________________
136
श्रीआचा- इत्यादि, 'स' विषयगृनुरिन्द्रियानुकूलवत्येकचर्याप्रतिपन्नस्तीर्थिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति लोक सावृत्तिःबहुक्रोधः, तथा वन्द्यमानो मानमुद्वहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारा(शी.) दिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजा:-बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, तथा नटवद्भोगार्थ उद्देशका
|बहून वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पा:-कर्त्तव्याध्यवसाया यस्य स ॥२०३॥
बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचर्या वाच्येति, स एवम्भूतः किमवस्थः स्यादित्याह-'आसव' इत्यादि, आस्रवाः-हिंसादयस्तेषु सक्तं-सङ्गं आश्रवसक्तं तद्विद्यते यस्यासावाश्रवसक्ती-हिंसाद्यनुपङ्गवान् पलितं-कर्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत्, स चैवम्भूतोऽपि किं ब्रूयादित्याह-'उढिय'इत्यादि, धर्मचरणायोद्युक्तः उत्थितस्त
द्वाद उत्थितवादस्तं प्रवदन् , तीर्थकोऽप्येवमाह-यथा अहमपि प्रवजितो धर्मचरणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छादद्यत इति । स चोत्थितवादी आस्रवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्त्तत इत्याह-'मा मे'इत्यादि, मा मां 'के-||
चन' अन्येऽद्राक्षुरवद्यकारिणमित्यतः प्रच्छन्नमकार्य विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किं Milच-'सयय'मित्यादि, 'सततम्' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा 'धर्म' श्रुतचारित्राख्यं नाभिजानाति, न वि-10
वेचयतीत्यर्थः । यद्येवं ततः किमित्याह-'अट्टा' इत्यादि, आर्ता विषायकषायैः 'प्रजायन्त' इति प्रजाः-जन्तवः हे मानव!, मनुजस्यैवोपदेशाहत्वान्मानवग्रहणं, 'कर्मणि' अष्टप्रकारे विभंत्सिते 'कोविदाः' कुशलाः, न धर्मानुष्ठान इति, के पुनः ते ये सततं धर्म नाभिजानन्ति कर्मबन्धकोविदाश्चेति?, अत आह-जे अणुवरया' इत्यादि, ये केचनानिदिष्टस्वरूपाः 'अनुपरता' पापानुष्ठानेभ्योऽनिवृत्ता ज्ञानदर्शनचारित्राणि मोक्षमार्ग इत्येषा विद्या अतो विपर्ययेणाविद्या तया परि-समन्तात् मोक्षमाहुः ते धर्म नाभिजानन्त इति सम्बन्धः, धर्ममजानानाश्च किमामुयुरित्याह-'आव' इत्यादि, भावावर्तः-संसारस्तमरघट्टघटीयन्त्रन्यायेनानुपरिवर्तन्ते, तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीतियावत् ।। इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने प्रथमोद्देशक इति ॥१॥
RANSWERRAKASA%A५,
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इह प्रागुदेशके एकचर्याप्रतिपन्नोऽपि सा-| वद्यानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तम् , इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेना-I यातस्यास्योहेशकस्यादि सत्रम
आवन्ती केयावन्ती लोए अणारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं सं. धीति अदक्खू, जे इमस्स विग्गहस्स अयं खणेत्ति अन्नेसी एस मग्गे आरिएहिं प. वेइए, उट्ठिए नो पमायए, जाणित्तु दुक्खं पत्तेयं सायं, पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं से अविहिंसमाणे अणवयमाणे, पुट्ठो फासे विपणुन्नए (सू० १४६.)
श्रीआचाराङ्गवृत्तिः (शी०)
॥२०४॥
'यावन्तः' केचन 'लोके' मनुष्यलोके 'अनारम्भजीविनः' आरम्भः-सावद्यानुष्ठानं प्रमत्तयोगो वा, उक्तं च-"आदाणे लोक०५ निक्खेवे भासुस्सग्गे अ ठाणगमणाई । सव्वो पमत्तजोगो समणस्सवि होइ आरंभो ॥१॥” तद्विपर्ययेण त्वनारम्भस्तेन जीवितुं शीलं येषां इत्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्ताः तेष्वेव-गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्व
उद्देशका नारम्भजीविनो भवन्ति, एतदुक्तं भवति-सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवन्निर्लेपा एव भवन्ति । यद्येवं ततः किमित्याह-'अत्र' अस्मिन् सावद्यारम्भे कर्त्तव्ये 'उपरतः' सङ्कुचितगात्रः, अत्र वाऽऽहते धर्मे व्यवस्थित उपरतः पापारम्भात्, किं कुर्यात् स?-'तत्' सावद्यानुष्ठानायातं कर्म 'झोषयन्' क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह-'अयं संधी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका || धातवो, यथा पश्य मृगो धावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगेऽप्ययं सन्धिरिति प्रथमा कृतेति, 'अय'मिति प्रत्यक्षगोचरापन्न आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिवृत्तिश्रद्धासंवेगलक्षणः 'सन्धिः' अवसरो मिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीअवानित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् । कश्च न प्रमत्तः स्यादित्याह-'जे इमस्स' इत्यादि, 'य' इत्युपलब्धतत्त्वः 'अस्य' अध्यक्षस्य विशेषेण गृह्यते अनेनाष्टप्रकारं कर्म तद्वेतरशरीरविशिष्टं बाह्येन्द्रियेण गृह्यत इति विग्रहः-औदारिकं शरीरं तस्य 'अयं' वार्त्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपश्च गतः एवम्भूतश्च भावीत्येवं
। २०४॥ १ आदाने निक्षेपे भाषायामुत्सर्गे च स्थाने गमनादी । सर्वः प्रमत्तयोगः श्रमणस्यापि भवल्यारम्भः ॥१॥
रापन्न आर्यक्षेत्रसालक्षणः सन्धिः शुभाधमादवशगो भूयात् । कम तद्वेतर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org