SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 135 4%AAAAAACAN CHANAMA-NAMANASANC श्रीआचारावृत्तिः (शी०) परिपच्यमानो वा विषयपिपासया रमते, कैः?-पापैः कर्मभिः, विषयार्थ सावद्यानुष्ठाने धृति विधत्ते, किं कुर्वाण इत्याह -'असरण मित्यादि, कामाग्निना पापैर्वा कर्मभिः परिपच्यमानः सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छाऽज्ञानतमिस्राच्छादितदृष्टिविपर्ययः सन् भूयो भूयो नानारूपावेदना अनुभवेदिति । आस्तां तावदन्ये, प्रव्रज्यामप्यभ्युपेत्य केचिद्विषयपिपासास्तिांस्तान् कल्काचारानाचरन्तीति दर्शयितुमाह-'इहमेगेसि'मित्यादि, 'इह' मनुष्यलोके एकेषां न सर्वेषां, चरणं चर्यते वा चर्या एकस्य चर्या एकचर्या, सा च प्रशस्तेतरभेदेन द्विधा-साऽपि द्रव्यभावभेदात् प्रत्येक द्विधा, तत्र द्रव्यतो गृहस्थपापण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणं, भावतस्तु अप्रशस्ता न विद्यते, सा | हि रागद्वेषविरहाद्भवति, न च तद्रहितस्याप्रशस्ततेति । प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पिकस्य चैकाकिनः सङ्घादिकार्यनिमित्तान्निर्गतस्य, भावतस्तु पुना रागद्वेषविरहाद्भवति, तत्र द्रव्यतो भावतश्चैकचर्या अनुत्पन्नज्ञानानां तीर्थकृतां प्रतिपन्नसंयमानाम् , अन्ये तु चतुर्भङ्गपतिताः, तत्राप्रशस्तद्रव्यैकचर्योदाहरणं, तद्यथा-पूर्वदेशे धान्यपूरकाभिधाने सन्निवेशे एकस्तापसः प्रथमवया देवकुमारसदृशविग्रहः षष्ठभक्तेन तद्रामनिर्गमपथे तपस्तेपे, द्वितीयोऽप्युपग्रामं गिरिगहरेऽष्टमभक्तेन तपःकर्मणाऽऽतापनां विधत्ते, तस्मै च ग्रामनिर्गमपथवर्तिने शीतोष्णसहिष्णवे गुणैराकृष्टो लोक आहारादिभिः सपर्ययोपतिष्ठते, स च तथा लोकेन पूज्यमानो वाग्भिरभिष्ट्रयमानः आहारादिनोपचर्यमाणो जनमूचे-मत्तोऽपि गिरिपरिसरातापी दुष्करकारकः, ततोऽसौ लोकस्तेन भूयो भूयःप्रोच्यमानस्तमेकाकिनं तापसमद्रिकुहरवासिनं पर्यपूजयद्, दुष्करं च परगुणोत्कीर्तनमितिकृत्वा तस्यापि सपर्यादिकं व्यधात्, तदेवमाभ्यां पूजाख्यात्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति ।। लाक०५ तदेवं सूत्रार्थे व्याख्याते सूत्रसर्शिकनियुक्त्या नियुक्तिकारो व्याचिख्यासुराह उद्देशका | चारो चरिया चरणं एग8 बंजणं तहिं छक्कं । दव्वं तु दारुसंकम जलथलचाराइयं बहुहा ॥ २४६॥ | 'चार' इति 'चर गतिभक्षणयोः' भावे घञ् , चर्येति 'गदमदचरयमश्चानुपसर्गे' (पा. ३-१-१००) इत्यनेन कर्मणि भावे वा यत् , चरणमिति वा, भावे ल्युट्, एकः-अभिन्नोऽर्थोऽस्येत्येकार्थ, किं तत् ?--'व्यञ्जन व्यज्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनं-शब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थ, एकार्थत्वाच्च न पृथग् निक्षेपः, 'तत्र' चारनिक्षेपे पढें, चारस्य षट्प्रकारो निक्षेप इत्यर्थः, तद्यथा-नामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारं गाथाशकलेन दर्शयति-'दव्वं तु' त्ति तुशब्दः पुनःशब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्गमश्च जलस्थलचारश्च दारुसमजलस्थल चारौ तावादी यस्य तदारुसमजलस्थलचारादिकं 'बहुधा' अनेकधा, तत्र दारुसङ्कमो जले सेत्वादिः क्रियते, स्थले वा गर्तलङ्घनादिकः, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानपतयादिरिति, यद्यद्देशाद्देशान्तरावाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः ॥ साम्प्रतं क्षेत्रादिकमाहखितं तु जंमि खित्ते कालो काले जहिं भवे चारो। भावंमि नाणदसणचरणं तु पसत्थमपसत्थं ॥२४७॥ क्षेत्रं पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं ||२०२॥ 3 स कालचारः, भावे तु द्विधा चरणं-प्रशस्तमप्रशस्तं च, तत्र प्रशस्तं ज्ञानदर्शनचरणानि, अतोऽन्यदप्रशस्तं गृहस्थान्यतीर्थकाणामिति गाथार्थः॥ तदेवं सामान्यतो द्रव्यादिकं चारं प्रदर्य प्रकृतोपयोगितया यते वचारं प्रशस्तं प्रश्नद्वारेण दर्शयितुमाह। लोगे चउविहंमी समणस्स चउविहो कहं चारो?। होई घिई अहिगारो विसेसओ खित्तकालेसं ॥२४८॥ __ 'लोके' चतुर्विधे द्रव्यक्षेत्रकालभावरूपे 'श्रमणस्य' श्राम्यतीति श्रमणो यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्याद् , इति प्रश्न निर्वचनमाह-भवति धृतिरित्येपोऽधिकारः, द्रव्ये तावदरसविरसप्रान्तरुक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थिकभाविते प्रकृत्यभद्रके वा नोद्वेगः कार्यः, कालेऽपि दुष्कालादौ यथालाभं सन्तोषिणा भाव्यं, भावेप्याक्रोशोपहसनादौ नोद्दीपितव्यं, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्यभावयोरपि प्रायस्तन्निमित्तस्वात् ॥ पुनरपि द्रव्यादिकं विशेषतो यतेश्चारमाह पावोवरए अपरिग्गहे अ गुरुकुलनिसेवए जुत्ते । उम्मग्गवजए रागदोसविरए य से विहरे ॥ २४९॥ 'पापोपरतः' पापात्-पापहेतोः सावद्यानुष्ठानाद्धिंसाऽनृतादत्तादानाब्रह्मरूपादुपरतः पापोपरतः, तथा न विद्यते परिग्रहोऽस्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः, क्षेत्रचारमाह-गुरोः कुलं गुरुकुलं-गुरुसान्निध्यं तत्सेवको-युक्तः समन्वितो यावजीवं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शितः, सर्वकालं गुरूपदेशविधायित्वोपदेशाद्, भावचारमाह-उद्गतो मार्गादुन्मार्गः-अकार्याचरणं तदर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेत्-संयमानुष्ठानं कुर्यादिति गता। नियुक्तिः। साम्प्रतं सूत्रमनुश्रियते-तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूतः स्यादित्याह-से बहु कोहे' ARACKSO900 | खित्तं तु मिसाद्देशान्तरावाप्तये द्रव्यास नावादिना, स्थलचा धा' अनेकधा, तत्र AROSCAKACAAAAAAAAA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy