________________
A8
147
हरणार्थमाह-एतद्' यदुदेशकादेरारभ्योक्तं, मुनेरिदं मौनं मुनिभावो वा तदात्मनि समनुवासयेः-आत्मनि विदध्याः॥ इतिरधिकारपरिसमाप्तौ, ब्रवीपीति पूर्ववत् । लोकसाराध्ययन चतुर्थोद्देशकः परिसमाप्तः॥
-
-
उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेऽव्यक्तस्यैकचरस्य प्रत्यपायाः प्रदर्शिताः, अतस्तान् परिजिहीर्षुणा सदाऽऽचार्यसेविना भवितव्यम् , आचार्येण च इदोपमेन भाव्यं, तदन्तेवासिना च तपःसंयमगुप्तेन निःसङ्गेन च विहर्त्तव्यमिति, एतत्प्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से वेमि तंजहा-अवि हरए पडिपुण्णे समंसि भोमे चिट्टइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति
त्तिबेमि (सू० १६०) सशस्तच्छन्दाथै, यद्गुण आचार्यों भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमीति, तद्यथेति वाक्योपन्यासार्थे, | अपिशब्दो भङ्गसमुच्चयार्थः, ते चामी भङ्गाः-एको इदो-जलाशयः परिगलस्रोताः पर्यागलत्स्रोताच, सीतासीतो
दाप्रवाहहूदवत् , अपरस्तु परिगलत्स्रोताः नो पर्योगलत्स्रोताः, पद्मदवत्, तथा परो नो परिगलत्स्रोताः पर्यागल- लोक०५ राङ्गवृत्तिः स्रोताश्च, लवणोदधिवत् , अपरस्तु नो परिगलत्स्रोता नो पर्यागलस्रोताश्च, मनुष्यलोकाद्वहिः समुद्रवत् । तत्राचार्यः
उद्देशका (शी०)
|श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात्, साम्परायिककर्मापेक्षया तु द्वितीयभङ्गपतितः, कषायो
दयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनाया 8 ॥२२ ॥
| अप्रतिश्रावित्वात् , कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात्, यदिवा धर्मिभेदेन भङ्गा योज्यन्ते-तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत् , तृतीयभङ्गस्थस्त्वहालन्दिकः, सच
कचिदर्थापरिसमाप्तावाचार्यादेन्निर्णयसद्भावात् , प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इति, इह पुनः प्रथमभङ्गपतिदातेनोभयसद्भाविनाऽधिकारः, तथाभूतस्यैवायं हृददृष्टान्तः, स च हृदो निर्मलजलस्य 'प्रतिपूर्णो' जलजैः सर्वर्तुजैरुप
शोभितः समे भूभागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तम्-अपगतं रजः कालुष्यापादकं यस्य स तथा, नानाविधांश्च यादसां गणान् संरक्षन् सह वा यादोगणैरात्मानमारक्षन्-प्रतिपालयन् सारक्षन् तिष्ठतीत्येषा क्रिया प्रकृतैव । यथा चासौ इदस्तथाऽऽचार्योऽपीति दर्शयति-'सः'
॥ २२०॥
१ उदकाः करो यावत्कालेन शुष्यति तजघन्यं लन्दं तत आरभ्योत्कृष्टं पञ्चरात्रिंदिवलक्षणं लन्द, तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपनिहाराभिः षद्भिर्वीथीभिर्जिनकल्पिकवत्परिकल्पयन्ति, २ पर्यापलस्रोतोवदर्यापेक्षया ग्राहकत्वात तृतीयभापतित इति गम्यम्. आचार्यः प्रथमभङ्गपतितः पञ्चविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुपेतः, [तद्यथा-"आयार सुअ सरीरे वयणे वा-1 यण मई पओगमई । एए सुसंपया खलु अहमिआ सङ्गहपरिन्ना ॥१॥"] पट्त्रिंशद्गुणगणाधारो इदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रे समो वा ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः ?-'उपशान्तरजा' उपशान्तमोहनीय इति, किं कुर्वन् १-जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वेति, 'स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम्, स च किम्भूतः स्यादित्याह-सः' आचार्योऽक्षोभ्यहदकल्पः 'सर्वतः' सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुह्या गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराह-इह मनुष्यलोके पूर्वव्यावर्णितस्वरूपाः 'महर्षयो' महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्ते महर्षय इत्यत आह-न केवलमाचार्या ह्रदकल्पा ये चान्ये साधवस्तेऽपि इदकल्पाः, किम्भूताः?-प्रकर्षण ज्ञायतेऽनेनेति प्रज्ञानं-स्वपरावभासकत्वादागमस्तद्वन्तः प्रज्ञानवन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् क्वचिद्धेतूदाहरणासम्भवे ज्ञेयगहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि-'प्रबुद्धाः' प्रकर्षेण यथैव तीर्थकृदाह तथैवावगततत्त्वाः प्रबुद्धाः, तथाभूता अपि कर्मगुरुत्वान्न सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयति-'आरम्भोपरताः' आरम्भः-सावद्यो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपि तु स्वत एव कु
१ आचारः श्रुतं शरीरं वचनं वाचना मतिः प्रयोगमतिः । एताः सुसंपदः खलु अष्टमी संग्रहपरिज्ञा ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org