________________
132
k
ॐ
-
-
-
-
--
-
श्रीआचा- उत्तमसुखं तेन वरिष्ठा-वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति-साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शनसं-II लोक०५ रावृत्तिः यमतपसि, तस्मिंश्च भावसारे सिद्धाख्यफलसाधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति (शी०) गाथार्थः ।। तस्यैव ज्ञानादेः सिद्ध्युपायस्य भावसारतां प्रतिपादयन्नाह
रदेशका ॥१९७॥
KI लोगंमि कुसमएसु य कामपरिग्गहकुमग्गलग्गेसुं । सारो हु नाणदंसणतवचरणगुणा हियट्ठाए ॥२४२।।
'लोके' गृहस्थलोके कुत्सिताः समयाः कुसमयाः तेषु च, किम्भूतेषु ?-कामपरिग्रहेग ये कुत्सिता मार्गास्तेषु लग्नेषु, हुहेतौ, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति, वक्ति च-गृहाश्रमसमो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः ॥ १॥ गृहाश्रमाधाराश्च सर्वेऽपि पापण्डिनः इत्येवं महामोहमोहितइच्छामदनकामेषु प्रवर्त्तते, तथा तीथिका अप्यनिरुद्धेन्द्रियप्रसरा द्विरूपकामाभिध्वङ्गिणः इत्यतस्तेषु सारो ज्ञानदर्शन-11 तपश्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात् , हिता-सिद्धिस्तदर्थत्वादिति गाथार्थः ॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्तव्यमित्याह| चइऊणं संकपयं सारपयमिणं दढेण चित्तव्वं । अस्थि जिओ परमपयं जयणा जा रागदोसेहिं ॥ २४३ ॥
'त्यक्त्वा' प्रोज्झ्य, किं तत्?-'शङ्कापदं' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवम्भूतो विकल्पः शङ्का तस्याः ॥१९८॥ पदं-निमित्तकारणं तच्चाहेमोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेषु या संशीतिः-सन्देह इत्येतद्रूपं तच्छकापदं विहाय सारपदं-इदं ज्ञानादिकं प्रागुपन्यस्तं दृढेन-अनन्यमनस्केन नीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्य, तदेव शङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः, अस्य च पदार्थानामादावुपण्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहणं, अस्ति-विद्यते जीवितवान् जीवति जीविष्यतीति वा जीवः शुभाशुभफलभोक्तेति, स च प्रत्यक्ष एवाहंप्रत्ययसाध्यः, इच्छाद्वेषप्रयत्नादिकार्यानुमानसाध्यो वा, तथा अजीवा अपि धर्माधर्माकाशपुद्गला गतिस्थित्यवगाहळ्यणुकादिस्कन्धहेतवः सन्ति,एवमान वसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वादाचं जीवपदार्थ साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति-परमं च तत्पदं च परमपदं, तच्चास्तीति सम्बन्ध इति, अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनाभावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवातावुपायो न स्यात्ततो जनाः किं कुर्युरित्यत तत्कारणास्तित्वं दर्शयति-'यतना'यत्नो रागद्वे. पेषु, रागद्वेषोपशमाद्यः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं दृढेन ग्राह्यमिति गाथार्थः॥ ततोऽप्यपरापरसारप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाहलोगस्स उ को सारो? तस्स य सारस्स को हवह सारो?तस्स यसारो सारं जह जाणसि पुच्छिओ साह२४४ __ 'लोकस्य' चतुर्दशरजयात्मकस्य का सारः, तस्यापि सारस्य कोऽपरः सारः?, तस्यापि सारसारस्य सारं यदि जानासि ततः पृष्टो मया कथयेति गाथार्थः ॥ प्रश्नपतिवचनार्थमाह
लोगस्स सार धम्मो धम्मपि य माणसारिय बिति । नाणं संजमसारं संजमसारंच निव्वाणं ॥ २४५ ॥ श्रीआचा-8 समस्तस्यापि लोकस्य तावद्धर्मः सारो, धर्ममपि ज्ञानसारं अवते, ज्ञानमपि संयमसारं, संयमस्यापि सारभूतं निर्वाण- लोक० ५ रावृत्तिः| मिति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्(शी०) आवंती केयावंती लोयंसि विप्परामुसंति अट्टाए अणटाए, एएसु चेव विप्परामुसंति, गुरु से
उद्देशका कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे (सू० १४१) ।। १९८॥
__ 'आवन्ती'त्ति यावन्तो जीवा मनुष्या असंयता वा स्युः, 'केआवंति'त्ति केचन 'लोके' चतुर्दशरज्वात्मके गृहस्थान्य-5 तीर्थिकलोके वा षड्जीवनिकायान् आरम्भप्रवृत्ता विविधम्-अनेकप्रकारं विषयाभिलाषितया 'परामृशन्ति' उपतापयन्ति, दण्डकशताडनादिभिर्घातयन्तीत्यर्थः, किमर्थ विपरामृशन्तीति दर्शयति-'अर्थाय' अर्थार्थ अर्थाद्वा अर्थः-प्रयोजनं धर्मार्थकामरूपं, कर्मणि ल्यब्लोपे पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुत्प्रेक्ष्य प्राणिनो घातयन्ति, तथाहि-धर्मनिमित्तं शौचाथै पृथिवीकार्य समारभन्ते, अर्थार्थ कृष्यादि करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगं वाच्यं, अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छीलतयैव मृगयाद्याः प्राण्युपपातकारिणीः क्रियाः कुर्वन्ति, तदेवमर्थादनाद्वा प्राणिनो हत्वा एतेष्वेव-षड्जीवनिकायस्थानेषु विविधम्-अनेकप्रकारं सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रिदायीन प्राणिनस्तदुपघातकारिणः परामृशन्ति, तान् प्रपीड्य तेब्वेवानेकश उत्सद्यन्त इतियावत्, यदिवा तत्षड्जीवनिकायबाधाऽयाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्ण विपरामृशन्ति-अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति -"जावंति केइ लोए छक्कायवहं समारभंति अहाए अणहाए वा"इत्यादि, गतार्थ, स्याद्-असौ किमर्थमेवंविधानि क
-
-
---
॥१९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org