________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २२१ ॥
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २२२ ॥
| शाग्रीयया बुद्ध्या विचार्यमित्याह - एतद्यन्मया प्रोक्तं तत्सम्यग् मध्यस्था भूत्वा समर्यादं यूयमपि पश्यत । अपि चैतस|श्यत - 'काल' समाधिमरणकालस्तदभिकाङ्क्षन्या साधवो मोक्षाध्वनि संयमे परि:- समन्ताद्रजन्ति परिव्रजन्ति-उद्यच्छन्ति, इतिरधिकारपरिसमाप्तौ ब्रवीमीत्येतत्प्रकरणोद्देशकाध्ययन श्रुतस्कन्धाङ्गपरिसमाप्तौ प्रयुज्यते, तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति ॥ आचार्याधिकारं परिसमापय्य विनेयवक्तव्यतामाह
148
वितिगच्छसमावन्नेणं अप्पाणेणं नो लहइ समाहिं, सिया वेगे अणुगच्छंति असिता वेगे अनुगच्छति, अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निव्विजे ? ( सू० १६१ )
विचिकित्सा या चित्तविप्लुतिः यथा इदमप्यस्तीत्येवमाकारा युक्तया समुपपन्नेऽप्यर्थे मतिविभ्रमो मोहोदयाद्भवति, तथाहि - अस्य महतस्तपः क्लेशस्य सिकताकणकवल निःस्वादस्य स्यात् सफलता न वेति ? कृषीबलादिक्रियाया उभयथाsप्युपलब्धेरिति, इयं च मतिर्मिथ्यात्वांशानुवेधाद्भवति ज्ञेयगहनत्वाच्च तथाहि - अर्थस्त्रिविध:- सुखाधिगमो दुरधिग| मोडनधिगमश्च श्रोतारं प्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्म्मनिपुणस्य रूपसिद्धिः दुरधिगमस्त्वनिपुणस्य अनधिगमस्त्वन्धस्य, तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साया विषय एव न भवति, देशकालस्व| भावविप्रकृष्टस्तु विचिकित्सा गोचरीभवति, तस्मिन् धर्म्माधर्म्माकाशादौ या विचिकित्सेति, यदिवा 'विइगिच्छ 'ति विद्वज्जुगुप्सा, विद्वांसः - साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सा - निन्दा अस्नानात् प्रस्वेदजल क्लिन्नमलत्वाद्दुर्गन्धिवपुषस्तान्निन्दति - को दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गशालनं कुर्वीरन्नित्यादि जुगुप्सा तां विचिकित्सां विद्वज्जुगुप्सां वा सम्यगापन्नः - प्राप्तः आत्मा यस्य स तथा तेन विश्चिकित्सासमापश्नेनात्मना नोपलभते 'समाधिं' चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तं न लभते, विश्चिकित्साकलुषिन्तान्तःकरणो हि कथयतोऽप्याचार्यस्य स - म्यक्त्वाख्यां बोधिं नावाप्नोति । यश्चावामोति स गृहस्थो वा स्याद्यतिर्वेति दर्शयितुमाह- 'सिताः पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, 'एके' लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्ति - आचार्योक्तं प्रतिपद्यन्ते, तथा 'असिता वा' गृहवासविमुक्ता वा 'एके' विश्चिकित्सादिरहिता आचार्यमार्गमनुगच्छन्ति । तेषां च मध्ये | यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाची नमार्गप्रतिपन्नानवलोक्यासावपि कर्म्मविवरतः प्रतिपद्येतापीति दर्शयितुमाह- आचार्योक्तं सम्यक्त्वमनुगच्छद्भिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्- अप्रतिपद्यमानः कथं न निर्वेदं गच्छेद् ?, असदनुष्ठानस्य मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्येतेत्यर्थः, यदिवा सितासितैराचार्योक्तमनुगच्छद्भिः- अवगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपका| दिश्चिरप्रव्रजितोऽप्यननुगच्छन्- अनवधारयन् कथं न निर्विद्येत ?, न निर्वेदं तपःसंयमयोर्गच्छेत्, निर्विण्णश्चेदमपि भावयेत्, यथा-नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि, एवं च निर्वि ण्णस्याचार्याः समाधिमाहुः - यथा - भोः साधो ! मा विषादमवलम्बिष्ठाः, भव्यो भवान्, यतो भवता सम्यक्त्वमभ्युपगतं, * तच्च न ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः ॥ किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्तः, तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीय विजृम्भितं, तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बन मित्याह
तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं ( सू० १६२ )
यत्र क्वचित्स्वसमय पर समयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थे षूभय सिद्धदृष्टान्तसम्यगृहेत्वभावाच्च ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्का विश्चिकित्सादिरहित इदं भावयेत्, यथा-तदेवैकं सत्यम् - अवितथं, 'निःशङ्क'मिति अर्हदुक्तेष्वत्यन्त सूक्ष्मेष्वतीन्द्रियेषु केवलाग मग्राह्येष्वर्थेष्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशङ्कं यत्किमपि धर्माधर्म्माकाशपुद्गलादि प्रवेदितं, कैः १- जिनैः' तीर्थ करै रागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि न पुनर्विचिकित्सा कार्येति । किं यतेरपि विचिकित्सा स्याद्येनेदमभिधीयते १, संसारान्तर्वर्त्तिनो मोहोदयात्तत्किं ? यन्न स्यादिति, तथा चागमः – “अस्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेदेति ?, हंता अस्थि कहनं समणावि णिग्गंथा कंखामोहणिज्जं कम्मं वेयंति ?, गोअमा !
Jain Education International
१ अस्ति भदन्त । श्रमणा अपि निर्मन्थाः काहामोहनीयं कर्म वेदयन्ति ?, इन्त अस्ति, कथं श्रमणा अपि निर्मन्थाः काहामोहनीयं कर्म वेदयन्ति ?, गौतम 1 तेषु तेषु ज्ञानान्तरेषु चरित्रान्तरेषु शङ्किताः काङ्क्षिता विचिकित्सा सगापना भेदसमापन्नाः कालुष्यसमापन्नाः, एवं खलु गौतम । श्रमणा अपि निर्मन्थाः काहामोहनीयं कर्म वेदयन्ति तत्रालम्बनं 'तदेव सत्यं निश्शकं यज्जिनैः प्रवेदितम्' । अथ नूनं भदन्त ! एवं मनो धारयन् भज्ञाया आराधको भवति ?, हन्त गौतम । एवं मनो धारयन् आशाया आराधको भवति.
For Private
Personal Use Only
लोक० ५ उद्देशका५
॥ २२१ ॥
लोक० ५ उद्देशक:५
॥ २२२ ॥
www.jainelibrary.org