तत्रासमर्थ इदं प्रधानमिति घोषयति ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org