________________
श्रीआचाराङ्गवृत्तिः
(शी० ) ॥ १९४ ॥
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १९५ ॥
130
भोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् भोगान भावयतो 'मध्ये' वर्त्तमानकाले कुतो भोगेच्छा स्यात् ?, मोहनीयोपशमान्नैव स्यादित्यर्थः । यस्य तु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह - ' से हु' इत्यादि, 'हु:' यस्मादर्थे यस्मान्निवृत्तभोगाभिलाषस्तस्मात्स प्रज्ञानवान् प्रकृष्टं ज्ञानं प्रज्ञानं - जीवाजीवादिपरिच्छेत्तृ तद्विद्यते यस्यासौ प्रज्ञानवान्, यत एव प्रज्ञानत्रानत एव बुद्ध:- अवगततत्त्वो, यत एवम्भूतोऽत एवाह - ' आरंभोवरए' सावद्यानुष्ठान मारम्भस्तस्मादुपरत आरम्भोपरतः । एतच्चारम्भोपरमणं शोभनमिति दर्शयन्नाह - 'सम्म' मित्यादि, यदिदं सावद्यारम्भोपरमणं सम्यगेतत् शोभनमेतत् सम्यक्त्वकार्यत्वाद्वा सम्यक्त्वमेतदित्येवं पश्यत एवं गृह्णीत यूयमिति । किमि - त्यारम्भोपरमणं सम्यगिति चेदाह - 'जेण' इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं कशादिभिः 'घोरं ' प्राणसंशयरूपं 'परितापं' शारीरमानसं 'दारुणं' असह्यमवाप्नोत्यत आरम्भोपरमणं सम्यग्भूतं कुर्यात् किं | कृत्वेत्याह- 'पलिच्छिन्दि' इत्यादि, 'परिच्छिन्द्य' अपनीय, किं तत् ? - 'स्रोतः' पापोपादानं, तच्च बाह्यं धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपं वेति, किं च- 'णिक्कम्मदंसी' त्यादि, निष्क्रान्तः कर्म्मणो निष्कर्म्मा-मोक्षः संवरो वा तं द्रष्टुं शीलमस्येति निष्कर्म्मदर्शी, 'इहे'ति संसारे मर्त्येषु मध्ये य एव निष्कर्ष्मदर्शी स एव बाह्याभ्यन्तरस्रोतसश्छेत्तेति स्यात् । किमभिसन्ध्य स बाह्याभ्यन्तरसंयोगस्य छेत्ता | निष्कर्म्मदर्शी वा भवेत् इत्यत आह- 'कम्माणं' इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते - बध्यन्त इति क| म्र्माणि-ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्म्मदर्शी वेदविद्वा कर्म्मणां फलं दृष्ट्वा तेषां च फलं -ज्ञानावरणीयस्य ज्ञानावृतिः दर्शनावरणस्य दर्शनाच्छादनं वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि, ननु च न सर्वेषां कर्म्मणां विपाकोदय मिच्छन्ति, प्रदेशानुभवस्यापि सद्भावात् तपसा च क्षयोपपत्तेरित्यतः कथं कर्म्मणां सफलत्वं ?, नैष दोषो, नात्र प्रकारकात्सूर्यमभिप्रेतम्, अपितु द्रव्यकात्सूर्य, तच्चास्त्येव, तथाहि - यद्यपि प्रतिबन्धव्यक्ति न विपाकोदयस्तथाप्यष्टानामपि कर्मणां सामान्येन सोऽस्त्येवेत्यतः कर्म्मणां सफलत्वमुपलभ्यते, तस्मात् कर्म्मणस्तदुपादानादात्रवाद्वा निश्चयेन याति निर्याति-निर्गच्छति, तन्न विधत्त इतियावत्, कोऽसौ ? - ' वेदविद्' वेद्यते सकलं चराचरमनेनेति वेद:आगमस्तं वेत्तीति वेदवित. सर्वज्ञोपदेशवर्त्तीत्यर्थः ॥ न केवलस्य ममैवायमभिप्रायः, सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह
जे खलु भो ! वीरा ते समिया सहिया सयाजया संघडदंसिणो आओवरया अहातहं लोयं उवेहमाणा पाईणं पडिणं दाहिणं उईणं इय सच्चंसि परि (चिए) चिहिंसु, सा. हिस्सामो नाणं वीराणं समियाणं सहियाणं सयाजयाणं संघडदंसीणं आओवरयाणं अहातहं लोयं समुवेहमाणाणं किमत्थि उवाही ?, पासगस्स न विज्जइ नत्थित्तिबेमि (सू०१४०) ॥ चतुर्थे चतुर्थः ४-४ । इति सम्यक्त्वाध्ययनम् ॥ ४ ॥ यदिवा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रं च अधुना तत्फलमुच्यते- 'जे खलु' इत्यादि, खलुशब्दो वाक्याल - ङ्कारे, ये केचनातीतानागतवर्त्तमानाः 'भो' इत्यामन्त्रणे 'वीराः ' कम्र्म्मविदारणसहिष्णवः समिताः समितिभिः सहिता | ज्ञानादिभिः सदा यताः सत्संयमेन 'संघडदंसिणो 'ति निरन्तरदर्शिनः शुभाशुभस्य आत्मोपरताः पापकर्म्मभ्यो यथा तथा अवस्थितं 'लोकं' चतुर्द्दशरज्वात्मकं कर्म्मलोकं वोपेक्षमाणाः - पश्यन्तः सर्वासु प्राच्यादिषु दिक्षु व्यवस्थिता इत्येवंप्रकाराः 'सत्य' मिति ऋतं तपः संयमो वा तत्र परिचिते - स्थिरे तस्थुः स्थितवन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या, तत्रातीते काले अनन्ता अपि सत्ये तस्थुः वर्त्तमाने पञ्चदशसु कर्मभूमिषु सङ्ख्येयास्तिष्ठन्ति अनागते अनन्ता अपि स्थास्यन्ति तेषां चातीतानागतवर्त्तमानानां सत्यवतां यज्ज्ञानं योऽभिप्रायस्तदहं कथयिष्यामि भवतां शृणुत यूयं, किम्भूतानां तेषां ? - 'वीराणा' मित्यादीनि विशेषणानि गतार्थानि किम्भूतं ज्ञानमिति चेदाह किं प्रश्ने 'अस्ति' विद्यते ?, कोऽसौ ? - ' उपाधिः ' कर्म्म जनितं विशेषणं, तद्यथा - नारकस्तिर्यग्योनः सुखी दुःखी सुभगो दुर्भगः पर्याप्तकोऽपर्याप्तक | इत्यादि, आहोस्विन्न विद्यत इति परमतमाशङ्क्य त ऊचुः - 'पश्यकस्य' सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः स एव पश्यकस्तस्य कर्म्मजनितोपाधिर्न विद्यते, इत्येतदनुसारेणाहमपि ब्रवीमि न स्वमनीषिकयेति । गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशको, नयविचारातिदेशात् समाप्तं सम्यक्त्वाध्ययनं चतुर्थमिति ॥ ग्रं० ६२० ॥
Jain Education International
For Private Personal Use Only
सम्य● ४
उद्देशकः३
॥ १९४ ॥
सम्य० ४
उद्देशकः
॥ १९५ ॥
www.jainelibrary.org