________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २११ ॥
141
येनाहमाश्वेवाशेषमलकलङ्करहितः स्याम् अहं च भवदुपदेशाद् अपि सिंहेनापि सह युद्धये, न मे कर्म्मक्षयार्थ प्रवृत्तस्य कि विदशक्यमस्तीत्यत्रोत्तरं सूत्रेणैवाह- अनेनैवोदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध युध्यस्व, इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण बाह्यतस्ते युद्धेन ?, अन्तरारिषङ्घर्गकर्म रिपुजयाद्वा सर्व सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति ॥ किंत्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहस्रेष्वपि दुष्प्रापेति दर्शयितुमाह
जुद्धारिहं खलु दुलहं, जहित्थ कुसलेहिं परिन्नाविवेगे भासिए, चुए हु बाले गभाइस रज्जइ, अस्सि चेयं पच्चइ, रूवंसि वा छणंसि वा, से एगे संविद्धपहे मुणी, अन्नहा लोगमुवेहमाणे, इय कम्म परिण्णाय सव्वसो से न हिंसइ, संजमई नो प
Jain Education International
भइ, उवेहमाणो पत्तेयं सायं वण्णाएसी नारभे कंचणं सव्वलोए एगप्पमुहे विदिसम्पन्ने निव्विण्णचारी अरए पयासु ( सू० १५४ )
एतदौदारिकं शरीरं भावयुद्धार्ह, खलुरवधारणे, स च भिन्नक्रमो दुर्लभमेव - दुष्प्रापमेव, उक्तं च - " ननु पुनरि दमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ १ ॥" इत्यादि, पाठान्तरं
वा - " जुद्धारियं च दुलहं" तत्रानार्य सङ्ग्रामयुद्धं पुरीषहादिरिपुयुद्धं त्वायै तद् दुर्लभमेव तेन युद्ध्यस्व ततो भवतोऽशेपकर्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः । तच्च भावयुद्धार्ह शरीरं लब्ध्वा कश्चित्तेनैव भवेनाशेषकर्मक्षयं विधत्ते, मरुदेवीखामिनीव, कश्चित् सप्तभिरष्टभिर्वा भवैर्भरतवत् कश्चिदपार्द्ध पुद्गलपरावर्त्तेन, अपरो न सेत्स्यत्येव, | किमित्येवं यत आह-यथा येन प्रकारेण 'अत्र' अस्मिन् संसारे 'कुशलैः' तीर्थकृद्भिः 'परिज्ञाविवेकः' परिज्ञानविशिष्टता, कस्यचित् कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः 'भाषितः' प्रज्ञापितः, स च मतिमता तथैवाभ्युपगन्तव्य इति । तदेव | परिज्ञाननानात्वं दर्शयन्नाह - लब्ध्वाऽपि दुर्लभं मनुजत्वं प्राप्य च मोक्षैकगमनहेतुं धर्म्म पुनरपि कम्र्म्मोदयात्तस्मात् च्युतो 'बालः' अज्ञः 'गर्भादिषु रज्यते' गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भादयः तेष्वेव गार्द्धामुपयाति, यथैभिः सार्द्ध मम वियोगो मा भूत् इत्यध्यवसायी भवति, यदिवा धर्म्माश्वयुतस्तत्करोति येन गर्भादिषु यातनास्थानेषु सङ्गमुपयाति, 'रिज्जइ'त्ति वा क्वचित्पाठः, रीयते-गच्छतीत्यर्थः । स्यात् - कोक्तमिदं ? यत् प्राग् व्यावर्णितमित्याह -- 'अस्मि निति आर्हते प्रवचने 'एतत्' पूर्वोक्तं प्रकर्षेणोच्यते प्रोच्यते । एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह - 'रूपे' 'चक्षुरिन्द्रियविषयेऽभ्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ 'क्षणे' प्रवर्त्तते, 'क्षणु हिंसायां' क्षणनं क्षणो-हिंसा तस्यां प्रवर्त्तते वाशब्दादन्यत्र चानृतस्तेयादाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाच्च रूपोपादानं, आस्रवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच्च तदुपादानमिति । बालो रूपादिविषयनिमित्तं धर्माच्युतः सन् गर्भादिषु रज्यते, अत्राहते मार्गे इदमुच्यते यस्तु पुनर्गर्भादिगमनहेतुं ज्ञात्वा विषयसङ्गं धर्म्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्त्तते स किंभूतः | स्यादित्याह - 'स' जितेन्द्रियो, हुरवधारणे, स एवैकः - अद्वितीयो 'मुनिः' जगत्रयमन्ता 'संविद्धपथः ' सम्यग्विद्धः - ताडितः क्षुण्णः पन्थाः- मोक्षमार्गों ज्ञानदर्शनचारित्राख्यो येन स तथा, 'संविद्धभये' त्ति वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्यास्रवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्ग इति भावार्थः । किं च-अन्येन प्रकारे णान्यथा-विषयकपायाभिभूतं हिंसादिकर्म्मसु प्रवृत्तं 'लोकं' गृहस्थलोकं पाखण्डिलोकं वा पचनपाचनौदेशिकसश्चित्ताहारादिप्रवृत्तमुत्प्रेक्षमाणोऽन्यथा वा आत्मानं निवृत्तानुभव्यापारमुत्प्रेक्षमाणः संविद्धपथो मुनिः स्यात् इति । लोकं चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह - 'इति' पूर्वोकैर्हेतुभिर्यद्वद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यान परिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह - 'स' कर्म्मपरिहर्त्ता कायवाङ्मनोभिर्न हिनस्ति जन्तून् न घातयत्यपरैर्नाप्यनुमन्यते । किं च - पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकारं वा संयमं करोति संयमयति, आचारक्किबन्तं वैतत् संयम इवाचरति संयमयति । किं च- 'नो पग भइ' 'गल्भ धार्थे' असंयमकर्म्मसु प्रवृत्तः सन् न प्रगल्भ त्वमायाति, रहस्यप्य कार्यप्रवृत्तो जिह्रेति न धृष्टतां अवलम्बत इति, उपलक्षणार्थत्वादस्य क्षुण्णमोक्षपथो मुनिर्न क्रुध्यति, न जात्यादिमानमुद्वहति, न वञ्चनां विधत्ते, न लुभ्यति । किमाकलय्यैतत्कुर्यादित्याह - 'उत्प्रेक्षमाणः' अवगच्छन् प्रत्येकं प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यतः प्राणिनो न हिंस्यादिति । प्राणिनां प्रत्येकं सातमुत्प्रेक्षमाणश्च किं कुर्यादित्याह-वर्ण्यते - प्रशस्यते येन स वर्ण:- साधुकारस्तदादेशी वर्णादेशी-वर्णाभिलाषी सन् नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा - तपःसंयमादिकमप्यारम्भं यशः कीर्त्त्यर्थं नारभते, प्रवचनो
For Private Personal Use Only
लोक० ५
| उद्देशकः ३
॥ २११ ॥
www.jainelibrary.org