________________
137
लोक. ५
उद्देशकः२
यः क्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । स्वमनीषिकापरिहारार्थमाह-एस मग्गे' इत्यादि, 'एषः' अनन्तरोक्तो 'मार्गो' मोक्षपथः 'आयः सर्वहेयधारातीय(तीर)वर्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा वेदितः-कथितः प्रवेदित इति । न केवलमनन्तरोक्तो वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इति तदाह-'उहिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्माचरणाय क्षणमप्येकं न प्रमादयेत् । किं चापरमधिगम्येत्याह-जाणितु' इत्यादि, ज्ञात्वा प्राणिनां प्रत्येक दुःखं तदुपादानं वा कर्म तथा प्रत्येकं सातं च-मनाहादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा प्रत्येक, तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह-'पुढो' इत्यादि, पृथग्-भिन्नः छन्दः-अभिप्रायो येषां ते पृथग्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे'ति संसारे संज्ञिलोके वा, के ते?—'मानवाः' मनुष्याः, उपलक्षणार्थत्वादन्येऽपि, संज्ञिनां पृथक्सङ्कल्पत्वाच्च तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह-'पुढो' इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक् प्रवेदितं, सर्वस्य स्वकृतकर्मफलेश्वरत्वात् नान्यकृतमन्य उपभुते इति । एतन्मत्वा किं कुर्यादित्याह-'से' इत्यादि, 'सः' अनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् तथाऽनपवदन्-अन्यथैव व्यव|स्थितं वस्त्वन्यथा वदन्नपवदन् नापवदन् अनपवदन् , मृपावादमब्रुवन्नित्यर्थः, पश्य च त्वं तस्यापि प्राकृतत्वादार्षत्वाद्वा लोपः, एवं परस्वमगृह्णन्नित्याद्यप्यायोज्यम् । एतद्विधायी च किमपरं कुर्यादित्याह-पुट्ठों' इत्यादि, स पञ्चमहावतव्यव
स्थितः सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यतः स्पृष्टः परीषहोपसर्गस्तान तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा तबा. सू.३५ श्रीआचा- सहिष्णुतया अनाकुलो विविधैरुपायैः-प्रकारैः संसारासारभावनादिभिः प्रेरयेत्, तत्प्रेरणं च सम्यक्सहन, न तत्कृतया राङ्गवृत्तिः||दुःखासिकयाऽऽत्मानं भावये दितियावत् ॥ यो हि सम्यकरणतया परीषहान सहेत स किंगुणः स्यादित्याह(शी०) एस समिया परियाए वियाहिए, जे असत्ता पावहिं कम्मेहिं उदाहु ते आयंका फु
संति, इति उदाहु धीरे ते फासे पुट्ठो अहियासइ, से पुदिपेयं पच्छापेयं भेउरधम्म विद्धंसणधम्ममधुवं अणिइयं असासयं चयावचइयं विपरिणामधम्म, पासह एवं
रूवसंधि । (सू० १४७) 'एषः' अनन्तरोक्तो यः परीपहाणां प्रणोदकः 'समिया' सम्यक् शमिता वा शमोऽस्यास्तीति शमी तमायः शमिता 'पर्यायः' प्रत्रज्या सम्यक् शमितया वा पर्यायः-प्रवज्याऽस्येति विगृह्य बहुव्रीहिः स सम्यकपर्यायः शमितापर्यायो वा व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य ग्याधिसहिष्णुतां प्रतिपादयमाह-'जे असत्ता' इत्यादि, येऽपाकृतमदनतया समतृणमणिलेष्टुकाश्चनाः समतापन्नाः पापेषु कर्मस्वसक्ताः-पापोपादानानुष्ठानारताः 'उदाहु' कदाचित्तान् तथाभूतान् साधून 'आतङ्का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः 'स्पृशन्ति' अभिभवन्ति पीडयन्ति । यदि नामैवं ततः किमित्याह-'इति उदाहु' इत्यादि, 'इति' एतद्वक्ष्यमाणमुदाहृतवान्-व्याकृतवान्, कोऽसौ ?-'धीरो' धी:-बुद्धिस्तया राजते, स च तीर्थकृगणधरो वा, किं तदुदाहृतवान् ?-तैरातः स्पृष्टः सन् तान् पर्शान-दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्-सहेत । किमाकलय्येत्याह-'से पुव' मित्यादि, स स्पृष्टः पीडितः आशुकारिभिरातकैरेतद्भावयेद् यथा पूर्वमप्येतद्-असातावेदनीयविषाकजनितं दुःखं मयैव सोढव्यं, पश्चा-16 दप्येतन्मयैव सहनीयं, यतः संसारोदरविवरवत्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादिता रोगातङ्का न भवेयुः, तथाहि-केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्वद्धस्पृष्टनिधत्तनिकांचनावस्थायातं कम्मोवश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति, उक्तं च-"स्वकृतपरिणतानां दुर्नयानां विपाका,
||२०५॥
१-३-३-४ कर्मबन्धश्चतुर्विधः, तद्यथा-प्रकृतिबन्धः १ स्थितिबन्धः २ अनुभागबन्धः ३ प्रदेशबन्धः ४, तत्र प्रकृतिबन्धोऽष्टविधः, ज्ञानावरणीयाद्यन्तरायान्तः, एतेऽष्टावपि मूलभेदाः, उत्तरभेदास्तु शानावरणीये पश्च, दर्शनावरणीये नव, वेदनीये दौ, मोहनीयेऽष्टाविंशतिः, आयुषश्चत्वारः, नाम्नः द्विचत्वारिंशत् सप्तषष्टिा त्रिनवतिर्वा व्युत्तरशतं वा, गोत्रे द्वौ, अन्तराये पञ्च, इति मूलोत्तरप्रकृतिवन्धः । स्थितिबन्धे ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायेषु त्रिंशत्कोटीकोव्य उत्कृष्टा स्थितिः, मोहनीये सप्ततिकोटाकोव्यः, नामगोत्रयोविंशतिः, आयुषि ३३ सागरोपमाणि पूर्वकोटित्रिभागोनानि, नामगोत्रयोर्जघन्या स्थितिरष्टौ मुहूर्ताः, वेदनीयस्स बारसमुहुत्ता, अंतोमुहुत्ता सेसाणं इति स्थितिबन्धः, शुभाशुभकर्मपुगलेघु-"जो रसो अणुभागो बुञ्च तत्थ सुभेसु महुरो असुभेसु अमहुरो रसो तस्स बन्धो अणुभागबंधो" अणुभागबन्धो समत्तो । प्रदेशाः-कर्मवर्गणास्कन्धाः तेषां बन्धः जीवप्रदेशैः समं वययःपिण्डवत्क्षीरनीरसम्बन्धवद्वा, उक्तं च-"जीवकर्मप्रदेशाना, यः सम्बन्धः परस्परम् । कृशानुलोहवद्धेतोः, तं बन्धं जगदुर्बुधाः ॥१॥" स्पृष्टवद्धनिधत्तनिकाचितकारणभेदात् स पुनचतुर्विधः, तथाहिसमूहगतायःसूचिसम्बन्धवत् स्पृष्टकर्मबन्धः, दवरकबद्धसूचिसम्बन्धवद्धकर्मबन्धः, वर्षान्तरितदवरकबद्धसूचिकासम्बन्धवनिधत्तकर्मबन्धः, अनिमातश्चिकासमवायमेलकवभिकाचितकर्मबन्धः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org