SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 144 AAAAAAA भिर्द्रष्टव्या इत्यादिनाका दोषा अव्यक्तैकचाया, पण मतिः कार्या । यदि मोक्ष श्रीआचा लोक०५ दसणं, तद्दिट्टीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाई रावृत्तिः उद्देशका४ (शी०) पंथनिज्झाई पलिवाहिरे, पासिय पाणे गच्छिज्जा (सू० १५७) ॥२१५॥ वाचत्तपःसंयमानुष्ठानादाववसीदन्तः प्रमादस्खलिता वा गुदिना धर्मेण वचसाऽपि 'एके' अपुष्टधर्माणः अनवगतपरमार्थाः 'उक्ताः' चोदिताः कुप्यन्ति, के ते ?-'मानवा' मनुजाः क्रोधवशगा भवन्ति, ब्रुवते च-कथमहमनेनेयतां साधूनां मध्ये तिरस्कृतः, किं मया कृतम् ?, अथवाऽन्येऽप्येतत्कारिणः सन्त्येव, ममाप्येवम्भूतोऽधिकारोऽभूत्, धिग्मे जीवितमित्यादि, महामोहोदयेन क्रोधतमिस्राच्छादितदृष्टयः उज्झितसमुचिताचारा उभयान्यतराव्यक्ता मीना इव गच्छसमुद्रार्निगत्य विनाशमामुवन्ति, यदिवा वचसाऽपि यथा क इमे लुञ्चिताः मलोपहतगात्रयष्टयः प्रगतनावसर एवास्माभिर्द्रष्टव्या इत्यादिनोक्ता एके क्रोधान्धाः कुप्यन्ति मानवाः, अपिशब्दात्कायेनापि स्पृष्टाः कुप्यन्ति, कुपिताश्चाधिकरणादि कुर्वन्तीत्येवमादयो दोषा अव्यक्तैकचर्यायां गुर्वादिनियामकाभावात्यादुष्प्युरिति, गुरुसान्निध्ये चैवम्भूत उपदेशः सम्भवेत् , तद्यथा-"आक्रुष्टेन मतिमता तत्त्वार्थान्वेषणे मतिः कार्या । यदि सत्यं कः कोपः? स्यादनृतं किं नु कोपेन ? ॥१॥" तथा-"अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते ? । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥२॥"इत्यादि, ||२१५॥ किं पुनः कारणं वचसाऽप्यभिहिता ऐहिकामुष्मिकापकारकारिणः स्वपरवाधकस्य क्रोधस्यावकाशं ददतीत्याह-उन्नतो मानोऽस्येत्युनतमानः, उन्नतं वाऽऽत्मानं मन्यत इति, स चैवम्भूतो 'नरों' मनुष्यो महता मोहेन-प्रबलमोहनीयोदयेन अज्ञानोदयेन वा 'मुह्यति' कार्याकार्यविचारविवेकविकलो भवति, स च मोहमोहितः केनचिच्छिक्षणार्थमभिहितो मिथ्याह|ष्टिना वा वाचा तिरस्कृतो जात्यादिमदस्थानान्यतरसद्भावेनोन्नतमानमन्दरारूढः कुप्यति, मामप्येवमयं तिरस्करोति, धिग्मे जाति पौरुषं विज्ञानं चेत्येवमभिमानग्रहगृहीतो वाडमात्रादपि गच्छान्निर्गच्छति, तन्निर्गतो वाऽधिकरणादिविडम्बनयाऽऽत्मानं विडम्बयति, अथवोन्नम्यमानः केनचित् दुर्विदग्धेनाहोऽयं महाकुलप्रसूत आकृतिमान् पटुप्रज्ञो मृष्टवाक् समस्तशास्त्रवेत्ता सुभगः सुखसेव्यो वेत्यादिना वचसा तथ्येनातथ्येन वोत्प्रास्यमान उन्नतमानो गर्वाध्मातो महता चारित्रमोहेन मुह्यति संसारमोहेन वोह्यत इति । तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाच्च वाङ्मात्रेणापि कुप्यतः कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिक्षोामानुग्राममेकाकिनः पर्यटतो यत्स्यात्तदाह-तस्याव्यक्तस्यैकचरस्य पर्यटतः| सम्बाधयन्तीति सम्बाधाः-पीडाः उपसर्गजनिता नानाप्रकारातड्कजनिता वा भूयो भूयो बह्वयः स्युः, ताश्चैकाकिनाPऽव्यक्तेन निरवद्यविधिना 'दुरतिकमा' दुरतिलकनीयाः, किम्भूतस्य दुरतिकमा इत्याह-तासां नानाप्रकारनिमित्तोत्था-15) पितानां बाधानामतिसहनोपायमजानानस्य सम्यक्करणसहनफलं चापश्यतो दुरतिक्रमणीयाः पीडा भवन्ति, ततश्चातङ्कपीडाकूलीभूतः सन्नेषणामपि लइयत् , प्राण्युपमर्दमप्यनुमन्येत, वाकण्टकनुदितः सन्नव्यक्ततया प्रज्वलेत, नैतद्भावयेद् यथा मत्कर्मविपाकापादिता एताः पीडाः परोऽत्र केवलं निमित्तभूतः, किं च-"आत्मद्रोहममर्यादं, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकाचिष्मदिन्धनम् ॥ १ ॥" इत्यादिका भावना आगमापरिमलितमतेनं भवेदिति । एतत्पदर्य भगवान् विनेयमाह-'एतद्' एकचर्याप्रतिपन्नस्य बाधादुरतिक्रमणीयत्वमजानानस्यापश्यतश्च 'ते' तव श्रीआचा- 1मदुपदेशवर्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तर्वती भवेत्यर्थः । सुधर्मस्वाम्याह-एतत पूर्वोक्तं तता लाक०५ राजवृत्तिः 'कुशलस्य' श्रीवर्द्धमानस्वामिनो 'दर्शनम्' अभिप्रायो यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्तिनश्च गुणा (शी०) इति । आचार्यसमीपवर्तिना च किं विधेयमित्याह-तस्य-आचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्तितव्यं हेयोपादेयार्थेषु, उद्देशका यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्त्तव्यम् , तथा-तेनोक्ता सर्व॥२१॥ सङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यम्, तथा पुरस्करणं पुरस्कारः-सर्वकार्येष्वग्रतः स्थापनं, तस्य-आचार्यस्य पुरस्कारस्तत्पुरस्कारस्तस्मिन्-तद्विषये यतितव्यम् , तथा तस्य संज्ञा तत्संज्ञा-तज्ज्ञानं तद्वांस्तत्संज्ञी सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्य विदध्यात्, तथा तस्य-गुरोर्निवेशनं-स्थानं यस्यासौ तन्निवेशनः, सदागुरुकुलबासी स्यादिति | भावः । तत्र गुरुकुले निवसन् किम्भूतः स्थादित्याह-यतमानो-यतनया विहरणशीलो विहारी स्यात् , यतमानः प्राण्युपमर्दनमकुर्वन् प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति, किं च-चित्तम्-आचार्याभिप्रायस्तेन निपतितुं-क्रियायां प्रवर्तितुं ४ शीलमस्येति चित्तनिपाती सदा स्यादिति, तथा गुरोः कचिद्गतस्य पन्थानं निर्यातु-प्रलोकितुं शीलमस्येति पथनि-3 यायी, उपलक्षणं चैतत् तेन सुषुप्सोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेषीत्यादिना गुरोराराधकः सदा स्यात्, किं चपरिः-समन्तात् गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात्सदा कार्यमृते बाह्यः स्याद्, एतस्माच सूत्राश्रयः ईयोदेशका निर्गता इति । किं च-कचित्कार्यादौ गुदिना प्रेषितः सन् दृष्ट्वा प्राणिनो युगमात्रदृष्टिस्तदुपघातं परिहरन् गच्छेत् । किं च ॥२१६॥ से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिवहमाणे संपलिज्जमाणे, RUGSAGARMANACHARCOACACACA4%ी CRACCOMMERCCC Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy