________________
143
AUSAMANARCOACCASSASSA
ग्रसति बुद्ध्यादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्य' अनेकार्थत्वाद्धातूनां विहरतः एकाकिनः साधोयत्स्यात् तद्दर्शयति-दुष्टं यातं दुर्यातं, गमनक्रियाया गर्दा, गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहन्नकस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजङ्घाच्छेदवत् , तथा दुष्टं पराक्रान्तम्-आक्रान्तं स्थानमेकाकिनो भवति, स्थूलभद्रेाश्रितोपकोशागृहसाधोरिवेति, यदिवा-चतुष्प्रोषितभर्तृकागृहोषितसाधोरिव, तस्य महासत्त्वतया अक्षोभेऽपि दुष्पराक्रान्तमेवेति, एतच्च न सर्वस्यैव दुर्यातं दुष्पराक्रान्तं च भवतीत्यतो विशिनष्टि-अव्यक्तस्य भिक्षोरिति, भिक्षणशीलो भिक्षुस्तस्य, किम्भूतस्य ?-अव्यक्तस्य, स चाव्यक्तः श्रुतवयोभ्यां स्यात् , तत्र श्रुताव्यक्तो येनाचारप्र-४ कल्पोऽर्थतो नाधिगतो भवति गच्छगतानां तन्निर्गतानां तु नवमपूर्वतृतीयवस्त्विति, वयसा चाव्यक्त आषोडशवर्षाद्गच्छगतानां तन्निर्गतानां च त्रिंशत इति, अत्र चतुर्भङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनातः इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, अस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्भावादिति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापि न कल्पते, बालतया सर्वपरिभवास्पदत्वाद् विशेषतः स्तेनकुलिङ्गादीनामिति तृतीयः, यस्तूभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम् , अस्यापि कारणाभावे एकचर्या नानुमता, यतस्तस्यां गुप्तीर्याभाषेषणादिविषया बहवो दोषाः प्रादुष्षन्ति, तथाहि-एकाकी पर्यटन् यदीर्यापथं शोधयति ततः श्वायुपयोगाद्भश्यति तदुपयुक्तश्चेन्नेर्यापथं शोधयेदित्यादिकाः शेषा अपि समितयो वाच्याः, अन्यच्च-अजीर्णेन वातादिक्षोभेण वा व्याध्युद्भवे संयमात्मविराधना प्रवचनहीलना च, तत्र यदि
स सति तस्यापिनचर्या नस्पकचर्या
श्रीआचाराङ्गवृत्तिः
(शी०) ॥२१४॥
लोक०५ उद्देशका४
करुणापन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तयज्ञानतया पट्कायोपमर्दन कुर्वाणाः संयमबाधामापादयेयुः, अथ न कश्चित्तत्र तथाभूतः कर्त्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्तित्वात् प्रवचनहीलना, अपि च-ग्रामादिव्यवस्थितः सन् धिग्जात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डि भण्डनं विदध्यात् , तच्च गच्छगतस्य न सम्भवति, गुर्वाधुपदेशसम्भवात्, तदुक्तं च-"अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मण्णइ धीरो जहुत्तराणं अभावंमि ॥१॥” इत्येवमादिनोपदेशेन गच्छान्तर्गतो गुरुणाऽनुशास्यते, गच्छनिर्गतस्य पुनर्दोषा एव केवला इति, उक्तं च-"साहमिएहिं संमुज्जएहिं एगागिओ अ जो विहरे । आयंकपउरयाए छक्कायवहंमि आवडइ ॥१॥ ऐगागिअस्स दोसा इत्थी साणे तहेव पडिणीए । भिक्खऽविसोहि महब्वय तम्हा स|बिइज्जए गमणं ॥२॥" इत्यादि, गच्छान्तर्वर्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात् , यथाहि उदके समर्थस्तरन्नपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान् वीक्ष्य गच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेति स्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, को हि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेकाकिविहारितामभ्युपेयादिति, अत्रोच्यते, न किञ्चिदपि कर्मपरिणतेरशक्यमस्ति, तथाहि
१ आक्रोशवधमारणधर्मभ्रंशाना बालसुलभानाम् । लाभं मन्यते धीरः यधोत्तराणामभावे ॥१॥ २ साधर्मिकेषु सम्यगुद्यतेषु एकाकी च यो विहरेत् । आताप्रचुरतायां षट्रायवघे स पतति ॥ १॥ ३ एकाकिनो दोषाः स्त्री श्वा तथैव प्रत्यजीकः । भिक्षाऽविशोधिः महानतेषु तस्मात्सद्वितीयेन गमनम् ॥ २॥ -स्वातन्यगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्याशेषकल्याणनिकेतनस्य शुभाचाराधारस्य गच्छस्यान्तर्वर्त्तिनः क्वचित्रमादस्खलिते चोदिताः अवगणय्य सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कषायविपाककटुकतामनवधार्य परमार्थ पृष्ठतः कृत्वा कुलपुत्रतां वाङमात्रादपि केचित्कोपनिनाः सुखैषिणोऽगणितापदो गच्छानिर्गच्छन्ति, तत्र चैहिकामुष्मिकापायानवामुवन्तीति, उक्तं च-"जह सायरंमि मीणा संखोहं सायरस्स असहंता । णिति तओ सुहकामी णिग्गयमित्ता विणस्संति ॥१॥ एवं गच्छसमुद्दे सारणवीईहिं चोईया संता । णिति. तओ सुहकामी मीणा व जहा विणस्संति ॥२॥ गच्छंमि केइ पुरिसा सउणी जह पंजरंतरणिरुद्धा । सारणवारणचोइय पासत्थगया परिहरंति ॥ ३ ॥ जहा दियापोयम-2 पक्खजायं, सवासया पविउमणं मणागं । तमचाइया तरुणमपत्तजायं, ढंकादि अव्वत्तगर्म हरेजा ॥४॥" एवमजातसूवयःपक्षस्तीर्थिकध्वाङ्गादिभिर्विलुप्यते गच्छालयान्निर्गतो वाङ्मात्रेणापि चोदितः सन् इति । एतद्दर्शयितुमाह
वयसावि एगे बुइया कुप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुजो २ दुरइक्कम्मा अजाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स
॥१४॥
१ यथा सागरे मीनाः संक्षोभं सागरस्यासहमानाः । निर्गच्छन्ति ततः सुखकामिनो निर्गतमात्रा विनश्यन्ति ॥१॥ एवं गच्छसमुझे स्मारणवीचिमि!दिताः सन्तः । निर्गच्छन्ति ततः सुखकामिनो मीना इव यथा विनश्यन्ति ॥२॥ गच्छे केचित् पुरुषाः शकुनयो यथा पजरान्तरनिरुद्धाः । स्मारणवारणचोदिताः पार्श्वस्थतां गताः परित्यजन्ति ॥३॥ यथा द्विजपोतमजातपक्षं खकादावासकात् प्लवितुमनर्स मनाम् । तत्राशक्तं तरुणमजातपत्रं, उहादयोऽव्यक्तगर्म हरेयुः(रन्ति)॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org