________________
133
%2525%
%
%
%25E%-%252%
आणि कुरुते यान्यस्य कायगतस्य विपच्यन्ते ?, तदुच्यते-'गुरू से कामा' 'से' तस्यापरमार्थविदः काम्यन्त इति कामाःशब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसत्त्वैरनवाप्तपुण्योपचयैरुल्लचयितुं दुष्करमित्यतस्तदर्थ कायेषु प्रवर्तते तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच यत्स्यात्तदाह-'ततः' पड्जीवनिकायविपरामर्शात् परमकामगुरुत्वाचासौ मरणं मारः-आयुषः क्षयस्तस्यान्तर्वर्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावी मृत्युरेवं जन्ममरणात् संसारोदन्वति मजनोन्मजनरूपान्न मुच्यते । ततः किमपरमित्याह-'जओ से'इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ 'दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद, यदिवा सुखार्थी कामान परित्यजति, तदपरित्यागे च मारान्तर्वती, यतश्च मारान्तर्वती ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखारे । यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तर्वती तदन्तवर्तित्वात्किम्भूतो भवतीत्यत आह-'नेव से'इत्यादि, नैवासी विषयसुखस्यान्तर्वर्त्तते, तदभिलाषापरित्यागाच नैवासौ दूरे, यदिवा यस्य गुरवः कामाः स किं कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह-'णेव से'इत्यादि, नैवासौ कर्मणोऽन्तः-मध्ये भिन्नग्रन्थित्वात्सम्भावितावश्यंभाविकर्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोनकोटीकोटिकर्मस्थितिकत्वात् , चारित्रावाप्तावपि नैवान्तनैव च दूरे इत्येतच्छक्यते वक्तुं, पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणायि किमसावन्तर्भूतः संसारस्याहोश्विद्वहिर्वर्त्तते इत्याशङ्कयाह-णेव से इत्यादि, नैवासौ संसारान्तः घातिकर्मक्षयात् नापि दूरे अद्यापि भवोपग्राहिकर्मसद्भावादिति ॥ यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यक्त्वः संसारारातीयतीरवी स किमध्यवसायी स्यादित्याह
%
लोक०५
था. सू. ३४ श्रीआचाराङ्गवृत्तिः (शी०)
1%
उद्देशका
DI||१९९॥
ASRASAINARONACHARYA
से पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं, एवं बालस्स जीवियं मंदस्स अवियाणओ, कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परिआसमुवेइ,
मोहेण गम्भं मरणाइ एइ, एत्थ मोहे पुणो पुणो (सू० १४२) ‘से पासई त्यादि, 'सः' अपगतमिथ्यात्वपटलः सम्यक्त्वप्रभावावगतसंसारासारः 'पश्यति' शिरुपलब्धिक्रिय इत्यत र उपलभते-अवगच्छति, किं तत्१-'फुसियमिव'त्ति कुशाग्र उदकबिन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूत
मित्याह-पणुशमित्यावि, प्रणुनम्-अनवरतापरापरोदकपरमाणूपचयात् प्रणु-प्रेरितं वातेनेरितं सनिपतितं भाविनि भूतवदुपचारानिपतदेव निपतितं, दार्शन्तिकं दर्शयति एवं मिति यथा कुशाग्रे बिन्दुः क्षणसम्भावितस्थितिकः एवं बालस्यापि जीवितम् , अवगततत्वो हि स्वयमेवावगच्छति नाप्यसौ तदभिकाशति अतो बालग्रहणं, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालोऽत एव मन्दः-सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थ न जानाति, अतः परमार्थमविजानत एवम्भूतं जीवितमित्येवं पश्यति । परमार्थमजानश्च यत्कुर्यात्तदाह-'कूराणि'इत्यादि, 'क्रूराणि' निर्दयानि निरनुक्रोशानि '
कर्माणि' अनुष्टानानि हिंसानृतस्तेयादीनि सकललोकचमत्कृतिकारीणि अटादश वा पापस्थानानि 'बालः' अज्ञः प्रकर्षेण कुर्वाणः, कञभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैव तरिक्रयाफलविपाकं दर्शयति-'तेन' क्रूरकर्मविपाकापादितेन दुःखेन 'मूढः' किंकर्तव्यताऽऽकुलः, केन कृतेन ममैतहुःखमुपशमं यायादिति मोहमोहितो विपर्यासमुपैति-यदेव प्राण्युपघातादि दुःखोसादने कारणं तदुपशमाय तदेव विदधातीति । किं च -'मोहेण'इत्यादि, 'मोहः' अज्ञानं मोहनीयं वा मिथ्यात्वकषायविषयाभिलाषमयं तेन मोहेन मोहितः सन् कर्म वनाति, तेन च गर्भमवामोति, ततोऽपि जन्म पुनर्वालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कम्र्मोपादायायुषःक्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते-'एत्थ'इत्यादि, 'अत्र' अस्मिन्ननन्तरोक्के 'मोहे' मोहकार्ये गर्भमरणादिके पौनःपुन्येनानादिकमपर्यन्तं चतुर्गतिकं संसारकान्तारं पर्यटति, नास्मादपैतीतियावत्, कथं पुनः संसारे न बम्धम्यात्, तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्, असावेव कुतो?, विशिष्टज्ञानोसत्तेः?, सैव कुतो?, मोहाभावात्, यद्येवमितरेतराश्रयत्वं, तथाहि-मोहोऽज्ञानं मोहनीयं वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्त, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्ता न तावत्कर्मशमनाय प्रवृत्तिः स्यात्, नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति । आह च
संसयं परिआणओ संसारे परिन्नाए भवइ, संसयं अपरियाणओ संसारे अपरि
नाए भवइ (सू० १४३) 'संसय'मित्यादि, संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थो मोक्षो मोक्षोपायश्च, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात्, तदुपाये तु संशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंश
25-
50
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org