________________
-
129
*
तत् ?-उपशम-इन्द्रियनोइन्द्रियजयरूपं संयम वा 'गत्वा' प्रतिपद्यापीडयेदिति वर्त्तते, इदमुक्तं भवति-असंयमं त्यक्त्वा संयम प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यतः कर्मापीडनार्थमुपशमप्रतिपत्तिस्ता|तिपत्तौ चाविमनस्कतेत्याह-'तम्हा' इत्यादि, यस्मात्कर्मक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकषायादिष्वरतौ वा मनो यस्य स विमना यो न तथा सोऽविमनाः, कोऽसौ?, वीरः कर्मविदारणसमर्थः, । अविमनस्कत्वाच्च यत्स्यात्तदाह-'सारए' इत्यादि, सुष्टवा-जीवनमर्यादया संयमानु-18 छाने रतः स्वारतः, पञ्चभिः ममितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो या सहितः, 'सदा' सर्वकालं सकृदारोपितसंयमभारः संस्तत्र ‘यतेत' यत्नवान् भवेदिति । किमर्थ पुनः पौनःपुन्यन संयमानुष्ठानं प्रत्युपदेशो दीयते । इत्याह-'दुरनुचरो' इत्यादि, दुःखेनानुचर्यत इति दुरनु-नरः, कोऽसौ ?-मार्गः-संयमानुष्ठानविधिः, केषां ?-'वीराणाम्' अप्रमत्तयतीनां, किम्भूतानामित्याह-'अणियट्ट' इत्यादि, अनिवों-मोक्षस्तत्र गन्तुं शीलं येषां ते तथा तेषामिति, यथा * च तन्मार्गानुचरणं कृतं भवति तद्दर्शयति-विगिंच' इत्यादि, मांस' शोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना 'विवेचय' पृथक्कुरु, तद्भासं विधेहीतियावत् , एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः । यश्चैवम्भूतः स के गुणमवाप्नुयादित्याह-'एस' इत्यादि, 'एष' मांसशोणितयोरपनेता पुरि शयनात् पुरुषः द्रवः-संयमः स विद्यते यस्यासौ द्रविका, म. त्वर्थीयष्ठन् , द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात् , कर्मारिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मंदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामिति । किं च 'आयाणिजे' इत्यादि, स वी-1
द्रष्टव्यः, तनावभाविवाष्णवादीर इति, मांसशील यस्यासौ दविका, म
मा.सू. ३३
काक
तक
श्रीआना-राणां मार्ग प्रतिपन्नः मांसशोणितयोरपनेता मुमुक्षूणामादानीयो-ग्राह्य आदेयवचनश्च व्याख्यात इति। कश्चैवम्भूत इत्याह || सम्य०४ निवृत्तिः -'जे धुणाई' इत्यादि, 'ब्रह्मचर्ये' संयमे मदनपरित्यागे वोषित्वा यः 'समुच्छ्रयं' शरीरकं कर्मोपचयं वा तपश्चरणा(शी०) दिना 'धुनाति' कृशीकरोति स आदानीय इति विविधमाख्यातो व्याख्यात इति सम्बन्धः ॥ उक्ता अप्रमत्ताः, तद्विध
शर्मणस्तु प्रमत्तानभिधित्तुराह||१९३ ॥
___ नित्तेहिं पलिच्छिन्नेहिं आयाण सोयगढिए बाले, अवोच्छिन्नबंधणे अणभिकंतसंजोए
तमंसि अवियाणओ आणाए लंभो नस्थि तिबेमि ( सू० १३८) नयत्यर्थदेशम्-अर्थक्रियासमर्थमर्थमाविर्भाश्यन्तीति नेत्राणि-चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः-यथास्वं विषयग्रहणं प्रति निरुद्धैः सद्भिरादानी योऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानस्रोतोगृद्धः-आदीयते-सावद्यानुष्ठानेन स्वीकि-1, यत इत्यादानं-कर्म संसारबीजभूतं तस्य स्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतियमादकवाययोगा वा तेषु गृद्धःअध्युपपन्नः स्यात्, कोऽसौ ?-वालः' अज्ञः रागद्वेषमहामोहाभिभूनान्तःकरणः। यश्चादानस्रोतोद्धः स किम्भूतः स्यादित्याह-'अब्बोच्छिन्नबंधणे' इत्यादेि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम्-अष्टप्रकारं कर्म यस्य स तथा, किं च -'अणभिकंत' इत्यादि, अनभिकान्तः-अनति लड्वितः संयोगो धनधान्य हिरण्यपुत्र कलवादिकृतोऽसंयमसंयोगो वा
॥१९ ॥ येनासावनभिकान्तसंयोगः तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षोपायं वाऽविजानत आज्ञायाः-तीर्थकरोपदेशस्य लाभो नास्तीत्येतदहं ब्रवीमि तीर्थकरवचनोपलब्धसद्भाव इति, यदिवाऽऽज्ञा बोधिः सम्यक्त्वम्, अस्तिशब्दश्चायं निपातस्त्रिकालविषयी, तेनायमर्थः-तस्यानभिकान्तसंयोगस्य भावतमसि वर्तमानस्य बोधिलाभो नासीनास्ति न भावीति । एतेदवाह
जस्स नत्थि पुरा पच्छा मज्झे तस्स कुओ सिया ?, से हु पन्नाणमंते बुद्धे आरंभोवरए, संममेयंति पासह, जेण बंधं वहं घोरं परियावं च दारुणं पलिछिंदिय बाहिरगं च सोयं,
निकंमदंसी इह मच्चिएहिं, कम्माणं सफलं दट्टण तओ निजाइ वेयवी (सू० १३९) यस्य कस्यचिदविशेषितस्य कर्मादानस्रोतोगृद्धस्य बालस्याव्यवच्छिन्नबन्धनस्यानभिकान्तसंयोगस्याज्ञानतमसि वर्तमानस्य 'पुरा' पूर्वजन्मनि बोधिलाभो नास्ति-सम्यक्त्वं नासीत् 'पश्चादपि' एण्येऽपि जन्मनि न भावि 'मध्ये मध्यजन्मनि तस्य कुतः स्यात् इति ?, एतदुक्तं भवति-यस्यैव पूर्व बोधिलाभः संवृत्तो भविष्यति वा त त्यैव वर्तमानकाले भवति, येन हि सम्यक्त्वमास्वादितं पुनर्मिथ्यात्वोदयात्तच्यवते तस्यापार्द्धपुद्गलपरावर्तेनापि कालेनावश्यं तत्सद्भावात्, न ह्ययं सम्भवोऽस्ति प्रच्युतस्य सम्यक्त्वस्य पुनरसम्भव एवेति, अथवा निरुद्धेन्द्रियोऽपि आदानस्रोतोगृद्ध इत्युक्तः, तद्विपर्ययभूतस्य त्वतिक्रान्तसुखस्मरणमकुर्वतः आगामि च दिव्याङ्गनाभोगमनभिकाङ्कतो वर्तमान सुखाभिष्वङ्गोऽपि नैव स्यादित्वेतदर्शयितुमाह-'जस्स नत्थि' इत्यादि, यस्य भोगविपाकवेदिनः पूर्वभुकानुस्मृतिर्नास्ति नापि पाश्चात्य काल
+sce-%ACCANALOOK
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org