________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २०९ ॥
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २१० ॥
140
झोषितः क्षपितः अतो य एव तीर्थकृद्भिर्द्धम्मऽभिहितः स एव मोक्षमार्गो नापर इत्येतदेवाह - यथाऽत्र मया सन्धिझषितः एवमन्यत्र - अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिः - कर्म्मसन्ततिरूपः दुर्झाप्यो भवति दुःक्षयो भवति, असमीचीनतया तदुपायाभावाद्, यदि नाम भगवताऽत्र कर्म्मसन्धिर्शोषितस्ततः किमित्याह यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेण तपसा कर्म क्षपितं ततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्य 'नो निहन्यात्' नो निगूहयेद् अनिगूहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म ॥ कश्चैवम्भूतः स्यादित्याह-
जे पुट्ठाई नो पच्छानिवाई, जे पुव्वुट्टाई पच्छानिवाई, जे नो पुव्वुट्टायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति । ( सू० १५२ )
यः कश्चिद्विदितसंसारस्वभावतया धर्मचरणैकप्रवणमनाः पूर्व-प्रत्रज्याऽवसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वोस्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं वा निपातः सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत् प्रथमो भङ्गः । द्वितीयभङ्गं सूत्रेणैव दर्शयन्नाह - पूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्म्मपरिणतेस्तथाविधभवितव्यतानियोगात्पश्चान्निपाती स्यात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपि गोष्ठामा हिलवदिति । तृतीयभङ्गस्य चाभावादनुपादानं,
स चायम् — 'जे नो पुव्वुट्ठायी पच्छानिवाती', तथाहि - उत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सति धर्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दूरोत्सादितैव निपातचिन्तेति । चतुर्थभङ्गदर्शनाय त्वाह-यो हि नो पूर्वोत्थायी न च पश्चान्निपाती सोऽविरत एव गृहस्थः सन्नोत्थायी भवति सम्यग्विरतेरभावात् नापि पश्चान्निपाती उत्थाना विनाभावि त्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः तेषामप्युभयासद्भावादिति । ननु च गृहस्था एव चतुर्थभ ङ्गपतिता युक्ता वक्तुं, तथाहि तेषां सावद्ययोगानुष्ठानेनानुत्थानतया प्रतिज्ञामन्दरारोपाभावान्निपाताभावः, शाक्यादिरपि चतुर्थभङ्गपतित इत्यत आह- 'सोऽपि शाक्यादिर्गणः पश्च महाव्रतभारारोपणाभावेन सावद्ययोगानुष्ठानतया नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वान्नोपश्चानिपातीत्यतस्तादृश एव-गृहस्थतुल्य एव स्याद्, आस्रवद्वाराणामुभयेषामप्यसंवृतत्वात्, उदायिनृपमारकवत् । अन्येऽपि ये सावधानुष्ठायिनस्तेऽपि तादृक्षा एवेति दर्शयन्नाह - येऽपि स्वयूथ्याः पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थं तमेव लोकमन्वाश्रिता अम्वेषयन्ति वा तेऽपि गृहस्थ तुल्या एव भवेयुः ॥ स्वमनीषिकापरिहारार्थमाह
Jain Education International
एयं नियाय मुणिणा पवेइयं, इह आणाकंखी पंडिए अणिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि, किं ते जुज्झेण बझओ ? (सू० १५३ )
'एतद्' यदुत्थाननिपातादिकं प्रागुपन्यस्तं तत्केवलज्ञानावलोकनेन 'नियाय'त्ति ज्ञात्वा 'मुनिना' तीर्थकृता 'प्रवेदितं' कथितम् । इदं चान्यत्प्रवेदितमित्याह - 'इह' अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितः सन् 'आज्ञा' तीर्थकरोपदेशमाकाङ्गितुं शीलमस्येत्याज्ञाकाङ्क्षी - आगमानुसारप्रवृत्तिकः, कञ्चैवम्भूतः ? - 'पण्डितः सदसद्विवेकज्ञः 'अस्त्रिहः' स्नेहरहितः । | रागद्वेषविप्रमुक्तोऽहर्निशं गुरुनिर्देशवर्ती यत्नवान् स्यादित्येतदाह - पूर्वरात्रं- रात्रेः प्रथमो यामोऽपररात्र-रात्रेः पाश्चात्यः एतद्यामद्वयमपि 'यतमानः' सदाचारमाचरेत्, मध्यवर्त्तियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रादिकं विदध्यात्, रा|त्रियतनाप्रतिपादनेन चाह्नयपि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वात् । किं च - 'सदा' | सर्वकालं 'शीलम्' अष्टादशभेदसहस्रसङ्ख्यं संयमं वा यदिवा चतुर्द्धा शीलं - महाव्रतसमाधानं तिस्रो गुप्तयः पश्ञ्चेन्द्रि यदमः कषायनिग्रहश्चेत्येतच्छीलं सम्प्रेक्ष्य मोक्षाङ्गतयाऽनुपालयेत् नाक्षिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् । कश्च शीलसम्प्रेक्षकः स्यादित्याह-यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशील निर्व्रतानां च नरकादिपातविपाकमाकर्ण्यागमात्, 'भवेत्' स्यात् 'अकाम' इच्छामदनकामरहित इति, तथा नास्य 'झञ्झा' माया लोभेच्छा वा विद्यत इत्यझञ्झः, काम| झञ्झाप्रतिषेधाच्च मोहनीयोदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं भवति-धर्मं श्रुत्वा स्यात् अ| कामोऽझञ्झश्चेत्यनेन चोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः स्यात् अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यं । ननु चान्यजीवाच्छरीरमित्येवंभावनायुक्तस्यानिगूहितबलवीर्यस्य पराक्रममाणस्याष्टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्व
For Private Personal Use Only
लोक० ५
उद्देशका ३
॥ २०९ ॥
लोक० ५
उद्देशकः३
॥ २१० ॥
www.jainelibrary.org