________________
142
-61-62
श्रीआचाराङ्गवृत्तिः (शी०)
॥२१२॥
भावनार्थ त्वारभते, तदुद्भावकाश्चामी-"प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च । विद्यासिद्धः ख्यातः कवि- लोक ५ रपि चोद्भावकारत्वष्टौ ॥१॥" यदिवा वर्णो-रूपं तदादेशी-तदभिलाषुकः नोद्वर्तनादिकाः क्रिया आरभेत, किम्भूतः सन्नेतत्कुर्यादित्याह-'एको' मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो या रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा
उद्देशका -मोक्षे तदुपाये वा दत्तकदृष्टिर्न कञ्चन पापारम्भमारभेत इति, किं च-मोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् तां प्रकर्षेण ती! विदिक्प्रतीर्णः, स चैवम्भूतः सन्नारम्भी स्यात्, कुमार्गपरित्यागेन न पापारम्भान्वेषी भवतीत्यर्थः, किं| च-चरणं चारः-अनुष्ठानं निर्विण्णस्य चारो निविण्णचारः सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत् , यतः 'प्रजास्वरतः' प्रजायन्त इति प्रजाः-प्राणिनस्तत्रारतः-तदारम्भाप्रवृत्तो निर्ममत्वो वा, यश्च शरीरादिष्यपि ममत्वरहितः स निर्वेण्णचार्येव भवति, यदिवा प्रजाः-स्त्रियस्तास्वरतः आरम्भेऽपि निर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति ॥ यश्च प्रजास्वरक्तः आरम्भरहितः स किम्भूतः स्यादित्याह
से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिजं पावकम्मं तं नो अन्नेसी, जं संमंति पासहा तं मोणंति पासहा जं मोणंति पासहा तं संमंति पासहा, न इमं सकं सिढिलेहिं अबिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं,
||२१२॥ मुणी मोणं समायाए धुणे सरीरगं, पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो, एस ओहन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिए तिबेमि ( सू० १५५) ॥ लोकसारे तृती
योद्देशकः ॥५-३॥ वसु-द्रव्यं, स चात्र संयमस्तद्विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान् सर्व सम्यगन्वागतं प्रज्ञानं पदार्थाविर्भावक यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्त्तव्यं पापकर्म तन्नो कदाचिदप्यन्वेषति, उपलब्धपरमार्थ-| रूपेणात्मना न सावद्यानुष्ठान विधायी स्यादिति भावार्थः । यदेव सम्यक् प्रज्ञानं तदेव पापकर्मवर्जनं, यदेव च पापकर्मवर्जनं तदेव च सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह-सम्यगिति-सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितं, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मुने वो मौन-संयमानुछानमित्येतत्पश्यत, यच्च मौनमित्येतत् पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः । एतञ्च न येन केनचिच्छक्यमनुष्ठातुमित्याह-नैतत्सम्यक्त्वादित्रयं सम्यगनुष्ठातुं शक्यं, कैः-'शिथिलैः' अल्पपरिणामतया मन्दवीयः संयमतपसोधृतिदृढिमरहितैरिति, किं च-आहैः-पुत्रकलनाद्यनुषङ्गजनितस्नेहादाक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किं च-गुणा:-शब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किं च-वक्रः समाचारो येषां ते तथा तैः, मायाविमिरित्यर्थः, तथा-विषयकषायादिप्रमादैः प्रमत्तैरिति, किं च-अगारं-गृहं तद् आद्यक्षरलोपादारमित्युक्तं तदगारमावसनिः-सेवमानैः, पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयं । कथं तर्हि शक्यमित्याह-'मुनिः।
लोक०५ जगत्रयस्य मन्ता मौनं-मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं 'समादाय' गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्मशरीरं उद्देशका३ वेति । कथं च तडुननमित्याह-प्रान्तं-पर्युषितं वल्लचनकाद्यल्पं वा, तदपि रूक्षं विकृतेरभावात् , तत् 'सेवन्ते' तदभ्यवहरन्ति, के ते?-वीराः' कर्मविदारणसहिष्णवः, किंभूताः?-सम्यक्त्वदर्शिनः समत्वदर्शिनो वा । यश्च प्रान्तरूक्षसेवी स किंगुणः स्यादित्याह-'एषः' अनन्तरोक्तविशेषणविशिष्टः ओघो-भावौधः संसारस्तं तरतीति, कोऽसौ ?-मुनिः, वर्तमानसामीप्य वा वर्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो?-यः सावद्यानुष्ठानाद्विरत इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने तृतीयोद्देशकः परि-15 समाप्त इति॥
AARAASANA
श्रीआचारावृत्तिः (शी०)
॥२१३॥
उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहाद्योद्देशके हिंसकस्य विषयारम्भकस्यैकचरस्य मुनिस्वाभावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोषं प्रदश्य विरत एव मुनिर्भवतीत्येतत्प्रतिपादितम् , अस्मिंश्च एकचरस्यामुनिभावे दोषोद्भावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम्
गामाणुगाम दूइजमाणस्स दुजायं दुप्परकंतं भवइ अवियत्तस्स भिक्खुणो (सू० १५६ )
॥२१
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org