________________
श्रीआचावृत्तिः
(शी०)
॥ २०० ॥
श्रीआवा राङ्गवृति:
(शी०)
॥ २०१ ॥
134
यस्य प्रवृत्त्यङ्गत्वात् । अनर्थस्तु संसारः संसारकारणं च तत्सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात् ' अतः संशयमर्थानर्थगतं परिजानतो हेयोपादेयप्रवृत्तिः स्यादित्येतदेव परमार्थतः संसारपरिज्ञानमिति दर्शयति - तेन संशयं परिजानता संसारश्चतुर्गतिकः तदुपादानं वा मिथ्यात्वाविरत्यादि अनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु परिहृतमिति, यस्तु पुनः संशयं न जानीते स संसारमपि न जानातीति दर्शयितुमाह - 'संसयं' इत्यादि, 'संशयं' सन्देहं द्विविधमप्यपरिजानतो हेयोपादेयप्रवृत्तिर्न स्यात्, तदप्रवृत्तौ च संसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलो निःसारो न ज्ञातो भवति ॥ कुतः पुनरेतन्निश्चीयते ? यथा तेन संशयवेदिना संसारः परिज्ञात इति ?, किमत्र निश्चेतव्यं ?, संसारपरिज्ञान कार्य विरत्युपलब्धेः, तत्र सर्वविरतिप्रष्ठां विरतिं निर्दिदिक्षुराह
जे छे से सागारियं न सेवइ, कट्टु एवमवियाणओ बिइया मंदस्स बालया, ला हुत्था पडिलेहाए आगमित्ता आणविज्जा अणासेवणय त्ति बेमि (सू० १४४ )
Jain Education International
'जे छेए' इत्यादि यश्छेको निपुण उपलब्धपुण्यपापः स 'सागारियं'ति मैथुनं न सेवते मनोवाक्कायकर्मभिः, स एव यथावस्थितसंसारवेदी, यस्तु पुनर्मोहनीयोदयात्पार्श्वस्थादिः तत्सेवते, सेवित्वा च सातगौरवभयात् किं कुर्यादित्याह - 'कट्ट' इत्यादि, रहसि मैथुनप्रसङ्गं कृत्वा पुनर्गुर्वादिना पृष्टः सन्नपलपति, तस्य चैत्रमकार्यमपलपतोऽविज्ञापयतो वा किं स्यादित्याह- 'बिइया' इत्यादि, 'मन्दस्य' अबुद्धिमत एकमकार्यासेवनमियं बालता - अज्ञानता, द्वितीया तदपह्नवनं मृषावादः तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति - " जे खलु विसए सेवई सेवित्ता वा णालो-एइ, परेण वा पुट्ठो निण्हवइ, अहवा तं परं सएण वा दोसेण पाविट्ठयरेण वा दोसेण उवलिंपिज्ज' त्ति" सुगमं । यद्येवं ततः किं कुर्यादित्याह - 'लद्धा हु' इत्यादि, लब्धानपि कामान् 'हुरत्थे' त्ति बहिश्चित्रक्षुल्लकादिवत्तद्विपाकं प्रत्युपेक्ष्य चित्ताद्बहिः कुर्यात्, यदित्रा हुशब्दोऽपिशब्दार्थे, रेफागमः सुव्यत्ययेन द्वितीयार्थे प्रथमा, ततोऽयमर्थो - लब्धानप्यर्थ्यन्ते -अभिलष्यन्त इत्यर्था:- शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण 'प्रत्युपेक्ष्य' पर्यालोच्य ततः 'आगम्य' ज्ञात्वा दुरन्तं शब्दादिविषयानुषङ्गं, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वात्तां दर्शयति - तदनासेवनतया परानाज्ञापयेत् स्वतोऽपि परिहरेदिति, एतदहं ब्रवीमि येन मया पूर्वार्थव्यावर्णनमकारि स एवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाहः शब्दादिविषयस्वरूपोपलम्भात् समुपजनितजिनवचनसंमद इति । एतच्च वक्ष्यमाणं ब्रवीमीति, तदाह
पासह एगे रूवेसु गिद्धे परिणिजमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएस चेव आरंभजीवी, इत्थवि वाले परिपञ्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्नमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिङच्छन्ने उट्टियवायं पवयमाणे, मा मे केइ अदक्खू अन्नायपमायदोसेणं, सययं मूढे
धम्मं नाभिजाइ, अट्टा पया माणव ! कंमकोविया जे अणुवरया अविज्जाए पलिमक्खमाहु आवमेव अणुपरियद्वंति तिबेमि ( १४५) ॥ लोकसारे प्रथमोद्देशकः ५–१ ॥
'पासह' इत्यादि, हे जनाः ! पश्यत यूयमेकान्तपुष्टधर्माणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादिष्विन्द्रिय|विषयेषु निःसारकटुफलेषु 'गृद्धान्' अभ्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु वा परिणीयमानान् प्राणिन इति । ते च विषयगृभव इन्द्रियवशगाः संसारार्णवे किमाशुयुरित्याह- 'एत्थ फासे' इत्यादि, 'अत्र' अस्मिन् संसारे हृषीकवशगः सन् कर्म्मपरिणतिरूपान् स्पर्शान् पौनःपुन्येन - आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति । पाठान्तरं वा 'एत्थ मोहं पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भूतः स्यादित्यत आह- 'आवंती'त्यादि, यावन्तः केचन 'लोके' गृहस्थलोके 'आरम्भजीविनः' सावद्यानुष्ठानस्थितिकाः, ते पौनःपुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्भास्तीर्थिकादयस्तेऽपि तद्दुःखभा| जिन इति दर्शयति- 'एएसु' इत्यादि, 'एतेषु' सावद्यारम्भप्रवृत्तेषु गृहस्थेषु शरीरयापनार्थं वर्त्तमानस्तीर्थिकः पार्श्वस्थादिर्वा 'आरम्भजीवी' सावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति । आस्तां तावद्गृहस्थस्तीर्थिको वा, योऽपि संसारार्णव तटदेशमवाप्य सम्यक्त्वरलं लब्ध्वाऽपि मोक्षैककारणं विरतिपरिणामं सफलतामनीत्वा कम्र्म्मोदयात् सोऽपि सावधानुष्ठायी | स्यादित्याह -- ' एत्थवि बाले' इत्यादि, 'अत्र' अस्मिन्नप्यर्हाणीत संयमाभ्युपगमे 'बालो' रागद्वेषाकुलितः परितप्यमानः
लोक० ५
उद्देशका १
For Private Personal Use Only
11 200 11
लोक० ५
उद्देशकः १
॥ २०१ ॥
www.jainelibrary.org