________________
146
-
64542
श्रीआचा
सर्वकाल यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्मणोऽन्तं विधत्ते । स च रूया- लोक०-५ राङ्गवृत्तिः द्यनुकूलपरीषहोपपत्तौ किं विदध्यादित्याह-'दृष्ट्वा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं 'विप्रतिवेदयति'
उद्देशका (शी०)
पर्यालोचयति, तद्यथा-सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तमहावतभारः शरच्छशाङ्कनिर्मलकुललब्धजन्मा अकार्याकरणतयो॥२१८॥ स्थित इत्येवमात्मानं पर्यालोचयति, तं च स्त्रीजनं किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकसुखाभिलाषस्योपस
गर्गादिकं कुर्यात्?, अथवा वैषयिकसुखस्य दुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनःसुखं विदध्याद् ? अन्यो वा पुत्रकलत्रादिको जनो मम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किं तत्प्रतीकारादिकं कुर्यादिति ?। यदिवैवं स्त्रीजनस्वभावं चिन्तयेदिति सूत्रेणैव दर्शयति-स एष स्त्रीजन आरमयतीत्यारामः परमश्चासावारामश्च परमारामः ज्ञाततत्त्वमपि जनं हासविलासोपाङ्गनिरीक्षणादिभिर्विब्बोकर्मोहयतीत्यर्थः, याः काश्चनास्मिन् लोके स्त्रियः ता मोहरूपा विज्ञाय यावन परित्यजन्ति तावत्स्वत एव परित्यजेत् । एतच्च तीर्थकरेण प्रवेदितमिति दर्शयितुमाह-'मुनिना' श्रीवर्द्धमानस्वामिनोत्पन्नज्ञानेनैव 'एतत्' पूर्वोक्तं, यथा स्त्रियो भावबन्धनरूपाः, 'प्रवेदितं' प्रकर्षणाद वा व्याख्यातमिति । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-उत्-प्राबल्येन मोहोदयात् बाध्यमानः-पीड्यमानः उद्घाध्यमानः, कैः-प्रामधम्मैः ग्रामाः-इन्द्रियग्रामास्तेषां धर्माः-स्वभावा यथास्वं विषयेषु प्रवर्तनं तैरुद्वाध्यमानो गच्छान्तर्गतः सन् गुर्वादिनाऽनुशास्यते, कथमनुशास्यत इत्यत आह-अपिः सम्भावनायां, निर्बलं-निःसारमन्तप्रान्तादिकं यद्रव्यं तदाशकः-तद्भोजी स्यात् , यदिवा निर्गतं
॥२१८॥ बलं-सामर्थ्यमस्येति निर्बलः एवम्भूतः सन्नाशीत, बलाभावे च ग्रामधर्मोपशगदर्शनाद्, बलाभावश्चाहारहान्या स्यादिति दर्शयति-अप्यवमौदर्य कुर्याद, यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशमः सात् ततस्तदपि वल्लचनकादिना द्वात्रिंशकवलमात्रं गृह्णीयात् , तेनाप्यनुपशमे कायोत्सर्गादिना कायक्केशं कुर्यादित्येतदर्शयति-अप्यूर्वं स्थानं तिष्ठेत् , शीतोष्णादौ कायोत्सर्गेणातापनां कुर्यात् , तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत् , निष्कारणे विहारो निषिद्धो मोहोपशमनार्थ तु कुर्यात् , किंबहुना?, येन येनोपायेन विषयेच्छा निवर्त्तते तत्तत्कुर्यात् , पर्यन्ते आहारमपि व्यवच्छिन्द्याद्, अपि पातं विदध्यात् अप्युद्धन्धनं कुर्यात् न च स्त्रीषु मनः कुर्यादित्याह च-अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् | परित्यजेत् , तत्परित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्तं च-"काम! जानामि ते रूपं, संकल्पात्किल जायसे । न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ॥१॥" किं पुनः कारणं स्त्रीषु मनो न विधेयमित्याह-स्त्रीसङ्गप्रवृत्तानामपरमार्थदृशां 'पूर्व प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषहस्यैहिकदुःखरूपा दण्डाः, ते च स्त्रीसम्भोगात्प्रथममेव क्रियन्त इति पूर्वमित्युक्तं, पश्चाच विषयनिमित्तजनितकर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा ख्याद्यकार्यप्रवृत्तस्य पूर्व दण्डपाताः पश्चाद्धस्तपादच्छेदादिकाः स्पर्शा भवन्ति, यदिवा पूर्व स्पर्शाः पश्चाद्दण्डपाता इति, अथवा पूर्व दण्डाःताडनादिकाः पश्चात्स्पर्शा:-सम्बाधनालिङ्गनचुम्बनादिकाः, तद्यथा-वन्द्यानीतावरुद्धराजकुमारीगवाक्षक्षिप्तपतदावीलग्रहणाद्राजपुरुषावलोकनताडनेन मूछितराजकुमारीतद्दर्शनतो वणिगिन्द्रदत्तस्याग्रतो दण्डाः पश्चात्स्पर्शा इति, पूर्व वा
सुखादिस्पर्शाः पश्चाद्दण्डा ललिताङ्गकस्येवान्येषां चोपपतीनामिति । किं च-इत्येते स्त्रीसम्बन्धाः कलहा-सङ्ग्रामस्तश्रीआचा- त्रासङ्गः-संबन्धस्तत्करा भवन्ति, यदिवा कलहः-क्रोधः आसङ्गो-राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं| | लोक.५ राङ्गवृत्तिः । कुर्यादित्याह-ऐहिकामुष्मिकापायतः स्त्रीसङ्गप्रत्युपेक्षया 'आगमेत्तत्ति ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति, इतिरधि
उद्देशका४ (शी०)
कारपरिसमाप्तौ, ब्रवीम्यहं तीर्थकरवचनानुसारेण-दुःखं च ताः पारह मिति । पुनरपि तत्सरिहरणोपायमाह-स' ॥२१९॥
स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां शृङ्गारकथां वा नो कुर्यात् , एवं च तास्त्यक्ता भवन्ति, तथा-तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत् , यतस्तन्निरीक्ष्यमाणं महतेऽनर्थाय भवतीति, उक्तं च-"सन्मार्गे तावदास्ते |प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो| नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥१॥" तथा-ताभिर्नरकविसम्भभूमिभिः साई भ सम्प्रसारणं-पर्यालोचनमेकान्ते निजस्वचादिभिरपि कुर्यादिति, उक्तं च-"मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥१॥" इत्येवमादि, तथा-न तासु स्वार्थपरासु ममत्वं कुर्यात्, तथा-कृता-अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं । कुर्यात् , काययोगनिरोध इति भावः, तथा तथैताः शुभानुष्ठानपरिपन्थिनीन वाड्मात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधि अध्यात्म-मनस्तेन संवृत्तोऽध्यात्मसंवृत्तः-स्त्रीभोगादत्तमनाः सूत्रार्थोपयुक्तनिरुद्धमनोयोगः, एवम्भूतश्च x ॥२१९॥ किमपरं कुर्यादित्याह-परिः-समन्तात् वर्जयेत्-परिहरेत् 'सदा' सर्वकालं 'पाप' किल्बिषं तदुपादानं वा कर्म, उपसं
-%A4ॐसरकार
18
MARWA RA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org