________________
-
-
128
श्रीआचारावृत्तिः (सी०)
*** *
सम्य०४
उद्देशका
॥१९१॥
भस्मसात् करोति, दृष्टान्तं प्रदर्श्य दार्शन्तिकमाह-एवं अत्तसमाहिए' 'एवम्' अनन्तरोक्तदृष्टान्तप्रकारेणात्मना समाहितः आत्मसमाहितः, ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः, सदा शुभव्यापारवानित्यर्थः, आहिताग्यादिदर्शनादापत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः, 'अनिहः' स्नेहरहितः संस्तपोऽग्निना कर्मकाष्ठं दहतीति भावार्थः ॥ एतदेव दृष्टान्तदान्तिकगतमर्थ नियुक्तिकारो गाथयोपसञ्जिघृक्षुराहजह खलु झुसिरं कहूँ सुचिरं सुकं लहुं डहइ अग्गी। तह खलु खवंति कम्मं सम्मचरणे ठिया साह॥२३४॥ __गतार्था । अत्र चास्त्रिहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह-'विगिंच कोह'मित्यादि, कारणेऽकारणे वातिराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्य कम्पनं तत्प्रतिषेधं दर्शयति-अविकम्पमानः ॥ किं विगणय्यैतत्कुर्या|| दित्याह
इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाई च फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहिं अणियाणा ते वियाहिया,
तम्हा अतिविज्जो नो पडिसंजलिजासि तिबेमि (सू० १३६) चतुर्थे तृतीयः॥४-३॥ 'इदं' मनुष्यत्वं 'निरुद्धायुष्क' निरुद्धं-परिगलितमायुष्क 'सम्प्रेक्ष्य पर्यालोच्य क्रोधादिपरित्यागं विदध्यात्, किं च -दुक्ख' मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसं दुःखमुत्पद्यते तजानीहि, तजनितकर्मविपाकापादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेरित्यर्थः, आगामिदुःखस्वरूपमाह-'पुढो' इत्यादि, पृथक् सप्तमनरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु 'स्पर्शान्' दुःखानि, चः समुच्चये, न केवलं क्रोधाध्मातस्तस्मिन्नेव क्षणे दुःखमनुभवतीत्यागामीनि पृथग् दुःखानि च स्पृशेद्-अनुभवेत् , तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्येतदाह-'लोयं च' इत्यादि, न केवलं क्रोधादिविपाकादात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापन्नं विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतीकाराय धावन्तं 'पश्य' विवेकचक्षुषाऽवलोकय । ये त्वेवं न ते किम्भूता भवन्तीत्यत आह-'जे निव्वुडा' इत्यादि, ये तीर्थकरोपदेशवासितान्तःकरणा विषयकषायाम्युपशमानिवृताःशीतीभूताः पापेषु कर्मसु 'अनिदानाः' निदानरहितास्ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह-'तम्हा' इत्यादि, यस्माद्रागद्वेषाभिभूतो दुःखभाग्भवति तस्मादतिविद्वान्विदितागमसद्भावः सन्न प्रतिसवले:-क्रोधाग्निनाऽऽत्मानं नोद्दीपयेः, कषायोपशमं कुर्वित्यर्थः । इतिरधिकारपरिसणप्तौ, अवीमीति पूर्ववत्, सम्यक्त्वाध्ययने तृतीयोदेशकटीका समाप्तेति ।
॥॥१९
॥
*SATTACK+CAN+KA+NAGAR%%AAR
श्रीआचारावृत्तिः (शी०)
॥१९२॥
उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानम्सरोदेशके निरवधं तपोऽभिहितं, तश्चा-18 विकलं सत्संयमव्यवस्थितस्य भवतीत्यतः संयमप्रतिपादनाय चतुर्थोद्देशक इत्यनेन सम्बन्धेनायातस्यास्योद्देशस्यादि सूत्रम्
आवीलए पवीलए निप्पीलए जहित्ता पुव्वसंजोगं हिच्चा उवसमं, तम्हा अविमणे सम्य०.४ वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियगामीणं, उहशका३ विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिज्जे वियाहिए, जे धुणाइ
समुस्सयं वसित्ता बंभचेरंसि (सू० १३७) आडीषदर्थे, ईषत्पीडयेद् अविकृष्टेन तपसा शरीरकमापीडयेद्, एतच्च प्रथमप्रव्रज्याऽवसरे, तत ऊद्धेमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेरपीडयेत्, पुनरध्यापितान्तेवासिवर्गः सक्रामितार्थसारः शरीरं तित्यक्षु
सार्द्धमासक्षपणादिभिः शरीरं निश्चयेन पीडयेन्निष्पीडयेत्, स्यात्-कर्मक्षयार्थ तपोऽनुष्ठीयते, स च पूजालाभख्यात्यर्थेन तपसा न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इत्यतोऽन्यथा व्याख्यायते-कम्मैव कार्मणशरीरं वा आपीडयेत्प्रपीडये-|| निष्पीडयेत् ,अत्रापीषदर्थादिका प्रकर्षगतिरवसेया,यदिवा आपीडयेत्कर्म अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिषु गुणस्थानकेषु, ततोऽपूर्वकरणानिवृत्तिबादरयोः प्रपीडयेत् , सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत् , अथवा आपीडनमुपशमश्रेण्यां प्रपीडनं क्षपक श्रेण्यां निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैतत्कुर्यादित्याह-'जहिता' इत्यादि, पूर्वः संयोगः पूर्वसंयोगो-धनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा पूर्वः-असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं त्यक्त्वा 'आवीलये'दित्यादिसम्वन्धः, किं च-'हिच्चा'इत्यादि, "हि गता'वित्यस्मात् पूर्वकाले क्त्वा 'हित्वा' गत्वा, किं|
हा॥१९२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org