________________
145
एगया गुणसमियस्स रीयओ कायसंफासं समणुचिन्ना एगतिया पाणा उद्दायंति, इहलोगवेयणविजावडियं, जं आउहिकयं कंमं तं परिन्नाय विवेगमेइ, एवं से अप्प
माएण विवेगं किदृइ वेयवी (सू० १५८) 'स' भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिक्रामन्-गच्छन् प्रतिक्रामन्-निवर्तमानः सङ्कुचन हस्तपादादिसङ्कोचनतः प्रसारयन् हस्तादीनवयवान् विनिवर्तमानः समस्ताशुभव्यापारात्, सम्यक् परिःसमन्ताद्धस्तपादादीनवयवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन-परिमृजन गुरुकुलवासे वसेदिति सर्वत्र सम्ब-र न्धनीयं, तत्र निविष्टस्य विधिः-भूम्यामेकमूळं व्यवस्थाप्य द्वितीय मुक्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुतया भूमी प्रत्यु-17 पेक्ष्य प्रमाय॑ च कुक्कुटीविजृम्भितदृष्टान्तेन सङ्कोचयेत् प्रसारयेद्वा, स्वपन्नपि मयूरवत्स्वपिति, स किलान्यसत्त्वभयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्तनादिकाः क्रिया विधत्ते, इत्येवमादि संपरिमृजन् सवाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदवश्यंभावितया यत्स्यात्तदाह-'एकदा' कदाचित् , 'गुणसमितस्य' गुणयुक्तस्याप्रमत्ततया यतेः 'रीयमाणस्य' सम्यगनुष्ठानवतोऽभिक्रामतः परिक्रामतः सङ्कुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्याञ्चिदवस्थायां कायः-शरीरं तत्संस्पर्शमनुचीर्णाः-कायसङ्गमागताः सम्पातिमादयः । प्राणिनः एके परितापमामुवन्ति-एके ग्लानतामुपयान्ति एकेऽवयवविध्वंसमापद्यन्ते, अपश्चिमावस्थां तु सूत्रेणेव दर्श
आ. सू. ३७
श्रीआचाराङ्गवृत्तिः (शी०)
॥२१७॥
॥ २१७॥
यति-एके 'प्राणाः' प्राणिनः 'अपद्रान्ति' प्राणैर्विमुच्यन्ते, अत्र च कर्मबन्धं प्रति विचित्रता, तथाहि-शैलेश्यवस्थाया
लोका मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिना
उद्देशका४ स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेजघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतश्चान्तःकोटीकोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य क्वचिसाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततरः। स च तेनैव भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-इह-अस्मिन् लोके-जन्मनि वेदनम्-| अनुभवनमिहलोकवेदनं तेन वेद्यम्-अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितं, इदमुक्तं भवति-प्रमत्तयतिनाऽपि यदकामतः कृतं कर्म कायसङ्घाट्टनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षप्यमाणत्वाद्, आकुट्टीकृतकर्मणि तु यद्विधेयं तदाह-यत्तु पुनः काकुट्टया कृतम्-आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया 'विवेकमेति' विविच्यतेऽनेनेति विवेकः-प्रायश्चित्तं दशविधं तस्यान्यतरं भेदमुपैति, तद्विवेक वा-अभावाख्यमुपैति-तत्करोति येन कर्मणोऽभावो भवति । यथा च कर्मणो विवेको भवति तथा दर्शयितुमाह-एव'मिति के वक्ष्यमाणेन प्रकारेण 'से' तस्य कर्मणः साम्परायिकस्य सदा वेदविद् 'अप्रमादेन' प्रमादाभावेन दशविधप्रायश्चित्तान्य-15 तरभेदसम्यगनुष्ठानेन 'विवेकम्' अभावं कीर्तयति 'वेदवित्' तीर्थकरो वेदविद्वा-आगमविद्गणधरश्चतुर्दशपूर्वविद्वेति ।। किम्भूतः पुनरप्रमादवान् भवतीत्याह
से पभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए, दुटुं विप्पडिवेएइ अ. प्पाणं किमेस जणो करिस्सइ?, एस से परमारामो जाओ लोगंमि इत्थीओ, मुणिणा हु एवं पवेइयं, उब्बाहिज्जमाणे गामधम्मेहिं अवि निब्बलासए अवि ओमोयरियं कुज्जा अवि उद्धं ठाणं ठाइज्जा अवि गामाणुगामं दूइजिज्जा अवि आहारं वुच्छिदिजा अवि चए इत्थी मणं, पुव्वं दंडा पच्छा फासा पुव्वं फासा पच्छा दंडा, इच्चेए कलहासंगकरा भवंति, पडिलेहाए आगमित्ता आणविजा अणासेवणाए त्तिबेमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामए णो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवजइ सया पावं एवं मोणं समणुवासिज्जासित्तिबेमि
(सू० १५९)॥५-४॥ लोकसारे चतुर्थः ॥ 'स' साधुः प्रभूतं प्रमादविपाकादिकमतीतानागतवर्तमान वा कर्मविपाक द्रष्टुं शीलमस्येति प्रभूतदशी, साम्प्रतेक्षितया न यकिश्चनकारीत्यर्थः, तथा प्रभूतं सत्त्वरक्षणोपायपरिज्ञानं संसारमोक्षकारणपरिज्ञानं वा यस्य स प्रभूतपरिज्ञानः, यथावस्थितसंसारस्वरूपदर्शीत्यर्थः, किं च-उपशान्तः कषायानुदयादिन्द्रियनोइन्द्रियोपशमादा, तथा पञ्चभिः समितिभिः समितः सम्यग्वा मोक्षमार्गमितः समितः, तथा ज्ञानादिभिः सहितः-समन्वितः सह हितेन वा सहितः, 'सदा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org