________________
138
श्रीआचा- पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य । स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते ॥१॥" लोक... राङ्गवृत्तिः अपि च-एतदौदारिकं शरीरं सुचिरमप्यौपधरसायनाद्युपबृंहितं मृन्मयामघटादपि निःसारतरं सर्वथा सदा विशराबिति
त उद्देशका (शी) दर्शयन्नाह-'भिदुरधम्म'मित्यादि, यदिवा पूर्व पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्मस्वभावमित्याह-'भिदुर
धम्म'मित्यादि, स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरीरस्येति भिदुरधर्म, इदमौदारिकं शरीरं सुपोषितमपि ॥२०६॥
वेदनोदयाच्छिरोदरचक्षुरुरःप्रभृर्त्यवयवेषु स्वत एव भिद्यत इति भिदुरं, तथा विध्वंसनधर्म पाणिपादाद्यवयवविध्वंसनात् ,
तथा अवश्यंभावसम्भावितं त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवं, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया | ट्रकूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैव यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततो
ऽन्यदशाश्वतं, तथेष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाचयः तदभावेन तद्विचटनादपचयः, चयापचयौ विद्यते यस्य तच्चयापचयिकम् , अत एव विविधः परिणामः-अन्यथाभावात्मको धर्मः-स्वभावो यस्य तद्विपरिणामधर्म । यतश्चैवम्भूतमिदं शरीरकमतोऽस्योपरि कोऽनुवन्धः का मूर्छा?, नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह-पासह' इत्यादि, पश्यतैनं पूर्वोक्तं रूपसन्धि, भिदुरधर्माद्याघ्रातौदारिकं पञ्चेन्द्रियनिवृत्तिलाभावसरात्मक, दृष्ट्वा च विविधातङ्कजनितान् पर्शानध्यासयेदिति ॥ एतत्पश्यतश्च यत्स्यात्तदाह
समुप्पेहमाणस्स इक्काययणरयस्स इह विप्पमुक्कस्स नत्थि मग्गे विरयस्स त्तिबेमि । (सू० १४८) ||॥२०६ ।। सम्यगुत्प्रेक्षमाणस्य-पश्यतोऽनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः, किं च-आड्अभिविधौ समस्तपापारम्भेभ्यः आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत इत्यायतनंज्ञानादित्रयम् एकम्-अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य, किं च-'इह' शरीरे जन्मनि वा विविध परमार्थभाव-18 नया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य 'नास्ति' न विद्यते, कोऽसौ?—'मार्गो' नरकतिर्यमनुष्यगमनपद्धतिः, वर्तमानसामीप्ये वर्तमानदर्शनान्न भविष्यतीति नास्तीत्युक्तं, यदिवा तस्मिन्नेव जन्मनि समस्त कर्मक्षयोपपत्तेर्नास्ति नरका
दिमार्गः, कस्येति दर्शयति-'विरतस्य' हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् सुधजर्मस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि, न स्वमतिविरचनेनेति । विरत एव मुनिर्भवत्येतत्प्रतिपाद्य साम्प्रतम् 'अविरतवादी परिग्रहवानिति यदुक्तं तत्प्रतिपादयन्नाह
आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चेव परिग्गहावंती, एतदेव एगेसिं महब्भयं भवइ,
लोगवित्तं च णं उवेहाए, एए संगे अवियाणओ। (सू० १४९) यावन्तः केचन लोके 'परिग्रहवन्तः' परिग्रहयुक्ताः स्युस्तत(त्र) एवम्भूतपरिग्रहसद्भावादित्याह-'से अप्पं वा' इत्यादि, तद्रव्यं यत्परिगृह्यते तदल्पं वा-स्तोकं वा स्यात् कपर्दकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा
स्यात् मूल्यतस्तृणकाष्ठादि प्रमाणतो वज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि, एतच्च चित्तवद्वा स्यादश्रीआचा- चित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वतिनो तिनोऽपि स्युः, यदि- लोक० ५ राङ्गवृत्तिः वैतेष्वेव षट्सु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूछी कुर्वन्तः परिग्रहवन्तो भवन्ति, तथा चाविरतो
उद्देशकः२ (शी.) विरतिवादं वदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेष्वायोज्यम् , एकदेशापराधादपि सर्वापरा
|धितासम्भवः, अनिवारितास्रवत्वात् । यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सर॥२०७॥
|जस्कबोटिकादयोऽपरिग्रहाः स्युः, तेषां तदभावात् , नैतदस्ति, तदभावादित्यसिद्धो हेतुः, तथाहि-सरजस्कानामस्थ्यादिपरिग्रहाद्वोटिकानामपि पिछिकादिपरिग्रहाद् अन्त(न्तत)श्च शरीराहारादिपरिग्रहसद्भावात् , धर्मोपष्टम्भकत्वाददोष इति
चेद् तद् इतरत्रापि समानं, किं दिगम्बराग्रहग्रहेणेति । एतच्चाल्पादिपरिग्रहेण परिग्रहवत्त्वमपरिग्रहाभिमानिना चाहारशशरीरादिकं महतेऽनर्थायेति दर्शयन्नाह–'एतदेवे'त्यादि, एतदेव-अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां-परिग्रहवतां
नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत-तद्वान् सर्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धर्मोपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधि| नाऽशुद्धमाहारादिकं भुञ्जानस्य कर्मबन्धजनितमहाभयहेतुत्वान्महाभयं, तथैतद्धर्मशरीरं समस्ताच्छादनाभावाद्वीभत्स परेषां महाभयं, तन्निरवद्यविधिपालनाभावाच्च महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते-'लोग' इत्यादि, 'लोकस्य' असंयतलोकस्य 'वित्तं' द्रव्यमल्पादिविशेषणविशिष्टं, चशब्दः पुनःशब्दार्थे, णमिति वाक्यालङ्कारे, लोक
॥२०७॥ वित्तं लोकवृत्तं वा आहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयाय पुनरुत्प्रेक्ष्य-ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org