________________
131
%
ॐ%
ST
लोक..
अथ लोकसाराख्यं पञ्चममध्ययनम् । उक्तं चतुर्थमध्ययनं, साम्प्रतं पश्चममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सम्यक्त्वं प्रतिपादितं तदन्तर्गत च ज्ञानं, तदुभयस्य च चारित्रफलत्वात् तस्यैव च प्रधानमोक्षाङ्गतया लोकसारत्वात् तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारः प्रतिपिपादयिषुराहहिंसगविसयारंभग एगचरुत्ति न मुणी पढमगंमि । विरओ मुणित्ति बिइए अविरयवाई परिग्गहिओ ॥२३६॥ तइए एसो अपरिग्गहो य निविनकामभोगो य । अव्वत्तस्संगचरस्स पञ्चवाया चउत्थंमि ॥२३७॥ हरओवमो य तवसंघरगुत्ती निस्संगया य पंचमए । उम्मग्गवजणा छट्टगंमि तह रागदोसे य ॥ २३८॥ | हिनस्तीति हिंसकः आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः, व्यधिकरणस्यापि गमकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भको विषयारम्भक इति, हिंसकश्च विषयारम्भकश्चेति विगृह्य समाहारद्वन्द्वः, प्राकृतत्वात्पुंल्लिङ्गता, अयमों-हिंसकः प्राणिनां विषयारम्भकश्च विषयार्थ सावद्यारम्भप्रवृत्तश्च न मुनिः, तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमोद्देशके १, द्वितीये तु हिंसादिपापस्था-|
नकेभ्यो विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान् भवतीत्येतश्रीआचा- चात्रोद्देशके प्रतिपादयिष्यत इति २, तृतीये त्वेष एव विरतो मुनिरपरिग्रहो भवतीति निर्विण्णकामभोगश्चेत्ययमर्थाधिरावृत्तिः कारः ३, चतुर्थे त्वव्यक्तस्य-अगीतार्थस्य सूत्रार्थापरिनिष्ठितस्य प्रत्यपाया भवन्तीत्ययमाधिकारः ४, पश्चमके तु ह्रदो(शी०) पमेन साधुना भाव्यं, यथा हि ह्रदो जलभृतोऽप्रतिस्रवः प्रशस्यो भवति, एवं साधुरपि ज्ञानदर्शनचारित्रभृतो विस्रोत
सिकारहित इति, तथा तपःसंयमगुप्तयो निःसङ्गता चेत्ययमर्थाधिकारः ५, षष्ठे तून्मार्गवर्जना-कुदृष्टिपरित्यागः, तथा राग॥१९६॥
द्वेषौ च त्याज्यावित्ययमर्थाधिकारः ६, इति गाथात्रयार्थः॥ नामनिष्पन्ने तु निक्षेपेऽत्र द्विधा नाम-आदानपदेन गौणं चेति, एतत् द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाह___ आयाणपएणावंति गोण्णनामेण लोगसारुत्ति । लोगस्स य सारस्स य चउक्कओ होइ निक्खेवो ॥ २३९॥
आदीयते-प्रथममेव गृह्यत इत्यादानं तच्च तसदं च आदानपदं तेन करणभूतेनावन्तीत्येतनाम, अध्ययनादावावन्तीशब्दस्योच्चारणाद् , गुणैर्निष्पन्नं गोणं तच्च तन्नाम च गौणनाम तेन हेतुना लोकसार इति, लोकस्य-चतुई शरज्ज्वात्मकस्य सारः-परमार्थो लोकसारः द्विपदं नामेत्यतः लोकस्य सारस्य च प्रत्येकं चतुष्कको निक्षेपो भवति, तद्यथा-नामलोको यस्य कस्यचिल्लोक इति नाम क्रियते, स्थापनालोकश्चतुर्दशरज्ज्वात्मकस्य लोकस्य स्थापना गाथात्रयादवसेया, तञ्चतत्-तिरिअं चउरो दोसुं छद्दोसुं अट्ठ दस य एकेके । बारस दोसुं सोलस दोसुं वीसा य चउसुं तु ॥ १ ॥ पुणरवि सोलस दोसुं बारस दोसुं तु हुंति नायव्वा । तिसु दस तिसु अठच्छ य दोसु दोसुं तु चत्तारि ॥२॥ ओयरिअ लोअमज्झा चउरो चउरो य सम्वहिं णेया । तिअ तिअ दुग दुग एकेकगं च जा सत्तमीए उ ॥ ३॥ द्रव्यलोको जीवपुगलधर्माधर्माकाशकालात्मकः षडिधः भावलोकस्त्वौदयिकादिषड्भावात्मकः सर्वद्रव्यपर्यायात्मको वा । सारोऽपि नामादि चतुर्विधः, तत्र नामस्थापने सुगमत्वादनादृत्य द्रव्यसारप्रतिपादनायाह
सञ्चस्स थूल गुरुए मज्झे देसप्पहाण सरिराई । धण एरंडे वहरे खहरं च जिणादुरालाई ॥२४॥ ___ अत्र पूर्वार्द्धपश्चार्द्धयोर्यथासख्यं लगनीयं, सर्वस्वे धनं सारभूतं, तद्यथा-कोटिसारोऽयं पञ्चकपर्दकसारो वा, स्थूले एरण्डः सारः, सारशब्दोऽत्र प्रकर्षवाची, स्थूलानां मध्ये एरण्डो भिण्डो वा प्रकर्षभूतः, गुरुत्वे वज्र, मध्ये खदिरः, देशे | आम्रवृक्षो वेणुर्वा, प्रधाने यो यत्र प्रधानभावमनुभवति सचित्तोऽचित्तो मिश्रश्चेति, सचित्तो द्विपदश्चतुष्पदोऽपदश्चेति, द्विपदेषु जिनः चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तेषु वैडूर्यो मणिः, मिश्रेषु तीर्थकर एव विभूषितः, शरीरेष्वौदारिकं मुक्तिगमनयोग्यत्वाद्विशिष्टरूपापत्तेश्च, आदिग्रहणात् स्वामित्वकरणाधिकरणेषु सारता योज्या, तद्यथा-स्वामित्वे गोरसस्य घृतं सारभूतं, करणत्वे मणिसारेण मुकुटेन शोभते राजा, अधिकरणे दनि घृतं जले पद्ममुत्थितमित्यादिगाथार्थः ॥ भावसारप्रतिपादनायाह
भावे फलसाहणया फलओ सिद्धी सुहुत्तमवरिहा । साहणय नाणदंसणसंजमतवसा तहिं पगयं ॥ २४१॥ | "भावे' भावविषये सारे चिन्त्यमाने फलसाधनता सारः फलम्-अर्थक्रियावाप्तिस्तस्य साधनता फलसाधनता-फलाकार्थमारम्भे प्रवर्तन ततः फलावाप्तिः धानं, फलतोऽप्यनैकान्तिकानात्यन्तिकरूपात् सांसारिकात्सकाशात्तद्विपर्यस्तं फलं
सारः, किं तत् ?-सिद्धिः, किम्भूताऽसौ ?-'उत्तमसुखवरिष्ठा' उत्तम च तदात्यन्तिकैकान्तिकानाबाधत्वात् सुखं च
॥१९६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org